कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthasaṅgraha

नानार्थसङ्ग्रह Nānārthasaṅgraha

749 verses · text only, tagging comes next

क्षकारः

॥ इति हकारः ॥

क्षुद्रः क्रूराल्पनीचेषु दीने च क्षुद्रमस्त्रियाम् ।गङ्गायां काशिकायां च नदीसरघयोरपि ॥ १ ॥
39.1 · p. 100
अनुष्टुप्
क्षेत्रियं क्षेत्रसंघाते तृणे साध्ये गदे तथा ।परदेहचिकित्सार्हे क्षेत्रियः परिदारके ॥ २ ॥
39.2 · p. 100
अनुष्टुप्
क्ष्वेडा समिद्वीरसिंहनादवैणवशल्ययोः ।क्ष्वेडो विषे निनादे च क्ष्माभृत्पर्वतभूभुजोः ॥ ३ ॥
39.3 · p. 100
अनुष्टुप्
क्षेमो योगे हिते युक्ते क्षमा भूमितितिक्षयोः ।क्षत्ता शूद्रात्क्षत्रियाजे प्रतीहारे च सारथौ ॥ ४ ॥
39.4 · p. 100
अनुष्टुप्
क्षणस्तु व्यापृते ज्ञेयो मुहूर्तोत्सवपर्वसु ।क्षेत्रं देहे कलत्रे च केदारे सिद्धधामनि ॥ ५ ॥
39.5 · p. 100
अनुष्टुप्
क्षयोपचये रोगार्तगेहेषु राजयक्ष्मणि ।क्षेमस्तु कुशले दृष्टः तथा लब्धार्थरक्षणे ।क्षुल्लकः क्षेत्रजे काले कण्टकण्डूयने क्षुति ॥ ६ ॥
39.6 · p. 100
अनुष्टुप्metre not read in every line