कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthasaṅgraha

नानार्थसङ्ग्रह Nānārthasaṅgraha

749 verses · text only, tagging comes next

आकारः

॥ इत्यकारः ॥

आशयो विभवाधारकिंपचानेषु चेतसि ।अभिप्राये तथा जीर्णे कोष्ठागारे च सम्मतः ॥ १ ॥
2.1 · p. 9
अनुष्टुप्
आवेशनं स्यादावेशे शालायामपि शिल्पिनाम् ।आर्तवं रजसि स्त्रीणां मृदूखे [ऋतूत्थे] च प्रकीर्तितम् ॥ २ ॥
2.2 · p. 9
अनुष्टुप्metre not read in every line
आच्छादने संविधानवस्त्रवृतिषु दृश्यते ।आकारो गोत्रविकृतावाह्वाने चाकृतौ तथा ॥ ३ ॥
2.3 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 स्त्र (wrong syllable)
आसुतीवलशब्दोऽयं कल्यपाले च यज्वनि ।आधिर्व्यसनेऽधिष्ठाने मनःपीडे च बन्धके ॥ ४ ॥
2.4 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नेऽ (wrong syllable)
आस्फोता विष्णुकान्तायां वनमाल्यर्कपर्णयोः ।आश्रमो ब्रह्मचर्यादौ दृश्यते काननान्तरे ॥ ५ ॥
2.5 · p. 9
अनुष्टुप्
आनर्तो नृत्यशालायां जने जनपदान्तरे ।आरोहः श्रोणौ द्रुमाङ्गे चोच्छ्राये हस्तिवाहयोः ॥ ६ ॥
2.6 · p. 9
अनुष्टुप्
आचितो भारदशके शकटोन्मेयवस्तुनि ।आधारश्चाधिकरणेऽप्यालवालाम्बुधारयोः ॥ ७ ॥
2.7 · p. 9
अनुष्टुप्
आनद्धं कल्प[बद्ध]मात्रे च कथ्यते मुरजादिके ।आयस्तः कुपिते क्षिप्ते ह्रेषिते विजिते तथा ॥ ८ ॥
2.8 · p. 9
अनुष्टुप्metre not read in every line
भवेदकलनं बन्धे कलनायामपि स्मृतम् ।आक्रन्दः क्रन्दनारावे भीमयुद्धे नृपे प्रभौ ॥ ९ ॥
2.9 · p. 9
अनुष्टुप्
आत्मा बुद्धौ धृतौ शीले यत्ने हृद्ब्रह्मणोर्मुनौ ।आतिथ्यमतिथेरर्थे स्यादातिथ्योऽतिथौ तथा ॥ १० ॥
2.10 · p. 10
अनुष्टुप्
आकर्षः पाशके द्यूते आकृष्टौ शारिपाठके[पट्टके] ।आडम्बरः स्यादरम्भे हस्ते द्विरदगर्जिते ॥ ११ ॥
2.11 · p. 10
metre not recognised
आहतं ताडिते ज्ञाते गुणितेऽनृतभाषिते ।आशीरिष्टस्याशंसायां दंष्ट्रायामनिलाशिनाम् ॥ १२ ॥
2.12 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्या (wrong syllable)
आवापः स्यादालवाले प्रक्षेपे विप्रतिस्थले ।आलीढं धनुषः स्थानं विशेषे स्वादिते तथा ॥ १३ ॥
2.13 · p. 10
अनुष्टुप्
आयोगो व्यापृतौ गन्धमाल्याद्युपहृतौ तथा ।आस्थानं वाल आस्थाने प्रयत्ने च प्रयुज्यते ॥ १४ ॥
2.14 · p. 10
अनुष्टुप्
आषाढो व्रतिनां दण्डे मासपर्वतभेदयोः ।आतञ्चनं प्रतीवापजवनाप्यायनेषु च ॥ १५ ॥
2.15 · p. 10
अनुष्टुप्
आग्रहोऽनुग्रहे ख्यात असङ्गग्रहयोरपि ।आसारः प्रसरे राज्ञो वेगिवर्षे सुहृद्बले ॥ १६ ॥
2.16 · p. 10
अनुष्टुप्
आयातिरागामिकाले दीर्घदृष्टिप्रभावयोः ।आर्या च्छन्दसि दुर्गायामार्यः सुहृदि सङ्गते ॥ १७ ॥
2.17 · p. 10
अनुष्टुप्
आत्मनीनः सुते स्याले प्राणधारे विदूषके ।आशितंभवः स्यात्तृप्तावोदनादौ च कथ्यते ॥ १८ ॥
2.18 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वः (wrong syllable)
आलानं करिणां स्तम्भे बन्धमात्रे च कीर्तितम् ।आपन्नमाप्ते विपन्न आरम्भो वध उद्यमे ॥ १९ ॥
2.19 · p. 10
अनुष्टुप्
आनकः पटहे भेर्यामाज्यं श्रीवाससर्पिषोः ।आराधनं तोषणाप्स्योराप्तिः सम्बन्धलाभयोः ॥ २० ॥
2.20 · p. 11
अनुष्टुप्
आशा ककुभि तृष्णायामास्पदं पदकृत्ययोः ।आलिः सेतौ सखीपङ्क्त्योयोरागमः शास्त्र आयतौ ॥ २१ ॥
2.21 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
आस्कन्दनं युध्यास्कन्दे आभीलं हृष्टभीष्मयोः ।आपातः पाते तादथ्यें आगः पापापरावयोः ॥ २२ ॥
2.22 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ते (wrong syllable)
आप्लुतः स्नातके स्नाते आश्रयो विबुधे स्मरे ।आमिषाख्योत्कोचे मांसे आजिर्युद्धे यमाबलौ[यमे बले] ॥ २३ ॥
2.23 · p. 11
अनुष्टुप्metre not read in every line
आभोगो यत्ने पूर्णत्वे आदृतः सादरेऽर्जिते ।आविद्धः कुटिले क्लिष्टे आकृतिर्देहरूपयोः ॥ २४ ॥
2.24 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्ने (wrong syllable)
आलोको दर्शनोद्योतौ अकल्पो वेशकल्पयोः ।आतङ्कस्तापे रुग्भीत्योराङभिव्याप्तिसीमयोः ॥ २५ ॥
2.25 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पे (wrong syllable)
क्रियायोगे ईषदर्थे आस्तापे क्रुधि चाव्ययम् ।आराद्दूरे समीपे स्यादा तु स्मरणवाक्ययोः ॥ २६ ॥
2.26 · p. 11
अनुष्टुप्