कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ताम्राक्ष

tāmrākṣaपुं · masc.

In 9 kośas: 10 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1322 · p. 50
वनप्रियः परभृतस्ताम्राक्षः कोकिलः पिकः ।कलकण्ठः काकपुष्टः काकोऽरिष्टः सकृत्प्रजः ॥ १३२१ ॥आत्मघोषश्चिरजीवी घूकारिः करटो द्विकः ।एकदृग्बलिभुग्ध्वाङ्क्षो मौकुलिर्वायसोऽन्यभृत् ॥ १३२२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम सिंहाधिकारश्चतुर्थस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 4.8 · p. 26
रजको वक्रनासश्च धीमान् धीर इतीर्यते ।ताम्राक्षः स्यादन्यभृतो वसन्तागमवाक्कविः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.137 · p. 332
घोषयित्नुः कामतालो मदोल्लापी रतोद्वहः ।सुतर्दनोऽपि ताम्राक्षः कलकण्ठा कुनालिकः ॥ १३७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.93 · p. 197
जी[71a]वंजीवस्तु गुन्द्रालो विषदर्शनमूर्छकः ।ज्योत्स्नाप्रियश्चकोरः स्यात्ताम्राक्षो विषसूचकः ॥ ९३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 वं (syllables merged)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.9 · p. 199
कोकिलः क[72a]लकण्ठः स्यान्मधुकण्ठः कुहूमुखः ।रसालगाली ताम्राक्षो ध्वाङ्क्षबन्धुश्च वाशरः ॥ ९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.223 · p. 80
मेचकश्चन्द्रकस्तुल्यौ कोकिलो वनवल्लभः ।काकपुष्टः पिककः कालकण्ठस्ताम्राक्ष इत्यपि ॥ २२३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2392 · p. 386
ताम्राक्षः कामतालो वै काकजातस्तथैव च ।मदोल्लापी पिकश्चापि परपुष्टो वनप्रियः ॥ २३९२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.50 · p. 85
परपुष्टः परभृतः कामजनिः सुतर्दनः ।ताम्राक्षः कलघोषः स्याच्चूतबन्धुर्मधुस्वरः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज (wrong syllable)
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सिंहादिवर्गः Trikāṇḍaśeṣa 2.5.18 · p. 46
कुक्कुटस्तु विवृताक्षो रात्रिवेदी कलाविकः ।उषाकलोऽथ ताम्राक्षः काकपुष्टः कुहूमुखः ॥ १८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वृ (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.26 · p. 28
पात्रं तु कुण्डृणाची स्त्री कण्ठपालस्तु वण्ञ्जुलः ।काकपुष्टस्त्वन्यभृतस्ताम्राक्षः कोकिलः पिकः ॥ २६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त्व (wrong syllable)
genderपुंmasc.