कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

धीमत्

dhīmatपुं · masc.

In 14 kośas: 13 synonym verses, 1 as a nānārtha head word, 4 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.6
धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः ।दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.332 · p. 39
धीरो धीमान् लब्धवर्णो विपश्चिद्,वृद्धो विद्वान् प्राप्तरूपोऽभिरूपः ।सूरिः प्राज्ञः पण्डितः सन्मनीषी,ज्ञो दोषज्ञः कोविदः स्यात्प्रबुद्धः ॥ ३३२ ॥
शालिनी
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षोडशोपदेशः Bālaprabodhikā 16.333 · p. 96
सुधीर्विपश्चित्सङ्ख्यावान्प्राज्ञो धीमान्विचक्षणः ।विद्वान् सन्कोविदः सूरिः मेधावी पण्डितो बुधः ॥ ३३३ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम सिंहाधिकारश्चतुर्थस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 4.8 · p. 26
रजको वक्रनासश्च धीमान् धीर इतीर्यते ।ताम्राक्षः स्यादन्यभृतो वसन्तागमवाक्कविः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम मनुष्याधिकारः पञ्चमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 5.5 · p. 27
सुधीर्विपश्चित् संख्यावान् प्राज्ञो धीमान्विचक्षणः ।दीर्घदर्शी दूरदर्शी लब्धवर्णफलं हविः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.48 · p. 74
धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः ।धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.11 · p. 54
शुश्रूषा स्त्री श्रवणं क्लीबे ग्रहणं धारणमूहोऽपोहः ।अर्थज्ञानं सत्त्वज्ञानं बुद्धेरन्ते गदिता हि गुणाः ।धीमा[35a]न्धीरो मनीषी बुध-विबुध-सुधी-सद्-विदद्-वादि-वेदि-प्रज्ञ-प्राज्ञ-प्रबुद्धाः कवितृ-कवयितृ-प्राप्तरूपाभिरूपाः ।ज्ञो मेधावी सुमेधाः कवि-कृतिविदथ व्यक्त-दोषज्ञ-विद्वत्-संख्यावल्लब्धवर्णाः सुधिषण-मतिमत्-सूरिणः कृष्टि-सूरी ॥ ११ ॥
स्रग्धराmetre not read in every line
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.149 · p. 27
सुधीर्विपश्चित्संख्यावान्प्राज्ञो धीमान्विचक्षणः ।दीर्घदर्शी दूरदर्शी लब्धवर्णः पलंहतिः ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.114 · p. 31
पण्डितः कोविदः प्राज्ञो धीमान्विद्वान्बुधः सुधीः ।कृती मनीषी मेधावी कविः सूरिर्विशारदः ॥ ११४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.503 · p. 64
लब्धवर्णोऽभिरूपश्च धीमान् धीरः सुधीर्बुधः ।ज्ञः प्राज्ञश्च प्रबुद्धश्च व्यक्तो विचक्षणस्तथा ॥ ५०३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.11 · p. 111
मनीषी सन् सुधीर्वेदी बुद्धो बृद्धो विधानगः ।दोषज्ञः प्रज्ञिलो धीमान् ज्ञः प्राज्ञः कृष्णिरित्यपि ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.267 · p. 36
विद्वान्सूरिर्लब्धवर्णो विपश्चित्प्राज्ञो धीरः पण्डितः प्राप्तरूपः ।धीमान्कृष्टिर्दीर्घदर्शी कविर्ज्ञो दोषज्ञः सन् दूरदर्शी मनीषी ॥ २६७ ॥
शालिनी
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.234 · p. 102
विद्वान् सन् कोविदः सूरिर्मेधावी पण्डितो बुधः ।सुधीर्विपश्चित् संख्यावान् प्राज्ञो धीमान्विचक्षणः ॥ २३४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.26 · p. 222
धीमान्गीर्पतिविज्ञयोरथ भवेद्भास्वान् रवौ भासुरेदोह्यायां गवि सुव्रतापि सुखतः सुष्ठुव्रते त्वन्यवत् ।वाच्याभं विवृतं स्फुटे च पिटिकाभेदे भवेत्तत्स्त्रियांकान्तायां वनिता स्त्रियामपि पराभा त्वर्थिते सेविते ॥ २६ ॥
शार्दूलविक्रीडितम्

धीमत् as a meaning in nānārtha verses