All kośas › Nānārthasaṅgraha
नानार्थसङ्ग्रह Nānārthasaṅgraha
749 verses · text only, tagging comes next
बकारः
॥ इति फकारः ॥
बलो रामेऽसुरे काके बला वाट्यालके बलम् ।स्थौल्ये शक्तौ तथा रूपे पृतनायां बलान्विते ॥ १ ॥
28.1 · p. 66
अनुष्टुप्
बहुलः कृष्णपक्षेऽग्नौ मेचके बहुलं द्वयोः ।बहुला त्रुटिमाहेयीकृत्तिकालु प्रकीर्तिता ॥ २ ॥
28.2 · p. 66
अनुष्टुप्
बालिका वालुकायां तु कुमार्यां कर्णभूषणे ।बालकं कटके दृष्टमङ्गुलीयेऽपि कुत्रचित् ॥ ४ ॥
28.4 · p. 66
अनुष्टुप्
बृत्तं छन्दसि वृतौ च निस्तलातीतयोरपि ।दृढाधीतचरित्रेषु बल्लभोऽध्यक्षकान्तयोः ॥ ५ ॥
28.5 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वृ (wrong syllable)
बडबा कुम्भदास्यां स्थादश्वायां योषिदन्तरे ।बारवानिर्धर्माध्यक्षे भवेत्संवत्सरे क्वचित् ॥ ६ ॥
28.6 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्ध (wrong syllable)
बाहुजः क्षत्रिये दृष्टो गृहाशक्तशुके क्वचित् ।बभ्रुः स्यान्नकुले पिङ्गे विपुले गरुडध्वजे ॥ ७ ॥
28.7 · p. 66
अनुष्टुप्
बलजाख्या क्षेत्रे मत्स्ये पुरद्वारस्त्रियोर्मता ।बन्धुलं बन्धुली नम्रे सुन्दरेऽपि प्रयुज्यते ॥ ८ ॥
28.8 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्षे (wrong syllable)
बालिनी तु विदग्धायां नर्तकीमत्तयोषितोः ।बिटपः पल्लवस्तम्बशालासु विटनायके ॥ ९ ॥
28.9 · p. 66
अनुष्टुप्
बाल डिम्बार्भकेशेषु ह्रीबेरे श्वेतबालधौ ।बाणो दानवभेदे तु शरे बाणं फलेऽपि च ॥ १० ॥
28.10 · p. 67
अनुष्टुप्
बलाकले विह्वले च मर्यादाम्बुविकारयोः ।बृहती क्षुद्रवार्ताकीछन्दःक्षुद्राम्बरादिषु ॥ ११ ॥
28.11 · p. 67
अनुष्टुप्
बत्सं वक्षसि बत्सस्तु तन्तुशब्दसुतादिषु ।बीभत्सो विकृते पापे क्रूरे पापिघृणात्मनोः ॥ १२ ॥
28.12 · p. 67
अनुष्टुप्
बराटकः सरोजस्य बीजकोषे कपर्दके ।ब्रह्म बेदात्मतपःसु ब्रह्मा विप्रे प्रजापतौ ॥ १३ ॥
28.13 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
द्वादशाङ्गुले बितस्तिः स्यात् प्रशान्तेऽङ्कुशकर्मणि ।बल्गुकं रुचिरे दृष्टं चन्दने विपिने पणे ॥ १४ ॥
28.14 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ब्राह्मण्यं ब्रह्मणो भावे ब्रह्मविद्वेदवेत्तरि ।मुखे चाभ्यवहारे च विप्रे च भाषिताप्तयोः ॥ १५ ॥
28.15 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)