All kośas › Nānārthasaṅgraha
नानार्थसङ्ग्रह Nānārthasaṅgraha
749 verses · text only, tagging comes next
ऊकारः
॥ इत्युकारः ॥
ऊर्णा स्यात् भ्रूमध्यलोम्नामावर्ते मेषलोमनि ।ऊर्णायुरूर्णनाभे च मेषे च मेषकम्बले ॥ १ ॥
6.1 · p. 17
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 च (wrong syllable)
ऊर्जः कार्त्तिकमासेऽपि तथोत्साहेऽपि भाषितः ।ऊर्मिर्वीचावुत्पीडायामूतिः स्मृतौ[स्यूतौ] च रक्षणे ॥ २ ॥
6.2 · p. 17
अनुष्टुप्metre not read in every line