कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthasaṅgraha

नानार्थसङ्ग्रह Nānārthasaṅgraha

749 verses · text only, tagging comes next

नकारः

॥ इति धकारः ॥

निष्कमष्टोत्तरस्वर्णशते हेम्नि च तत्पले ।उरोविभूषणे कर्षे दीनारेऽपि प्रयुज्यते ॥ १ ॥
25.1 · p. 52
अनुष्टुप्
निस्सरणं भवेद्याने मारणे भवनिर्गतौ ।उपाये निर्गमद्वारे नाकः स्वर्गान्तरिक्षयोः ॥ २ ॥
25.2 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
नागो गजे काद्रवये नागे सीसकरङ्गयोः ।निर्देशो मूर्च्छने ख्यात उपभोगे च वेतने ॥ ३ ॥
25.3 · p. 52
अनुष्टुप्
नीवी जघनवस्त्रस्य ग्रन्थौ मूलधने तथा ।नभाः प्रावृषि वृद्धे च श्रावणे च नभोऽम्बरे ॥ ४ ॥
25.4 · p. 52
अनुष्टुप्
निकायो लक्षसंघे च भूरिवस्तुचये गृहे ।निगमो नगरे वेदे निश्चये च वणिक्पथे ॥ ५ ॥
25.5 · p. 52
अनुष्टुप्
निर्घटः परकौलीनप्रिये निर्दयभाषिणि ।निर्वातो दृढसन्नाहे निवासे वातवर्जिते ॥ ६ ॥
25.6 · p. 52
अनुष्टुप्
निर्वृतिर्मनसस्तोषे मोक्षेऽस्तमयबाढयोः ।नेत्रमङ्गे गुणे वस्त्रभेदेऽक्षिवृक्षमूल्योः ॥ ७ ॥
25.7 · p. 52
अनुष्टुप्metre not read in every line
निर्यूहो नागदन्ते च निर्यासे द्वारि शेखरे ।निष्क्रामो बुद्धिसामर्थ्ये निर्गमे दुष्कुले तथा ॥ ८ ॥
25.8 · p. 52
अनुष्टुप्
निर्भर्त्सनं खलीकारे दृष्टमेतदलक्तके ।निह्नवस्त्वपलापे स्याद्विश्वासे निष्कृतावपि ॥ ९ ॥
25.9 · p. 52
अनुष्टुप्
निशाचरी शिवासत्योर्निशाचरोऽहिरक्षसोः ।निर्यातनं वैरशुद्धौ दाने न्यासार्पणे तथा ॥ १० ॥
25.10 · p. 53
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
निर्वासनं वधे दृष्टं नगरादेर्बहिष्कृतौ ।नाशोऽनुपलम्भे दृष्टो निधने च पलायने ॥ ११ ॥
25.11 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल (wrong syllable)
निर्देशः कथने दृष्ट आज्ञायां देशवर्जिते ।न्युब्जं कर्मबद्धकाले न्युब्जोऽधोमुखकुब्जयोः ॥ १२ ॥
25.12 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्म (wrong syllable)
नाभीलं मेखलाबन्धे वरस्त्रीरक्षणेऽपि च ।नियामकः पोतवाहे दृश्यते च नियन्तरि ॥ १३ ॥
25.13 · p. 53
अनुष्टुप्
नन्द्यावर्तो गेहभेदे तथा उपरि[तग]रपादपे ।स्यान्नागराजिको राजहस्तिप्रासगणस्थयोः ॥ १४ ॥
25.14 · p. 53
अनुष्टुप्metre not read in every line
नक्षत्रं मेघशीतांशौ रेवत्यामपि दृश्यते ।निष्ठा नाशेऽन्तनिष्पत्त्योर्याच्ञानिर्वाहयोरपि ॥ १५ ॥
25.15 · p. 53
अनुष्टुप्
नासाद्वारोऽर्द्धकाष्ठे स्यान्नासिकायां च कीर्तिता ।न्यूङ्खः सामवेदोङ्कारषट्के चात्यन्तसुन्दरे ॥ १६ ॥
25.16 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वे (wrong syllable)
निर्याणं हस्तिनेत्रान्ते निर्गमे मरणे तथा ।नितम्बः स्त्रीकटीपश्चाद्देशे योषित्कटावपि ॥ १७ ॥
25.17 · p. 53
अनुष्टुप्
निह्नुतः स्याद्विप्रलब्धे तथा विप्रकृतेऽपि च ।निरस्तं तु विरामे स्यात् तथा त्वरितभाषिते ॥ १८ ॥
25.18 · p. 53
अनुष्टुप्
नाभिः प्राण्यङ्गचक्रान्तक्षेत्रियेषु नृपोत्तमे ।स्यान्निस्तरणमुपाये तरणेऽपि प्रयुज्यते ॥ १९ ॥
25.19 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 मु (wrong syllable)
निराकृतिर्नावाकार[तिरनध्याये] प्रत्यादेशेऽथ निर्जये ।नाडी देहशिरायां स्यान्नालकालप्रभेदयोः ॥ २० ॥
25.20 · p. 54
अनुष्टुप्metre not read in every line
भवेन्निरसनं घाते क्षेपणेऽपि प्रयुज्यते ।निकारः स्यात्परिभवे धान्यस्थोत्क्षेपणे तथा ॥ २१ ॥
25.21 · p. 54
अनुष्टुप्
नियमो यन्त्रणायां तु व्रते संविदि निश्चये ।निषधो देशेऽद्रिभेदे कठिने निषधाधिपे ॥ २२ ॥
25.22 · p. 54
अनुष्टुप्
निर्वाणं निवृतौ मोक्षे विनाशे गजमज्जने ।न्यग्रोधस्तु वटे व्यासे न्यग्रोध्योषधिकान्तरे ॥ २३ ॥
25.23 · p. 54
अनुष्टुप्
निगद्यते निशमनमालोकने श्रुतावपि ।निरूपणं विचारे तु दर्शनेऽपि प्रकीर्तितम् ॥ २४ ॥
25.24 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
नैगमः पौरवणिजे नग्नः क्षपणबन्दिनोः ।नीलकण्ठः शिखिन्युग्रे नरेन्द्रो वार्तिके नृपे ॥ २५ ॥
25.25 · p. 54
अनुष्टुप्
निदेशः परिसंवादे निन्दापवादकुत्सयोः ।निर्ग्रन्थः क्षपणे निःस्वे निःश्रेयसं शिवेऽमृते ॥ २६ ॥
25.26 · p. 54
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable); pāda 4, syllable 3 य (wrong syllable)
नरः पार्थे मनुष्येषु[च] नालीकश्चाब्जबाणयोः ।निसर्गश्च स्वभावेऽपि सृष्टानीकृशानु[सृष्टौ नीकाश]शोकयोः ॥ २७ ॥
25.27 · p. 54
metre not recognised
निदाघः स्वेदोष्णोष्मेषु निग्रहो भर्त्सनेऽवधौ ।निजं नित्ये तथात्मीये निशान्तं गृहशान्तयोः ॥ २८ ॥
25.28 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दो (wrong syllable)
नियतिः संयमे दैवे निबोधो बोधनाशयोः ।निर्गुण्डीन्द्राणीशेफाल्योर्निस्त्रिंशः प्लवखड्गयोः ॥ २९ ॥
25.29 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णी (wrong syllable)
निह्नुतिस्तु शठे शाठ्ये निधनं वंशनाशयोः ।निमित्तं कारणे चिह्ने न्यक्षं कार्त्स्न्यनिकृष्टयोः ॥ ३० ॥
25.30 · p. 54
अनुष्टुप्
निषङ्गः सङ्गतौ तूणे निपाकः खेदपाकयोः ।नलिनी पद्माकरेऽब्जे नतं बन्धनभुग्नयोः ॥ ३१ ॥
25.31 · p. 55
अनुष्टुप्
निभो व्याजे समाने च नगः पर्वतवृक्षयोः ।नाम प्राकाश्यसंभाव्यकुत्सासु स्वीकृतेऽव्ययम् ॥ ३२ ॥
25.32 · p. 55
अनुष्टुप्
ननु प्रश्नेऽप्यनुज्ञायां संबुद्धाववधारणे ।नु पृच्छायां विकल्पे नु नूनं निश्चिततर्कयोः ।नानोभयस्मिन्नेकत्र निर्निश्चयनिषेधयोः ॥ ३३ ॥
25.33 · p. 55
अनुष्टुप्