All kośas › Nānārthasaṅgraha
नानार्थसङ्ग्रह Nānārthasaṅgraha
749 verses · text only, tagging comes next
सकारः
॥ इति षकारः ॥
स्यात्संसरणं संसारे नगरस्योपविक्रमे ।रथादीनां च संकीर्णगमने संसृतावपि ॥ २ ॥
37.2 · p. 90
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णं (wrong syllable)
संविद्बुद्धौ प्रतिज्ञायामाचारे नाम्नि तोषणे ।संभाषणे क्रियाकारे सङ्केतज्ञानयोरपि ॥ ३ ॥
37.3 · p. 90
अनुष्टुप्
सरस्वती स्यात् स्त्रीरत्ने नद्यां नद्यन्तरे गवि ।भारत्यां तु रसज्ञायां नदसागरयोरपि ॥ ४ ॥
37.4 · p. 90
अनुष्टुप्
समयः शपथाचारे सिद्धान्तेषु च संपदि ।क्रियाकारेऽथ निर्देशे संकेते कालभावयोः ॥ ५ ॥
37.5 · p. 90
अनुष्टुप्
सत्वं द्रव्ये चात्मभावे व्यवसायस्वभावयोः ।पिशाचादौ गुणे प्राणे बले जन्तौ च वेतसि ॥ ६ ॥
37.6 · p. 90
अनुष्टुप्
सङ्गवः संश्रये युद्धे क्रियाकारे तथापदि ।सङ्गरं वृषभेदे तु दृश्यते च शमीफले ॥ ७ ॥
37.7 · p. 90
अनुष्टुप्
स्थपतिः सौविदल्ले स्यात् बृहस्पतीष्टयाजिषु ।धनदे शिल्पिभेदे च स्तननं कुन्तले ध्वनौ ॥ ८ ॥
37.8 · p. 90
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्प (wrong syllable)
सैरन्धी परवेश्मस्थस्वतन्त्रशिल्पियोषिति ।वर्णसंकरजातायां स्वामीपतिविशाखयोः ॥ १० ॥
37.10 · p. 91
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्त्र (wrong syllable)
स्फुटो व्यक्ते विकसिते व्याप्ते शुक्रेऽपि दृश्यते ।समूढः पुञ्जे भव्ये च सद्योजाते निरुत्प्लुते ॥ ११ ॥
37.11 · p. 91
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ञ्जे (wrong syllable)
संकुलाख्या भवेद्व्यातौ युद्धविस्पष्टवाक्ययोः ।सूनृतं स्यात् प्रिये सत्ये वचने मङ्गले तथा ॥ १२ ॥
37.12 · p. 91
अनुष्टुप्
सुमनाः पण्डिते पुष्पे मालतीदेवयोरपि ।संभ्रमो भयसंवेगगौरवेषु महाद्रुमे ॥ १३ ॥
37.13 · p. 91
अनुष्टुप्
सूत्रे च [सूत्रश्च] सूचनादृष्टो व्यबधाने नये तथा ।सौम्यः सोमात्मजे चारौ कथितः सोमदैवते ॥ १४ ॥
37.14 · p. 91
अनुष्टुप्
सुरभिर्गवि चैत्रे च सुगन्धे घ्राणतर्पणे ।सार्वभौमो दिशां नागभेदे सर्वमहीभुजि ॥ १५ ॥
37.15 · p. 91
अनुष्टुप्
समुन्नद्धो गर्विते च पण्डितंमन्य ईश्वरे ।सन्धिनामा नदीमद्यसुरङ्गासु च कथ्यते ॥ १६ ॥
37.16 · p. 91
अनुष्टुप्
साधृतं बर्हिसंघाते पण्यवीथ्यातपत्रके ।समुदायः समूहे स्यात् समये च समुद्गमे ॥ १७ ॥
37.17 · p. 91
अनुष्टुप्
सालः सर्जतरौ वृक्षे प्राकारेऽपि प्रयुज्यते ।स्पर्शो दाने रुजायां च स्पशके स्पर्शने तथा ॥ १८ ॥
37.18 · p. 91
अनुष्टुप्
संज्ञा संकेतगायत्रीचेतनासु च नामनि ।सिन्धुर्नदे समुद्रे च मद्रदेशनदीषु च ॥ १९ ॥
37.19 · p. 91
अनुष्टुप्
सर्गो निश्चये निर्माणे प्रोत्साहाध्याययोरपि ।सौदामिनी पुरीभेदे चञ्चलायां प्रकीर्तिता ॥ २० ॥
37.20 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ये (wrong syllable)
समाहृयः समाघाते युद्धे च पशुपक्षिभिः ।सरकं सीधुपानेक्षुसीधुनोर्मद्यभाजने ॥ २१ ॥
37.21 · p. 92
अनुष्टुप्
सम्बन्धः समृद्धे शक्ते हिते न्याये च कथ्यते ।स्कन्दो महीपतावंशे समुच्चये च संहतौ ॥ २२ ॥
37.22 · p. 92
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 मृ (wrong syllable); pāda 4, syllable 3 च्च (wrong syllable)
संपुटस्तु कुरबके तलिकायां च कीर्तितः ।सन्धिः संघट्टने दृष्टः स्मरसंवसुरुङ्गयोः ॥ २३ ॥
37.23 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
स्पर्शनः प्रवणे दृष्टः स्पर्शनं स्पर्शदानयोः ।भवेत्सुरतताली तु दूतिकायां शिरःस्रजि ॥ २४ ॥
37.24 · p. 92
अनुष्टुप्
सामुद्रन्तु समुखे कथितं देहलक्षणे ।सूनाख्या पुष्पिते पुष्पे जिह्वातले वधालये ॥ २५ ॥
37.25 · p. 92
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 1 सा (syllables merged); pāda 4, syllable 3 त (wrong syllable)
संवित्तिरविवादि[वादे स्यात्] प्रतिपत्तावपि स्मृता ।संपरायः स्मृतो युद्धे विपदुत्तरकालयोः ॥ २६ ॥
37.26 · p. 92
अनुष्टुप्metre not read in every line
संस्थानमाकृतौ चिह्ने सन्निवेशे चतुष्पथे ।सन्तानः सन्ततौ गोत्रे देववृक्षे तथात्मजे ॥ २७ ॥
37.27 · p. 92
अनुष्टुप्
संस्त्यायः सन्निवेशे तु सङ्घातेऽपि प्रयुज्यते ।साधीयोऽनुस्वराटे[ऽन्तिके बाढे] स्यात् तथैवात्यन्तशोभने ॥ २८ ॥
37.28 · p. 92
अनुष्टुप्metre not read in every line
साधुर्वार्द्धुषिके दृष्टः सज्जने सुन्दरे तथा ।संसिद्धे सङ्गमे युद्धे सभायामपि दृश्यते ॥ २९ ॥
37.29 · p. 92
अनुष्टुप्
सिकता वालुकायां तु तयैवाच्छन्नभूतले ।स्वयाम्बुनोरसराजे[?]प्रासादवासुदेवयोः ॥ ३० ॥
37.30 · p. 93
अनुष्टुप्metre not read in every line
सिद्धरसः पारदेऽपि रससिद्धे च कीर्तितः ।सह्ममारोग्ये सोढव्ये सह्यश्च पर्वतान्तरे ॥ ३१ ॥
37.31 · p. 93
metre not recognised
समञ्जसं समाख्यातमभ्यस्तोचितयोरपि ।सूदः स्यात् सह सूपेन सूपकारे च तेमने ॥ ३२ ॥
37.32 · p. 93
अनुष्टुप्
सावराख्यापराधे च लोध्रे पापे च पठ्यते ।सङ्कीर्णं सङ्कटे व्याप्ते तथा च वर्णसङ्करे ॥ ३३ ॥
37.33 · p. 93
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
स्वशब्दो ज्ञातिधनयोः तथात्मात्मीययोरपि ।संग्रहः स्यान्महोभुङ्गे [महोद्योगे] संक्षेपे ग्रहणे तथा ॥ ३४ ॥
37.34 · p. 93
अनुष्टुप्metre not read in every line
भवेत्सारसनं काञ्च्यामुरस्थेऽपि निगद्यते ।स्थासफोऽपि च चर्चायां जलादीनां च बुद्बुदे ॥ ३५ ॥
37.35 · p. 93
अनुष्टुप्
सम्मतिः स्यादभिलाषे तथात्मज्ञान एव च ।साहसं तु बलात्कारे कृतकार्ये दमेऽपि च ॥ ३६ ॥
37.36 · p. 93
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 भि (wrong syllable)
सिते प्राववसाने[?] च तथाधवलबद्धयोः ।स्थिरदंष्ट्रध्वनिः ख्यातो भुजङ्गादिवराहयोः ॥ ३७ ॥
37.37 · p. 93
अनुष्टुप्
स्वस्तिको नृपतेर्गेहे गृहभेदे चतुष्पथे ।सुदर्शनो मेरुजम्ब्वां शक्रपूर्विष्णुचक्रयोः ॥ ३८ ॥
37.38 · p. 93
अनुष्टुप्
समुदायः समुदये पृष्ठस्थायिबलेऽपि च ।स्थूलोच्चयस्त्वसाकल्ये करिमध्यगतौ तथा ॥ ३९ ॥
37.39 · p. 94
अनुष्टुप्
सूतः शूद्रात् क्षत्रियाजे बन्दिसारथितक्षसु ।सत्रं वने सदादाने छदनाध्वरयोरपि ॥ ४० ॥
37.40 · p. 94
अनुष्टुप्
सवनं याजने स्नाने सोमनिर्दलनेऽपि च ।सन् सत्ये विद्यमाने च प्रशस्तार्चितसाधुषु ॥ ४१ ॥
37.41 · p. 94
अनुष्टुप्
समाहितं समाधिस्थे प्रतिज्ञातेऽपि विश्रुते ।समाधिर्नियमे ध्याने प्रयासे चापि युज्यते ॥ ४२ ॥
37.42 · p. 94
अनुष्टुप्
स्वधा गङ्गेष्टकाचूर्णमहीध्वमृतमूलयोः ।सभा स्यान्मन्दिरे व्यूहे सभासदि च संपदि ॥ ४३ ॥
37.43 · p. 94
अनुष्टुप्
सारङ्गश्चातके ख्यातः सवले हरिणे तथा ।सृष्टं भूरिणि मुक्ते च निर्मिते चाथ भूषिते ॥ ४४ ॥
37.44 · p. 94
अनुष्टुप्
समर्यादं समीपे स्यान्मर्यादासहिते तथा ।सन्धिन्यकालदुग्धायां वृषाक्रान्तावपातयोः ॥ ४५ ॥
37.45 · p. 94
अनुष्टुप्
सन्निधिः सन्निधानेऽपि प्रत्यक्षेऽपि प्रयुज्यते ।सर्वतोभद्राख्या निम्बे गम्भारीगृहभेदयोः ॥ ४६ ॥
37.46 · p. 94
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्रा (wrong syllable)
सहा स्यात्कुमारीमुद्गपर्ण्योः सहः सशक्तिके ।संख्यमायोधने संख्या त्वेकत्वादिविचारयोः ॥ ४७ ॥
37.47 · p. 95
अनुष्टुप्metre not read in every line
सोमवल्कस्तु धवलखदिरे कट्फले तथा ।सारो न्याय्ये स्थिरांशे च बले श्रेष्ठे च भाषितः ॥ ४८ ॥
37.48 · p. 95
अनुष्टुप्
सन्ततिस्तनये पुत्र्यां विस्तारकुलयोरपि ।समं सहसि सर्वस्मिन् साधौ समास्तु हायने ॥ ४९ ॥
37.49 · p. 95
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
सुनुर्भ्रातरि पुत्रे च संभोगः सुखभोगयोः ।सुपर्णस्तार्क्ष्यसंपाके स्वेदः स्वेदनघर्मयोः ॥ ५० ॥
37.50 · p. 95
अनुष्टुप्
स्तनयित्नुस्तनितेऽब्दे समायातवधान्तयोः ।संसिद्धिः स्वभावे सिद्धौ सातिर्दानावसानयोः ॥ ५१ ॥
37.51 · p. 95
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable); pāda 3, syllable 5 भा (wrong syllable)
स्थिरा भूमौ शालपर्ण्यां स्थूलो जडेऽथ पीवरे ।सचिवः सहायेऽमात्ये सेव्यो नलदशस्ययोः ॥ ५२ ॥
37.52 · p. 95
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ज (wrong syllable); pāda 3, syllable 5 हा (wrong syllable)
सोमः स्यादोषधाविन्दौ सरणिः पङ्क्तिमार्गयोः ।समीरणोऽनिलौषध्योः सुतः पार्थिवपुत्रयोः ॥ ५३ ॥
37.53 · p. 95
अनुष्टुप्
सती शैलसुतासाध्व्योः सायकः खड्गबाणयोः ।सनातनो हरौ नित्ये सव्यं वामे च दक्षिणे ॥ ५४ ॥
37.54 · p. 95
अनुष्टुप्
स्नेहः प्रेमणि तैलादौ संप्रयोगो रतेऽर्थिते ।स्वभूर्वेधसि विष्णौ च स्वादुर्मिष्टमनोज्ञयोः ॥ ५५ ॥
37.55 · p. 95
अनुष्टुप्
स्तिमितो निश्चिते क्लिन्ने संव्यानं छदनेंऽशुके ।स्नानं वसने पानीये समाघातो वधे युधि ॥ ५६ ॥
37.56 · p. 95
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ने (wrong syllable)
सैन्धवो लवणेऽश्वे च स्तम्भनो जडमूर्खयोः ।सौवीरं काञ्चिके शेलौ सूक्ष्मात्याध्यात्मलेशयोः ॥ ५७ ॥
37.57 · p. 95
अनुष्टुप्
संस्कारः सङ्कल्पे यत्ने सेवकोऽर्थिप्रसेवयोः ।सङ्घर्षो घर्षे स्पर्धायां सप्तार्चिदहनेऽशनौ ॥ ५८ ॥
37.58 · p. 96
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ङ्क (wrong syllable); pāda 3, syllable 5 र्षे (wrong syllable)
संस्तवः संभवे यज्ञे सीमा क्षेत्रे वधौ स्थितौ ।संबाधः सङ्कटे योनौ सेनानीः सैन्यपे शुके ॥ ५९ ॥
37.59 · p. 96
अनुष्टुप्
गुणोत्कर्षे विधातव्यं स्थानं याम्येऽन्तरे स्थितौ ।संस्था स्थितौ परे नाशे स्वैरः स्वच्छन्दमन्दयोः ॥ ६० ॥
37.60 · p. 96
अनुष्टुप्
सिवथाख्यान्ने मधूच्छिष्टे सूतकं वसुजन्मनोः ।स्थित ऊर्ध्वे सप्रतिज्ञे सिद्धार्थः सर्षपेऽजिने ॥ ६१ ॥
37.61 · p. 96
metre not recognisednearly अनुष्टुप्
सुवर्णं हेम्नि उत्कर्षे सत्यं शपथतथ्ययोः ।सहोत्थे सहजः सृष्टौ सामिधेनीयमृग्गृचि ॥ ६२ ॥
37.62 · p. 96
अनुष्टुप्
सामजो द्विपे सामोत्थे सहा मार्गे सहो बले ।सेवनं सीवनोपस्त्योः सृतिर्गमनमार्गयोः ॥ ६३ ॥
37.63 · p. 96
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पे (wrong syllable)
संस्तरः शयने माने सारसाख्या खगेऽम्बुजे ।स्थूणा सूर्म्यां तथा स्तम्भे सादी सूताश्ववारयोः ॥ ६४ ॥
37.64 · p. 96
अनुष्टुप्
सतमोऽतिसाधौ श्रेष्ठे स्वरुर्यूपाग्रवज्रयोः ।रेवानद्यो समुद्रापः [?] सज्जनः साधुगुल्मयोः ॥ ६५ ॥
37.65 · p. 96
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
स्वरूपो रूपिणि प्राज्ञे सखा मित्रसहाययोः ।स्वप्नः स्वापे सुप्तज्ञाने स्यन्दनस्तिलिशे रथे ॥ ६६ ॥
37.66 · p. 96
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सु (wrong syllable)
स्थानेऽव्ययं युक्ते हेतौ स्मातीते पादपूरणे ।सांप्रतं युक्तेऽवधानार्थे स्वः स्वर्गपरलोकयोः ॥ ६७ ॥
37.67 · p. 96
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 4 र्गप (syllable split)
स्वित् पृच्छायां वितर्के च साक्षात्तुल्यसमक्षयोः ।समिन्निन्दायां युद्धे च सह च तुल्ययोगयोः ।स्वस्त्याशीःक्षेमपुण्येषु सकृत्सदैकवारयोः ॥ ६८ ॥
37.68 · p. 97
अनुष्टुप्metre not read in every line