All kośas › Nānārthasaṅgraha
नानार्थसङ्ग्रह Nānārthasaṅgraha
749 verses · text only, tagging comes next
रकारः
॥ इति यकारः ॥
रूपं श्लोके ग्रन्थावृत्तौ नाटकादिस्वभावयोः ।चक्षुर्ग्राह्ये पशौ शब्दे बालके सुन्दराकृतौ ॥ १ ॥
32.1 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग्र (wrong syllable)
रामो दाशरथौ चारौ जामदग्न्ये हलायुधे ।पशुभेदे सिते श्यामे रामा योषिति दृश्यते ॥ २ ॥
32.2 · p. 74
अनुष्टुप्
रसो वीर्ये द्रवे रागे शृङ्गारादौ च पारदे ।तिक्तादौ देहधौते च विषस्वादे रसा भुवि ॥ ३ ॥
32.3 · p. 74
अनुष्टुप्
रथ्या पथि प्रतोल्यां च रथानामपि संहतौ ।रथ्यं स्वस्मिद्रथस्येव [स्वांशे रथस्यैव] रथयो रथस्य वोढरि ॥ ४ ॥
32.4 · p. 74
अनुष्टुप्metre not read in every line
रेवटः शूकरे रेणौ वातूलविषवैद्ययोः ।रेवटं दक्षिणावर्तशङ्खेऽपि परिकीर्तितम् ॥ ५ ॥
32.5 · p. 74
अनुष्टुप्
रजतं धवले रूप्ये शोणिताह्रदहारयोः ।रोहितो लोहिते मत्स्यभेदव्यक्तेन्द्रचापयोः ॥ ६ ॥
32.6 · p. 74
अनुष्टुप्
रङ्गो बुद्धे विरागे च खले रङ्गं त्रपुण्यपि ।राका निशाकरे पूर्ण वीक्षितार्तवकल्पयोः ॥ ७ ॥
32.7 · p. 74
अनुष्टुप्
रुचिर्भास्यनुरागे स्यादतिष्वङ्गेऽपि कुत्रचित् ।रागसूत्रं तुलासूत्रे पट्टसूत्रेऽपि सम्मतम् ॥ ८ ॥
32.8 · p. 74
अनुष्टुप्
राजा परिबृढे भूपे क्षत्रिये शशलाञ्छने ।रजोऽयं रजसा सार्धं स्त्रीपुष्पगुणधूलिषु ॥ ९ ॥
32.9 · p. 74
अनुष्टुप्
रोचना रक्तकल्हारे गोपिण्डे वरयोषिति ।रञ्जमाता तु कुट्टिन्यां लक्षायामपि दृश्यते ॥ १० ॥
32.10 · p. 74
अनुष्टुप्
रसः केशरे वकुले नागपुष्पे च वेधके ।राजिका पङ्क्तौ [च] राजसर्पयोरपि दृश्यते ॥ ११ ॥
32.11 · p. 75
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 श (wrong syllable)
रसनं निस्वने स्वादे रशना काञ्चिजिह्वयोः ।रीतिर्दुग्धसुवर्णादिमले स्यात् पित्तले स्थितौ ॥ १२ ॥
32.12 · p. 75
अनुष्टुप्
रौहिषो लोहिततृणे मृगमत्स्यविशेषयोः ।राजी वीथ्यां मृगे मत्स्ये पद्मे राजोपजीविनि ॥ १३ ॥
32.13 · p. 75
अनुष्टुप्
रागः केशादिके रक्तमात्सर्यलोहितादिषु ।रौहिणेयः प्रलम्बघ्ने तन्तुके चन्द्रनन्दने ॥ १४ ॥
32.14 · p. 75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्य (wrong syllable)
रोषणो रोषणे हेमघर्षणाश्मनि पारदे ।रेवती गवि नक्षत्रे बलभद्रस्य योषिति ॥ १५ ॥
32.15 · p. 75
अनुष्टुप्
रोदसी रोदसा सार्धं पृथ्व्यां स्वर्गे दिवि क्षितौ ।रतर्द्धिकं सुखस्नानदिनेऽष्टमङ्गले तथा ॥ १६ ॥
32.16 · p. 75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्ट (wrong syllable)
रूप्यं ताराहतं वणश्वेतयोः स्वप्तिरूपके ।रश्मिर्भासि च रज्जौ च राशिर्मेषादिपुञ्जयोः ॥ १७ ॥
32.17 · p. 75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 व (wrong syllable)
रथः स्यात्स्यन्दने नीरे रिष्टं स्यादशुभैनसोः ।रुजा रोगे तथा भङ्गे रत्नं मणिप्रकोष्ठयोः ॥ १८ ॥
32.18 · p. 75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
रम्भा कदल्यप्सरसो रणः संग्रामशब्दयोः ।रहस्तु मैथुने गुह्ये रती रागस्मरस्त्रियोः ॥ १९ ॥
32.19 · p. 75
अनुष्टुप्
रैशब्दो विभवे हेम्नि रोदने क्रन्दनाश्रुणोः ।रोहिणी स्वरभावृक्षे राष्ट्रमुत्पातदेशयोः ॥ २० ॥
32.20 · p. 76
अनुष्टुप्
रदो दन्ते विलेखे च रभसो वेगहर्षयोः ।रोकं रन्ध्रे रोको भासि रूक्षोऽस्निग्धे च निष्ठुरे ।कुङ्कुमे चारुणो रक्तं रन्ध्रं दूषणगर्तयोः ॥ २१ ॥
32.21 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रो (wrong syllable)