All kośas › Nānārthasaṅgraha
नानार्थसङ्ग्रह Nānārthasaṅgraha
749 verses · text only, tagging comes next
ककारः
॥ इत्यौकारादिः ॥
अजादिः समाप्तः
कृष्णो वर्णान्तरे ध्वाङ्क्षे विष्णौ व्यासे धनञ्जये ।कृष्णा कलायां द्रौपद्यां कृष्णं मरिचलोहयोः ॥ १ ॥
12.1 · p. 23
अनुष्टुप्
कुमारो युवराजे तु शिशौ स्कन्देऽश्वदारके ।वरुणे कुमारी बालाजम्बुद्वीपौषधीषु च ॥ २ ॥
12.2 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
कौतुकै विषयाभोगे मङ्गले च कुतूहले ।विवाहसूत्रे विख्यातः क्वचित्कामेऽपि दृश्यते ॥ ३ ॥
12.3 · p. 23
अनुष्टुप्
कल्यं दिनमुखे सज्जे कल्यो दक्षे च नीरुजि ।कल्या कल्याणभावायां मदिरायामपि क्वचित् ॥ ४ ॥
12.4 · p. 23
अनुष्टुप्
करणं कारणे काये साधनेन्द्रियकर्मसु ।कायस्थे व्रतबन्धे च नृत्यगीतप्रभेदयोः ॥ ५ ॥
12.5 · p. 23
अनुष्टुप्
क्रिया कर्मणि पूजायां निष्कृतौ संप्रधारणे ।आलम्बोपायशिक्षासु चिकित्सारम्भयोः कृतौ ॥ ६ ॥
12.6 · p. 23
अनुष्टुप्
काण्डं बाणाम्बुनालेषु रहोविटपयोः क्षणे ।तरुशाखावधौ गर्ह्ये रत्ने स्कन्धे च शाखिनाम् ॥ ७ ॥
12.7 · p. 23
अनुष्टुप्
कक्षो जन्तोरवयवे तृणकच्छलतासु च ।कक्षा तु परिधानस्य पृष्ठतो विहिताञ्चले ॥ ९ ॥
12.9 · p. 23
अनुष्टुप्
कालो मृत्यौ महाकाले समये यमकृष्णयोः ।काली गौर्यां क्षारकीटे मातृभेदे नवाम्बुदे ॥ १० ॥
12.10 · p. 24
अनुष्टुप्
कला शिल्पे कालभेदे चन्द्रांशे कलनांशयोः ।द्रव्यबुद्धौ कलो मृष्टमधुरध्वनिते तथा ॥ ११ ॥
12.11 · p. 24
अनुष्टुप्
कुहना दम्भचर्यायां मायायां कुहरस्तथा ।कुहरं गह्वरे कर्णे कण्ठशब्दो गलेऽन्तिके ॥ १२ ॥
12.12 · p. 24
अनुष्टुप्
कामः काम्ये निकामे स्यादिच्छायामथ मन्मथे ।कामं स्वीकरणेऽसंख्ये काव्याख्या ग्रन्थशुक्रयोः ॥ १३ ॥
12.13 · p. 24
अनुष्टुप्
कर्णिकाहस्तिहस्ताग्रेऽङ्गुलौ कर्णविभूषणे ।सरोजबीजकोषे च कृती पण्डितयोग्ययोः ॥ १४ ॥
12.14 · p. 24
अनुष्टुप्
कोलं स्यादुदरे कोलो वृक्षभेदे फलध्वनौ ।कटित्रं चर्मभेदे च वीक्षितं कटिचर्मणि ॥ १५ ॥
12.15 · p. 24
अनुष्टुप्
ककुभोऽर्जुनवृक्षे स्यात् कुशे वीणाप्रसेवके ।कल्पो न्याये विधौ शास्त्रे संवर्ते ब्रह्मवासरे ॥ १६ ॥
12.16 · p. 24
अनुष्टुप्
काष्ठा काले प्रकर्षे च मर्यादायां दिशि स्मृता ।कलापः सञ्चये बर्हे मेखलायां च दूनके ॥ १७ ॥
12.17 · p. 24
अनुष्टुप्
कटकं वलये पूर्यां नितम्बे पर्वतस्य च ।कुशी फाले वल्लजायां कुशो दर्भे कुशं जले ॥ १८ ॥
12.18 · p. 24
अनुष्टुप्
क्रूरो भयंकरे दृष्टो नृशंसे कठिनेऽपि च ।कटुस्तीक्ष्णे रसे गन्धे कट्वकार्ये तु मत्सरे ॥ १९ ॥
12.19 · p. 24
अनुष्टुप्
कुशलं दीक्षिते क्षेमे समर्थे शिक्षिते स्मृतम् ।केतनं च ध्वजे काये निमन्त्रणनिवासयोः ॥ २० ॥
12.20 · p. 25
अनुष्टुप्
ककुद्वत्ककुदं श्रेष्ठे वृषाङ्गे नृपलक्ष्मणि ।कम्बलः प्रावरे भेदे सास्नायां कम्बलं जले ॥ २१ ॥
12.21 · p. 25
अनुष्टुप्
करो हस्तांशुशुण्डासु प्रत्यये च घनोपले ।करहाटोऽब्जस्कन्दे स्यात् करहाटं प्रसूनके ॥ २२ ॥
12.22 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ब्ज (wrong syllable)
कृत्यो विशुद्धिकार्ये च कृत्या क्रियादिवौकसः ।कुलं सजातिसन्दोहे गोत्रे जनपदे गृहे ॥ २३ ॥
12.23 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्रि (wrong syllable)
कम्पने वर्तने क्लृप्तौ कल्पना गजसजने ।कर्कशः कापिल्लेपे[काम्पिल्यवृक्षे] साहसिकेऽभये दृढे ॥ २४ ॥
12.24 · p. 25
metre not recognised
कौशिकः पेचके शके व्यालग्राहे च गुग्गुलौ ।कायः कदैवते वृक्षे शरीरलक्षयोरपि ॥ २५ ॥
12.25 · p. 25
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 श (wrong syllable); pāda 4, syllable 3 र (wrong syllable)
कुलायः पक्षिणां स्थाने तेषामेव च सद्मनि ।कञ्चुको वारबाणे च निर्मोचे कवचेऽपि च ॥ २६ ॥
12.26 · p. 25
अनुष्टुप्
कुसुम्भो महारजने दृश्यतेऽथ कमण्डलौ ।कूर्चः श्मश्रुणि दम्भे च भ्रुवोर्मध्ये विकत्थने ॥ २७ ॥
12.27 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
कणा मता तु पिप्पल्यां कणो धान्याङ्गलेशयोः ।कौक्कुटिको दाम्भिके स्याद्दूरे प्रेरितचक्षुषि ॥ २८ ॥
12.28 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 टि (wrong syllable)
कुकूलं शल्यगर्ते च कुकूलस्तु तुषानिले ।कोणोऽसौ लगुडे दृष्टो वीणादेर्वादने तथा ॥ २९ ॥
12.29 · p. 25
अनुष्टुप्
कम्बुः शङ्खे च शम्बूके वलये च स्मृतः क्वचित् ।कपोतः स्यात् पक्षिभेदे दृष्टः पारावते पुनः ॥ ३० ॥
12.30 · p. 25
अनुष्टुप्
कल्कं पापाशये पापे दम्भे किट्टे च भाषितम् ।कोष्ठः कुक्षौ कुसूले च मन्दिरावयवे निशि ॥ ३१ ॥
12.31 · p. 26
अनुष्टुप्
कूले तटे तडागे च स्तूपे सैन्यनितम्बयोः ।कर्णान्दूरुत्क्षिप्तिकायां कर्णपाल्यामपि क्वचित् ॥ ३२ ॥
12.32 · p. 26
अनुष्टुप्
कुण्डली चित्रलमृगे सर्पकुण्डलधारिणोः ।किल्बिषं दुरिते दृष्टं गरेऽपराध एव च ॥ ३३ ॥
12.33 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
कारिका विवृतिश्लोके वत[यात]नायां तथा कृतौ ।कलहंसस्तु कादम्बे राजहंसे नृपोत्तमे ॥ ३४ ॥
12.34 · p. 26
अनुष्टुप्metre not read in every line
कुम्भीलश्चौरे श्लोकादिछायायां शालमीनयोः ।कुतपः कम्बले व्याले राज्यभेदे च बर्हिषि ॥ ३५ ॥
12.35 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रे (wrong syllable)
कण्टकः स्यादपाङ्गे च [स्यात्पादपाङ्ग] रोमाञ्चे क्षुद्रवैरिणि ।केतुश्चिह्ने पताकायामुत्पातेऽपि प्रयुज्यते ॥ ३६ ॥
12.36 · p. 26
अनुष्टुप्metre not read in every line
काचः शिक्येऽक्षिरोगे च मृद्विशेषेऽपि कीर्तितः ।कुमुदं कैरवे ख्यातं कुमुदो दिग्गजे कपौ ॥ ३७ ॥
12.37 · p. 26
अनुष्टुप्
कोकनदस्तु रक्ताब्जे कथितं रक्तकैरवे ।कृतान्तो दैवे सिद्धान्ते यमाकुशलकर्मणोः ॥ ३८ ॥
12.38 · p. 26
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable); pāda 3, syllable 5 वे (wrong syllable)
केवलं त्वेकके दृष्टं तथा कृत्स्नेऽवधारिते ।करेणुः करिहस्तिन्योः कर्णिकारेऽपि दृश्यते ॥ ३९ ॥
12.39 · p. 26
अनुष्टुप्
क्रमुकः पट्टिकालोध्रे गुवाके ब्रह्मदारुणि ।कोषः पेश्यां धने दिव्ये परिवारे च कुड्मले ॥ ४० ॥
12.40 · p. 26
अनुष्टुप्
कौलीनं स्यात् कुलीनत्वे प्राणिद्यूते जनोदिते ।कार्मणं योगविद्यायां कर्मकारे कुपूरुषे ॥ ४१ ॥
12.41 · p. 26
अनुष्टुप्
कीनाशः कर्षके दृष्टः कन्दर्पान्तकयोरपि ।कान्ता स्त्रियां प्रियङ्गौ च कान्तः प्रियमनोज्ञयोः ॥ ४२ ॥
12.42 · p. 27
अनुष्टुप्
केशरो वकुले दृष्टः पुन्नागे नागकेसरे ।कलिङ्गाख्या शक्रफले धूम्याटे तिक्तकेसरे ॥ ४३ ॥
12.43 · p. 27
अनुष्टुप्
किर्मी हाटकपुत्र्यां च शालापलालयोः[लाशयोः] क्वचित् ।कुञ्जरा पाटलायां स्यात् धातक्यां कुञ्जरो गजे ॥ ४४ ॥
12.44 · p. 27
अनुष्टुप्metre not read in every line
कुर्चिका तुलिकायां स्यात् शूचिपांगुडकेषु च[सूचिकाङ्कटयोरपि] ।कक्ष्यापाल औपरिके शूरपाले च कीर्तितः ॥ ४५ ॥
12.45 · p. 27
metre not recognised
कूपोऽन्धौ गुणवृक्षे च क्वचिद्गर्तेऽपि दृश्यते ।कुल्याख्या जलप्रणालीसरितोः कुलजेऽस्थनि ॥ ४६ ॥
12.46 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ज (wrong syllable)
कलकण्ठः परपुष्टे दृश्यते कलवाचिनि ।कौपीने त्वपकार्ये च गुह्यचीरे प्रभाषितम् ॥ ४७ ॥
12.47 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
कक्ष्या साम्ये गजरज्जौ मेखलायां प्रकोष्ठके ।कमठः कच्छपे दृष्टो भाण्डभेदेऽपि कुत्रचित् ॥ ४८ ॥
12.48 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ज (wrong syllable)
काकाल्योषध्यां काकोलो द्रोणकाके विषान्तरे ।कङ्कणं कथितं सूत्रे मण्डले करभूषणे ॥ ४९ ॥
12.49 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ध्यां (wrong syllable)
कुषीदो जिगीषाशून्ये कुषीदं वृद्धिजीवने ।कोटिरस्रौ प्रकर्षे च सङ्ख्याभेदेऽटनौ तथा ॥ ५० ॥
12.50 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 गी (wrong syllable)
कीला कफोणिदेशेऽपि कोलः स्थाण्वर्चिषोरपि ।कदली मृगभेदेऽपि पताकामोचयोरपि ॥ ५१ ॥
12.51 · p. 27
अनुष्टुप्
कात्यायनी भवेद्गौर्यां भिक्षुकाधनयोषितोः ।कामगुणः स्मृतो रागे विषयाभोगयोरपि ॥ ५२ ॥
12.52 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 गु (wrong syllable)
कविर्विदुषि शुक्रे च स्यात्कवी तु खलीनके ।किंशब्दः कथिते क्षेपे प्रश्ने कुत्सावितर्कयोः ॥ ५३ ॥
12.53 · p. 28
अनुष्टुप्
कनिष्ठश्च कनीयांश्च यून्यत्यल्पे च क्षुल्लके ।करभः पाणेः कनिष्ठाया मणिबन्धान्तरुष्ट्रयोः ॥ ५४ ॥
12.54 · p. 28
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 च (wrong syllable); pāda 4, syllable 2 मणि (syllable split)
कपाले मस्तकास्थ्नि स्यात् घटाद्यवयवे तथा ।कुवलं कोले नीलाब्जे कलुषं पाप आविले ॥ ५५ ॥
12.55 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ले (wrong syllable)
केशवांश्च [केशटश्च] कणे विष्णौ कारणं हेतुघातयोः ।कन्दलं करिणीवाल्यां कुलालं कुण्डशिक्ययोः ॥ ५६ ॥
12.56 · p. 28
अनुष्टुप्
कार्मुकं कमठे चापे केशवः केशिकृष्णयोः ।करालो दन्तुरे तुङ्गे कान्तारं वनदुर्गयोः ॥ ५७ ॥
12.57 · p. 28
अनुष्टुप्
कितवो धूस्तूरे धूर्ते किष्कुर्वितस्तिहस्तयोः ।क्लीबः क्षुद्रेऽलसे षण्डे कच्छपी त्वलिवीणयोः ॥ ५८ ॥
12.58 · p. 28
अनुष्टुप्metre not read in every line
कर्षूर्नद्यां करीषाग्नौ केशरी सिंहवाजिनः ।कृच्छ्रं प्रायश्चित्ते दुःखे कुजोऽङ्गारकभूरुहोः ॥ ५९ ॥
12.59 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चि (wrong syllable)
करजः करजे नखे कोकश्चक्राह्वये वृके ।कञ्चुकी सर्पे स्थापत्ये कलङ्कोऽङ्कापवादयोः ॥ ६० ॥
12.60 · p. 28
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 न (wrong syllable); pāda 3, syllable 5 र्पे (wrong syllable)
क्रन्दनं रोदने ह्वाने कदम्बः शरपक्षिणोः ।कलत्रं जघने पत्न्यां कुञ्जो हनुनिकुञ्जयोः ॥ ६१ ॥
12.61 · p. 29
अनुष्टुप्
कलितं गृहीते ज्ञाते कर्बुरं हेमचित्रयोः ।कैतवस्तु छले द्यूते कृष्टिर्विदुषि कर्षणे ॥ ६२ ॥
12.62 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ही (wrong syllable)
कृषकः कर्षके फाले करो नक्षत्रहस्तयोः ।दिग्वस्तुनि तरौ वृन्दे कृपीटमुदरेऽम्भसि ॥ ६३ ॥
12.63 · p. 29
अनुष्टुप्
कृतं युगेऽपि पर्याप्ते क्रव्यान्मांसादरक्षसोः ।कारुजः कलभे नाकौ कल्माषश्चित्रकृष्णयोः ॥ ६४ ॥
12.64 · p. 29
अनुष्टुप्
कन्दं मूले चार्शोघ्ने कृमिः स्यात् कीटलाक्षयोः ।कुसुमं पुष्पे स्त्रीपुष्पे कौलेयकः श्वकुल्ययोः ॥ ६५ ॥
12.65 · p. 29
metre not recognised
अतोऽव्ययानि कथ्यन्ते कु पापेऽल्पजुगुप्सयोः ।किं प्रश्ने च जुगुप्सायां किमुत प्रश्नबाढयोः ।कं शिरः सुखतोयेषु किल संभाव्यवार्तयोः ॥ ६६ ॥
12.66 · p. 29
अनुष्टुप्