All kośas › Nānārthasaṅgraha
नानार्थसङ्ग्रह Nānārthasaṅgraha
749 verses · text only, tagging comes next
धकारः
॥ इति दकारः ॥
धर्माख्या सोमपे न्याये यागाद्याधारकर्मसु ।दयाहिंसास्वभावेषु सादृश्ये साधुसङ्गमे ॥ १ ॥
24.1 · p. 50
अनुष्टुप्
धातुः स्याद्रसरक्तादौ महाभूते च तद्गुणे ।श्लेष्मादावश्मविकृतौ चक्षुरादौ च कीकसे ॥ २ ॥
24.2 · p. 50
अनुष्टुप्
ध्रुवं नित्ये शश्वत्तर्के ध्रुवश्च स्वान[स्थाणु]कीलयोः ।निश्चितेऽपि ध्रुवा शालपर्ण्यां स्रग्गीतिभेदयोः ॥ ३ ॥
24.3 · p. 50
अनुष्टुप्metre not read in every line
धावनी स्याद्धौताञ्जन्यां रजन्यां धावनं गतौ ।शौचे शीघ्रगतौ चापि धनदो दातृयक्षयोः ॥ ४ ॥
24.4 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्धौ (wrong syllable)
धारा सन्ततौ सैन्याग्रे खड्वाङ्गे वाजिनां गतौ ।धवली गोप्रभेदे च वरुणस्य फले तथा ॥ ५ ॥
24.5 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तौ (wrong syllable)
धिष्ण्यं स्वाधा[स्थाना]ग्निदेहेषु नक्षत्रबलयोरपि ।धनुः स्थलेऽथ कोदण्डे धन्वा तु मरुमण्डले ॥ ६ ॥
24.6 · p. 50
अनुष्टुप्
धराख्या कथिता भूमौ शैलकार्पासतूलयोः ।धिषणः स्यात्सुराचार्ये धिषणा बुद्धिनिद्रयोः ॥ ७ ॥
24.7 · p. 50
अनुष्टुप्
धाम तेजसि गेहे च प्रभावजन्मनोरपि ।धर्मराजो यमे बुद्धे कथ्यते च युधिष्ठिरे ॥ ८ ॥
24.8 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
धात्री त्वामलकीभूम्योरुपमातरि चेष्यते ।धृतिः सौख्ये च धैर्ये च धारणे चाध्वरे स्थितौ ॥ ९ ॥
24.9 · p. 50
अनुष्टुप्
धवला गवि धवलश्चारौ शुभ्रे वृषे वरे ।ध्वजो लिङ्गे पताकायां चिह्ने पूर्वदिशो गृहे ॥ १० ॥
24.10 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ग (wrong syllable)
धने तु गोधने वित्ते धनञ्जयोऽग्निपार्थयोः ।धीरः संख्यावति धैर्ययुक्ते च कथ्यते बुधैः ॥ ११ ॥
24.11 · p. 51
metre not recognised
धूर्तः खले च धूस्तूरे धूतं त्यक्ते च कम्पिते ।धमनी स्याच्छिवोषध्योर्धवो वृक्षे नवे प्रभौ ॥ १२ ॥
24.12 · p. 51
अनुष्टुप्
धेनुका धेनुहस्तिन्योर्धार्वाटश्चातके हये ।धर्षणं रतातिभृत्योः ध्वाङ्क्षः काके बकेऽपि च ॥ १३ ॥
24.13 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
धाराङ्गमवतारेऽसौ धीदा सुताधियोरपि ।धूमकेतुरुत्पातेऽग्नौ धिङ्निर्भर्त्सननिन्दयोः ॥ १४ ॥
24.14 · p. 51
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 सु (wrong syllable); pāda 3, syllable 5 रु (wrong syllable)