All kośas › Nānārthasaṅgraha
नानार्थसङ्ग्रह Nānārthasaṅgraha
749 verses · text only, tagging comes next
Part 1
॥ श्रीः ॥
॥ नानार्थसङ्ग्रहः ॥
॥ अजयपालविरचितः ॥
जयन्ति शास्तुः पदपङ्कजाङ्कुराः नखांशवश्चन्द्रमरीचिकोमलाः ।विनम्रदेवासुरमौलिषु श्रियं वहन्ति ये प्रस्फुटमालतीस्रजः ॥ १ ॥
1 · p. 1
वंशस्थम्
वीक्ष्य पूर्वकविग्रन्थानकाराद्यादिभिः पदैः ।क्रमादजयपालेन कृतो नानार्थसङ्ग्रहः ॥ २ ॥
2 · p. 1
अनुष्टुप्
सर्वत्रादावनेकार्थः प्रथमान्तोऽत्र दर्शितः ।वर्तमानः सप्तम्यन्ते सप्तम्यन्तैरभेदिते ॥ ३ ॥
3 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
त्रिष्वेव बहुवचनं कृतं न चतुरादिषु ।विना लिङ्गविशेषेण नैवात्र पुनरुक्तता ॥ ४ ॥
4 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ब (wrong syllable)