कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthasaṅgraha

नानार्थसङ्ग्रह Nānārthasaṅgraha

749 verses · text only, tagging comes next

हकारः

॥ इति दन्त्यसकारादिवर्णः समाप्तः ॥

हरिः सिंहार्कभेकेषु शुके विष्णौ यमेऽनिले ।इन्द्रे चन्द्रे कपावीशे स्वर्णवर्णाहिराजिषु ॥ १ ॥
38.1 · p. 98
अनुष्टुप्
हंसो निर्लोभे भूपाले भास्करे विहगान्तरे ।योनिभेदे विशुद्धे च श्रेष्ठे राजादिपूर्वकः ॥ २ ॥
38.2 · p. 98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भे (wrong syllable)
हृषितः सह हृष्टेन जातहर्षेऽथ विस्मिते ।मनोहरे च रोमाञ्चे हुतिः शास्त्रे तथार्चिषि ॥ ३ ॥
38.3 · p. 98
अनुष्टुप्
हिरणं च हिरण्यं च स्यादकुप्ये कपर्दके ।धान्यमानान्तरे हेम्नि ह्रादिनी पविविद्युतोः ॥ ४ ॥
38.4 · p. 98
अनुष्टुप्
हृद्यं हृत्प्रिये हृज्जाते वशमन्त्रे च हृद्यते ।हेरम्बो गजवक्त्रे च महिषे प्रथमान्तरे ॥ ५ ॥
38.5 · p. 98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ये (wrong syllable)
हस्तिमल्ल इति ख्यातः शक्रनागे विनायके ।हायनो वत्सरे प्रोक्तः तथा व्रीहिमयूखयोः ॥ ६ ॥
38.6 · p. 98
अनुष्टुप्
हस्तः शुण्डायां नक्षत्रे करे केशात्परे चये ।हस्तनिर्यास उद्दिष्टं निम्बे हिङ्गुरसेऽपि च ॥ ७ ॥
38.7 · p. 98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 यां (wrong syllable)
हरिणी हेममये मृग्ये हरिद्रायामपि क्वचित् ।हेषणः स्याच्छिलाभेदे स्वर्णकृत्कृकलासयोः ॥ ८ ॥
38.8 · p. 98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
हरिचन्दनमाख्यातं कुङ्कुमे देवपादपे ।हरिदस्वान्तरे वर्णे तृणे ककुभि कथ्यते ॥ ९ ॥
38.9 · p. 98
अनुष्टुप्
हृदयं वक्षसि स्वान्ते हेलावज्ञाभिलाषयोः ।हैमवत्युमावचसोर्हवो हृद्याज्ञयोर्मुखे ॥ १० ॥
38.10 · p. 98
अनुष्टुप्metre not read in every line
हनू रङ्गान्तरौषध्योर्हरणं यौतके हृतौ ।हठस्तु प्रसभे पार्ष्णौ हरिणः पाण्डरे मृगे ॥ ११ ॥
38.11 · p. 99
अनुष्टुप्
हविः सर्पिषि होतव्ये हिंसा चौर्यादिके वधे ।हिमं शीतेऽपि शिशिरे हारौ मुक्तावलौ हृतौ ॥ १२ ॥
38.12 · p. 99
अनुष्टुप्
अतोऽव्ययानि कथ्यन्ते हन्तशब्दोऽनुकल्पने ।वाक्यारम्भे विषादे च हर्षार्थे च प्रयुज्यते ॥ १३ ॥
38.13 · p. 99
अनुष्टुप्
हि कारणे विशेषे च तथावधारणेऽपि च ।हा खेदेऽशुचिपीडायां हुं परिप्रश्नतर्कयोः ॥ १४ ॥
38.14 · p. 99
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)