कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthasaṅgraha

नानार्थसङ्ग्रह Nānārthasaṅgraha

749 verses · text only, tagging comes next

शकारः

शृङ्गं विषाणेऽम्बुपात्रे पर्वताग्रप्रभुत्वयोः ।शृङ्गी चातिविषामीनभेदयोर्वृषभौषधे ॥ १ ॥
35.1 · p. 84
अनुष्टुप्
शिवं भद्रे शिवः शंभौ कीले शिवा तु जम्बुके ।पथ्यागौर्योः शमीधात्र्योः शुद्धः केवलपूतयोः ॥ २ ॥
35.2 · p. 84
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 शि (wrong syllable)
श्रेयः शिवे प्रशस्ये च धर्मे चातिशयेऽपि च ।श्रेयसी गजपिप्पल्यामभयापाठयोरपि ॥ ३ ॥
35.3 · p. 84
अनुष्टुप्
शम्बरे च जले दृष्टं मृगदैत्यविशेषयोः ।शम्बरी मूषिकपर्ण्यां शैलूषो नटबिल्वयोः ॥ ४ ॥
35.4 · p. 84
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
शिखा शाखाशिफाग्रेषु चूडप्रवालयोरपि ।ज्वालायां बर्हिचूडायां शिलीमुखोऽलिबाणयोः ॥ ५ ॥
35.5 · p. 84
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable); pāda 4, syllable 3 मु (wrong syllable)
शुचिः शुद्धाग्निशुक्रेषु तथाषाढेऽनुपद्रुते ।उपधा शुद्धसचिवे शापः शपथनिन्दयोः ॥ ६ ॥
35.6 · p. 84
अनुष्टुप्
शेषोऽनन्ते गजे नागे स्वीकृतेतरवस्तुनि ।शेषा निर्माल्यदाने च शितिर्धवलकृष्णयोः ॥ ७ ॥
35.7 · p. 84
अनुष्टुप्
शिखरं पङ्कदाडिम्बबीजे च रत्नखण्डके ।अग्रकेवलयोश्चापि श्रीर्लक्ष्म्यां कान्तिसंपदोः ॥ ८ ॥
35.8 · p. 84
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
शिरो मूर्ध्नि पुरः सैन्ये प्रधाने चापि दृश्यते ।शुक्रोऽसौ भार्गवे ज्येष्ठे शुक्रमक्षिरुजीन्द्रिये ॥ ९ ॥
35.9 · p. 84
अनुष्टुप्
श्लेष्मघ्नी नसेल्लिकायां केतक्यामपि दृश्यते ।शिखी हुताशने वृक्षे मयूरे कुक्कुटेऽपि च ॥ १० ॥
35.10 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
शङ्खो निधौ नागभेदे शङ्खं कम्बुललाटयोः ।शारदोऽभिनवे वर्षे शालीनेऽपि शरोद्भवे ॥ ११ ॥
35.11 · p. 85
अनुष्टुप्
शोणो वल्लकवर्णाभे लोहिताश्वे नदान्तरे ।शिपिविष्टः खलतिके दुश्चर्मणि महेश्वरे ॥ १२ ॥
35.12 · p. 85
अनुष्टुप्
शिलीन्द्रो वृक्षभेदेऽपि मत्स्यके चुलिकामृदि ।श्रोणिः समानजातीनां संहतावावलौ तथा ॥ १३ ॥
35.13 · p. 85
अनुष्टुप्
शक्वरी मेखलायां स्यान्नदीछन्दोविशेषयोः ।शर्कराक्षरभेदकुम्भादिशकलेषु च ॥ १४ ॥
35.14 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शतह्रदाख्या शाल्मल्यां देशविद्युद्विशेषयोः ।शीतं तुषारवानीरबहुवारद्रुमेषु च ॥ १५ ॥
35.15 · p. 85
अनुष्टुप्
शिशुमारः पयोजन्तौ तारकामयकेशवे ।शय्या ग्रन्थस्य निर्माणे खट्वादिशयनीयके ॥ १६ ॥
35.16 · p. 85
अनुष्टुप्
शलो[शाला]वृकस्तु क्रूरारौ वलीमुखशुनोरपि ।शुश्रूषा श्रोतुमिच्छायां स्यात्कथापरिचर्ययोः ॥ १७ ॥
35.17 · p. 85
अनुष्टुप्
शतपत्राख्याब्जे केकिदार्वाघाटेषु सारसे ।श्यामः कृष्ण श्यामा रात्रौ शारिवायां फलीविशोः ॥ १८ ॥
35.18 · p. 85
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ख्या (wrong syllable); pāda 3, syllable 5 श्या (wrong syllable)
शृङ्गारः करिभूषायां नाटयस्य च रसान्तरे ।शुण्डा मलिनहस्तिन्यां मदिराहस्तिहस्तयोः ॥ १९ ॥
35.19 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शङ्कुः शस्त्रान्तरे कीले यादःसंख्याविशेषयोः ।शिशुकः शिंशुमारे च बालद्रुमविशेषयोः ॥ २० ॥
35.20 · p. 86
अनुष्टुप्
शम्बुस्तु मुसलाग्रे च लौहे वज्रे च विष्णुजे ।शरणं गृहरक्षित्रोः मारणे रक्षणेऽपि च ॥ २१ ॥
35.21 · p. 86
अनुष्टुप्
शरवाणिः शरमुखे पापिष्ठशरजीविनोः ।शार्ङ्गः शृङ्गस्य कोदण्डे विष्णुचापे शरासने ॥ २२ ॥
35.22 · p. 86
अनुष्टुप्
शुषिरं वंशादिवाद्ये गर्ते गर्ते[गर्त]समन्विते ।शाला तरुस्कन्धशाखागृहैकदेशयोर्गृहे ॥ २३ ॥
35.23 · p. 86
metre not recognised
शौन्यासनिकश्चौरे स्यादौखितासनिकेऽपि च ।शुल्को घट्टे विवाहाय वराद्ग्राह्यधनेऽपि च ॥ २४ ॥
35.24 · p. 86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
शक्तिरायुधभेदे स्यादुत्साहादौ बले तथा ।शीतचम्पकशब्दोऽयं दीपतर्पणयोर्मतः ॥ २५ ॥
35.25 · p. 86
अनुष्टुप्
शुद्धान्तान्तःपुरे गुह्यकक्षभेदे च भूपतेः ।शिलाद्वाराधरस्तप्तदृषदः शिलमुञ्छके ॥ २६ ॥
35.26 · p. 86
अनुष्टुप्
शाक्वरं छन्दसि तथा शाक्वरो वृषभे मतः ।श्राद्धः श्रद्धावति श्राद्धं शास्त्रतः पितृकर्मणि ॥ २७ ॥
35.27 · p. 86
अनुष्टुप्
शुक्तिद्रुनामिकामुक्तास्फोटयोरश्वलक्षणे ।शकुनो विहगे गीते शकुनं फललक्षणे ॥ २८ ॥
35.28 · p. 86
अनुष्टुप्
श्रवणः स्यूते नक्षत्रे श्रावणं श्रुतिकर्णयोः ।शाल्याख्या मदनतरौ काण्डे श्वाविट्छलाकयोः ॥ २९ ॥
35.29 · p. 87
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ते (wrong syllable); pāda 3, syllable 4 म (wrong syllable)
शासनं शास्त्र आज्ञायां लेखेऽपि परिभाषितम् ।शारिरक्षोपकरणे ख्यातं पर्यायभेदयोः ॥ ३० ॥
35.30 · p. 87
अनुष्टुप्
शिशिरं शीतले दृष्टमृतुभेदतुषारयोः ।शाखा वेदविभागे च तरोरवयवे भुजे ॥ ३१ ॥
35.31 · p. 87
अनुष्टुप्
शशो रोगे च पुंभेदे दृष्टं प्राण्यन्तरेऽपि च ।शल्कस्तु वल्कले खड्गे शुक्रः कुटजवज्रिणोः ॥ ३२ ॥
35.32 · p. 87
अनुष्टुप्
शरः स्याच्छबले वायौ शमलाख्या वधे यमे ।श्रुतिः श्रोत्रे च वेदे च शुक्रं सर्मणि निष्ठुरे ॥ ३३ ॥
35.33 · p. 87
अनुष्टुप्
कलं बन्धनेऽर्धे च शादः शस्पयोः[जम्बालशष्पयोः] ।श्रीपर्णमग्निमन्थेऽब्जे शंसा वचसि वाञ्छिते ॥ ३४ ॥
35.34 · p. 87
अनुष्टुप्
शरदृत्वन्तरे वर्षे शूलो रुक्शस्त्रभेदयोः ।श्वशुर्यो देवरे स्याले शिखण्डो बर्हचूडयोः ॥ ३५ ॥
35.35 · p. 87
अनुष्टुप्
शाको द्वीपान्तरे शक्तौ श्वेतस्तु रजते सिते ।शास्त्रमागम आज्ञायां शान्तिरुक्ता समे शुभे ॥ ३६ ॥
35.36 · p. 87
अनुष्टुप्
शङ्का त्रासवितर्के च श्रद्धा श्रद्धानुकाङ्क्षयोः ।शीलं प्रकृतौ सद्वृत्ते शयनं रतशय्ययोः ॥ ३७ ॥
35.37 · p. 87
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तौ (wrong syllable)
शस्त्रं प्रहरणे लोहे श्लोकपद्ये यशस्यपि ।शालः कषे मानभेदे शूकोऽनुग्रहशोकयोः ॥ ३८ ॥
35.38 · p. 88
अनुष्टुप्
शुभ्रं शुक्रे प्रदीसे च शमः शान्तौ निवर्तने ।श्येनो विहङ्गमे स्वेते[शुक्ले] शुषः शोषे तथाविले ॥ ३९ ॥
35.39 · p. 88
अनुष्टुप्
शुकाख्या कीरे स्थौणेये शस्तुब्रह्मार्हतोः शिवे ।श्रीपलाख्या विल्वे नील्यां शिखरीद्रुमशैलयोः ॥ ४० ॥
35.40 · p. 88
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 रे (wrong syllable); pāda 3, syllable 5 वि (wrong syllable)