कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthasaṅgraha

नानार्थसङ्ग्रह Nānārthasaṅgraha

749 verses · text only, tagging comes next

भकारः

॥ इति बकारः ॥

भाण्डं मूलधने पात्रे भण्डवृत्तौ प्रकीर्तितम् ।भिन्नं विदारिते दृष्टं व्यतिरिक्ते च मिश्रिते ॥ १ ॥
29.1 · p. 68
अनुष्टुप्
भुजिष्यः स्यादनायत्ते प्रेष्ये च हस्तघातयोः ।भङ्गा गणशतने[क्षणतृणे] भङ्गो भेदे वीचौ पराजये ॥ २ ॥
29.2 · p. 68
metre not recognised
भारः सहसद्वितये पलानां चापि वीवधे ।भूजम्बूरपि गोधूमे वैकङ्कतफले तथा ॥ ३ ॥
29.3 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ह (wrong syllable)
भण्डनं कवचे युद्धे खलीकारे च दृश्यते ।भेदो विदारणो दृष्ट उपजापविशेषयोः ॥ ४ ॥
29.4 · p. 68
अनुष्टुप्
भिक्षा सेवाप्रार्थनयोर्भृतौ भिक्षितवस्तुनि ।भृङ्गमुक्तादिभृङ्गाश्च धूम्याटे षट्पदेऽपि च ॥ ५ ॥
29.5 · p. 68
अनुष्टुप्
भागधेयः करे भाग्ये दायादेऽपि च दृश्यते ।भवो भद्राप्तिसत्तासु शिवसंस्कारजन्मसु ॥ ६ ॥
29.6 · p. 68
अनुष्टुप्
भोगवती तु नागानां नगर्यां च प्रकीर्तिता ।रास्नायां भद्रवर्षे तु समाधौ च गजे शुभे ॥ ७ ॥
29.7 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
भूयोऽव्ययं पुनरर्थे भूयान् बहुतरे मतः ।भव्यं योग्ये च कल्याणे भाविन्यपि श्रुतं क्वचित् ॥ ८ ॥
29.8 · p. 68
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable); pāda 4, syllable 3 न्य (wrong syllable)
अङ्गः पराजये दम्भे गमने जलनिर्गमे ।भीमो वृकोदरे शंभौ दृश्यते च भयानके ॥ ९ ॥
29.9 · p. 68
अनुष्टुप्
भवेद्भोगवली गौर्यां भगवान् बुद्धपूज्ययोः ।भूतिकं भूमिनिम्बे च यवान्यं च तृणे तथा ॥ १० ॥
29.10 · p. 69
अनुष्टुप्
भुवनं पिष्टपे तोये भ्रूणः स्त्रीगर्भपोतयोः ।भेलो दिवाकरे चन्द्रे भुजङ्गं सिद्धसर्पयोः ॥ ११ ॥
29.11 · p. 69
अनुष्टुप्
भ्रातृव्यो भ्रातृजे शत्रौ भ्रमरोऽलिनि कामुके ।भूतात्मा तु विधौ देहे भक्तिर्भावे च सेवने ॥ १२ ॥
29.12 · p. 69
अनुष्टुप्
भूमिर्भूश्च क्षितौ स्थाने भवोऽतिशयभावयोः ।भीरुः शतावरी भीते भानुर्दिनकरे त्विषि ॥ १३ ॥
29.13 · p. 69
अनुष्टुप्
भागो भाग्य एकदेशे भेलः पर्वे च भीरुके ।भित्तिः कुड्ये प्रदोषे च भूतिर्भस्मनि संपदि ॥ १४ ॥
29.14 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ग्य (wrong syllable)
भरणं वेतने भृत्ये भूभृद्भपालशैलयोः ।भूमिस्पृग्वैश्यनरयोर्भर्ता स्वामिनि धारके ॥
29.15 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्भ (wrong syllable)
भूरि प्राये सुवर्ण च भर्म चामीकरे भृतौ ॥ १५ ॥
29.15 · p. 69