कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthasaṅgraha

नानार्थसङ्ग्रह Nānārthasaṅgraha

749 verses · text only, tagging comes next

लकारः

॥ इति रकारः ॥

ललाम च ललामं च भूषावालधिवाजिषु ।चिह्ने स्वभावपुण्ड्रेषु प्रधाने ध्वजशृङ्गयोः ॥ १ ॥
33.1 · p. 77
अनुष्टुप्
लोचको मांसपिण्डे स्यात् लीली रक्तांशुके तथा ।भुवोश्चर्मणि निर्बुद्धौ लीलः कङ्खिनि चञ्चले ॥ २ ॥
33.2 · p. 77
अनुष्टुप्
लिङ्गं शेफसि चिह्ने च संख्योक्तप्रकृतावपि ।लघुर्देव्यां लघ्वसारे दृष्टमगुरुशीघ्रयोः ॥ ३ ॥
33.3 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ष्ट (wrong syllable)
लालाटिकः क्रियालस्ये प्रभुभावनिदर्शिनि ।लक्षश्छद्मनि लक्षं च संख्याभेदशरव्ययोः ॥ ४ ॥
33.4 · p. 77
अनुष्टुप्
लेखः स्याद्देवते लेख्ये लेखा स्याद्राजिरेखयोः ।लता वल्ल्यां शाखाकल्योः पूपिण्यामाधवीषु [?] च ॥ ५ ॥
33.5 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शा (wrong syllable)
लेपः स्याल्लेपने जग्धौ लङ्का पूर्भेदशाखयोः ।लौहित्ये व्रीहिनदयोर्लुब्धौ व्याधसतृष्णयोः ॥ ६ ॥
33.6 · p. 77
अनुष्टुप्
लीला विलासक्रीडयोः लक्ष्मीपुत्रो हयाढ्ययोः ।लक्षं युक्ते च लब्धव्ये लक्ष्म चिह्नप्रधानयोः ॥ ७ ॥
33.7 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क्री (wrong syllable)
लक्षणं नाम्नि चिह्ने च लालाकं मुखरेऽपि च [?] ।लोको जने पिष्टपे च नवश्छेदनलेशयोः ॥ ८ ॥
33.8 · p. 77
अनुष्टुप्
लग्नं राश्युदये युक्ते लक्ष्मीपतिर्हरौ नृपे ।लक्ष्मी श्रीशोभासंपत्सु लोहितं कुङ्कुमासृजोः ।लूता पिपलिकोर्णाय्वोः लालसौत्सुक्ययाच्ञयोः ॥ ९ ॥
33.9 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable); pāda 3, syllable 5 भा (wrong syllable)