All kośas › Nānārthasaṅgraha
नानार्थसङ्ग्रह Nānārthasaṅgraha
749 verses · text only, tagging comes next
गकारः
॥ इति खकारः ॥
गोशब्दः कथितो बाणे वाचि दिग्वज्रयोर्जले ।षण्डनेत्रमयूखेषु भूमौ स्वर्गे च दृश्यते ॥ १ ॥
14.1 · p. 31
अनुष्टुप्
गौरः कनकसंकाशे सिते शुद्धे च कीर्तितः ।गौरी त्वष्टमवर्षीया [त्वष्टवर्ष]कन्या हिमालयतनूजयोः ॥ २ ॥
14.2 · p. 31
अनुष्टुप्metre not read in every line
गुरुर्महति पित्रादौ दुर्जये सुरमन्त्रिणि ।निषेकादिकरे चापि भवेल्लघुविपर्यये ॥ ३ ॥
14.3 · p. 31
अनुष्टुप्
गुणो मौर्व्यामप्रधाने सत्त्वादौ द्रव्यसंश्रिते ।शुक्लादावपि सन्ध्यादौ स्तम्भे सौर्यादिसूदयोः ॥ ४ ॥
14.4 · p. 31
अनुष्टुप्
ग्रहणं स्यादुपालब्धौ चन्द्रसूर्यग्रहे तथा ।स्वीकारादरवन्दीषु प्रत्यये ग्रहणी रुजि ॥ ५ ॥
14.5 · p. 31
अनुष्टुप्
गन्धर्वः पशुभेदे च गायने खचराश्वयोः ।अन्तराभवसत्त्वे च ग्राहो ग्रहावहारयोः ॥ ६ ॥
14.6 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग्र (wrong syllable)
गव्या गवां गणे गव्यं गोक्षीरादौ च गोहिते ।रागवस्तुनि मौर्व्यां च गोधा तलनिहाकयोः ॥ ७ ॥
14.7 · p. 31
अनुष्टुप्
गुह्योऽस्वैरिणि पक्षे च गृहसक्तमृगाण्डजे ।गृह्या शाखापुरे प्रोक्ता गुह्यं रह उपस्थयोः ॥ ८ ॥
14.8 · p. 31
अनुष्टुप्
गोपो गोष्ठनियुक्तेषु चलने ग्रामनिर्युते[?] ।गोपी स्याच्छालिबायां तु गोपतिः षण्डसूर्ययोः ॥ ९ ॥
14.9 · p. 31
अनुष्टुप्
गोत्रं कुले बले नाम्नि गोत्रस्तु धरणीधरे ।गोत्रा भुवि गवां वृन्दे गृहं दारेषु वेश्मनि ॥ १० ॥
14.10 · p. 32
अनुष्टुप्
गात्रें गजाग्रजङ्घायामङ्गे वपुषि च स्मृतम् ।गुच्छो हारप्रभेदे च कलापे स्तबके मतः ॥ ११ ॥
14.11 · p. 32
अनुष्टुप्
गर्भो भ्रूणे भवेत्कुक्षौ शिशौ पनसकण्टके ।गन्धनं सूचनायां स्यादुत्साहे च प्रकाशने ॥ १२ ॥
14.12 · p. 32
अनुष्टुप्
ग्रामः पुरे जनावसे शब्दादिपूर्वको गणे ।गन्धवहा तु नासायां गन्धवाहोऽनिले मृगे ॥ १३ ॥
14.13 · p. 32
metre not recognised
गोपुरं पुरि पूर्द्वारि कैवर्तीमुस्तकेऽपि च ।गन्धः सुगन्धिनि स्तोके सुरभौ घ्राणसङ्गते ॥ १४ ॥
14.14 · p. 32
अनुष्टुप्
गुल्मो घट्टेऽथ सेनायां विटपातङ्कभेदयोः ।ग्रहो राहौ पूतनादौ निबन्धेऽर्कादिपात्रयोः ॥ १५ ॥
14.15 · p. 32
अनुष्टुप्
गणना रुजि विद्यायां खड्गे वटचतुष्टये ।गञ्जः खनौ भाण्डगृहे गञ्जा तु मदिरालये ॥ १६ ॥
14.16 · p. 32
अनुष्टुप्
गणः सैन्यान्तरे वृन्दे संख्यायां प्रथमे बले ।गोलको गुडके गोलो जारतो विधवासुते ॥ १७ ॥
14.17 · p. 32
अनुष्टुप्
गोरक्षजम्बुर्गोधूमे तथा गोरक्षतण्डुले ।गोकर्णोऽनामिकाङ्गुष्ठमाने सर्पे मृगान्तरे ॥ १८ ॥
14.18 · p. 32
अनुष्टुप्
गोष्पदं तु गवां गम्ये गोपदेऽथ मिते तथा ।गर्जितं मेघनिस्वाने गर्जितो मत्तदन्तिनि ॥ १९ ॥
14.19 · p. 32
अनुष्टुप्
गुहः स्कन्दे गुहाज्ञायां पृश्निपर्ण्यां च गह्वरे ।गण्डूषा मुखपूर्णे च गण्डूषः प्रसृतोन्मिते ॥ २० ॥
14.20 · p. 33
अनुष्टुप्
गतिर्वर्त्मनि यात्रायामुपायादेशयोरपि ।अस्तं ग्रासीकृते दृष्टं विलुप्तपदवाचि च ॥ २१ ॥
14.21 · p. 33
अनुष्टुप्
गदोऽच्युतानुजे रोगे गदा शस्त्रान्तरे मता ।ग्रामणीर्नापिते श्रेष्ठे भोगिकाधिपयोरपि ॥ २२ ॥
14.22 · p. 33
अनुष्टुप्
गुडा स्नुहीगुडिकयोः गुड ऐक्षवगोलयोः ।गुञ्जा स्याद्वाद्यभाण्डे तु काकचिञ्च्यामपि क्वचित् ॥ २३ ॥
14.23 · p. 33
अनुष्टुप्
गिरिर्गैरेयके क्रीडागुडे शीर्णे महीधरे ।गाण्डीवं गाण्डिवं चापि कोदण्डे पार्थधन्वनि ॥ २४ ॥
14.24 · p. 33
अनुष्टुप्
गणिका करिणीयूथ्योर्वेश्यायामग्निमन्थयोः ।गेयो गते[गीते] विगातव्ये गरुत्मान् खगतार्क्ष्ययोः ॥ २५ ॥
14.25 · p. 33
अनुष्टुप्
गडुः कण्ठे गुडे कुञ्जे ग्रावा भूमिधराश्मनोः ।गम्भीरो जम्बिरे बिम्बे[१] गाथा वाग्भेदपद्ययोः ॥ २६ ॥
14.26 · p. 33
अनुष्टुप्
गोप्यो दासीसुते रक्ष्ये गहनं गह्वरे वने ।गोविन्दो विष्णौ गोऽध्यक्षे गाङ्गेयं हेमभीष्मयोः ॥ २७ ॥
14.27 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष्णौ (wrong syllable)
गुन्द्राख्याब्दे शरे फल्यां गैरिकं धातुरुक्मयोः ।गुणन्यभ्यासे तरुण्यङ्गे ग्रहराजोऽर्कचन्द्रयोः ॥ २८ ॥
14.28 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ग्रह (syllable split)
गोमुखं लेपने वाद्ये गह्वरं बिलदम्भयोः ।गायत्री वृत्ते खदिरे गतं ज्ञाते गतौ तथा ॥ २९ ॥
14.29 · p. 34
अनुष्टुप्