कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthasaṅgraha

नानार्थसङ्ग्रह Nānārthasaṅgraha

749 verses · text only, tagging comes next

यकारः

॥ इति मकारः ॥

युतकं यौतके युक्ते चलनाग्रे च संशये ।स्त्रीणां वस्त्रान्तरे चैव युगले वसनाञ्चले ॥ १ ॥
31.1 · p. 73
अनुष्टुप्
योगो ध्याने जये लाभे युक्तौ विश्रब्धघातिनि ।सङ्गे समुच्चये चापि युक्ते चैव गुरौ तथा ॥ २ ॥
31.2 · p. 73
अनुष्टुप्
योजनगन्धा तु वैदेहीकस्तूरीव्यासमातृषु ।यातयामपदं जीर्णे परिभुक्तोज्झिते तथा ॥ ३ ॥
31.3 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
युगं युग्मे च सत्यादौ चतुर्हस्तरथाङ्गयोः ।यमो नित्यशरीरार्थकृते यमजकालयोः ॥ ४ ॥
31.4 · p. 73
अनुष्टुप्
यष्टिः शस्त्रे मधूयष्ट्यां योनिराकरगुह्ययोः ।यादःपतिः पाशिन्यब्धौ युतं युक्ते तथा पृथक् ॥ ५ ॥
31.5 · p. 73
अनुष्टुप्
याजनं वर्तने क्षेपे यन्ता हस्तिपयूथयोः ।यागार्हे याजनीये च ययुरश्वमखाश्वयोः ॥ ६ ॥
31.6 · p. 73
अनुष्टुप्
यतिः करे तापसे च यक्षः श्रीदेवगुह्यके ।योगाभ्यासे योगोऽयं यात्रा याचने च वर्तते[?] ॥ ७ ॥
31.7 · p. 73
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 से (syllables merged)
यथाशब्दोऽव्ययं तुल्ये कथ्यते च निदर्शने ।यावन्माने च साकल्ये सीमायां चावधारणे ॥ ८ ॥
31.8 · p. 73
अनुष्टुप्