All kośas › Nānārthasaṅgraha
नानार्थसङ्ग्रह Nānārthasaṅgraha
749 verses · text only, tagging comes next
पकारः
॥ इति नकारः ॥
प्रत्ययः शपथे हेतौ ज्ञानाधीनगमादिषु ।प्रथितत्वे च विश्वासे प्रख्याते परिकीर्तितः ॥ १ ॥
26.1 · p. 56
अनुष्टुप्
पद्मोऽम्बुजे च संख्याने नागे ना च प्रकीर्तितः ।पद्म द्विरदवृन्दौ च पद्मा भोगश्रियोरपि ॥ २ ॥
26.2 · p. 56
अनुष्टुप्
पदं भवेत् परित्राणे व्यवसायां[साये] च कीर्तितम् ।वाक्ये वस्तुनि शब्दे च पताकश्चिह्नलक्षणम् ॥ ४ ॥
26.4 · p. 56
अनुष्टुप्metre not read in every line
प्लवो भेके कूपे भेले गोनर्दे श्वपचे प्लुतौ ।प्लवं निम्नमहीभागे पक्षिभेदे जनोत्तरे ॥ ५ ॥
26.5 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कू (wrong syllable)
भवेत्परिक वृन्दे परिवारविवेकयोः ।प्रारम्भगात्रिकाबन्धपर्यङ्केषु परिच्छदे ॥ ६ ॥
26.6 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रसवः शाखिनां पुष्पे फलेऽथ गर्भमोचने ।परम्परा प्रसङ्गे च जननापत्ययोरपि ॥ ७ ॥
26.7 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)
पणो विक्रय्यशाकादिमुष्टौ द्यूते भृतौ ग्रहे ।व्यवहारे पुराणेऽर्थे मूल्ये गण्डकविंशतौ ॥ ८ ॥
26.8 · p. 56
अनुष्टुप्
पक्षः सख्यौ बले साध्ये करिपार्श्वविरोधयोः ।गरुत्सहाययोश्चुल्लीरन्ध्र केशात्परे चये ॥ ९ ॥
26.9 · p. 57
अनुष्टुप्
प्रतिग्रहः क्रियाकारे सैन्यपृष्ठे पतद्ग्रहे ।द्विजदेयग्रहे तस्य स्वीकारे च प्रयुज्यते ॥ १० ॥
26.10 · p. 57
अनुष्टुप्
पुण्डरीकं सितच्छत्रे सिताम्भोजे च कीर्तितम् ।पुण्डरीको व्याघ्रभेदे दिग्गजेक्षुप्रभेदयोः ॥ ११ ॥
26.11 · p. 57
अनुष्टुप्
पुष्करं हस्तिहस्ताग्रे तीर्थभेषजभेदयोः ।व्योम्नि खड्गफले पद्मे तूर्यवक्त्रे जलेऽपि च ॥ १२ ॥
26.12 · p. 57
अनुष्टुप्
स्वभावे पङ्कजे चैव पौरामात्यादियोनिषु ।सत्त्वरजस्तमःसाम्ये प्रत्ययात्प्रथमे तथा ॥ १३ ॥
26.13 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
पूर्णालकं पूर्णपात्रं वलयस्वीयकज्जितम् [बलेन स्वीयकं कृतम्] ।यत्र तत्र यथासंख्ये पूर्णं पटहपात्रयोः ॥ १४ ॥
26.14 · p. 57
अनुष्टुप्metre not read in every line
प्राक् प्रत्यग्द्वितये देशे दिशि कालेऽव्ययं स्मृतम् ।प्राच्ये चैव प्रतीच्ये च वर्तमाने त्वनव्ययम् ॥ १५ ॥
26.15 · p. 57
अनुष्टुप्
पादोऽङ्घ्रौ च तुरीयांशे गिरेः प्रत्यन्तपर्वते ।दीधितौ तरुमूले च पुराख्या गुग्गुलौ पुरि ॥ १६ ॥
26.16 · p. 57
अनुष्टुप्
पौरुषेयं भवेत्कार्ये पादान्तरेष्वपि कचित् ।प्रदोषोऽपि निशाद्यायां कदाचिद्रात्रिमात्रके ॥ १७ ॥
26.17 · p. 57
अनुष्टुप्metre not read in every line
प्रभवो जन्महेतौ स्यात् पयोमूले पराक्रमे ।आद्योपलवधायेष्टौ पचनं पाकडिम्बयोः ॥ १८ ॥
26.18 · p. 58
अनुष्टुप्
पक्ष्म सूत्रे च सूक्ष्मांशे नेत्रलोमनि वर्तते ।दृष्टं पुष्पच्छदे चापि प्रतिबघा रोषघातयोः ॥ १९ ॥
26.19 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 प्रति (syllable split)
प्रग्रहो भासि योक्त्रे च वन्द्यां च नियमे तथा ।तुलासूत्रे सुवर्णालौ प्रतीकोऽङ्गप्रतीकयोः ॥ २० ॥
26.20 · p. 58
अनुष्टुप्
भवेत्प्रतिसरः सूत्रे व्रणशुद्धौ चमूकटौ ।मण्डलारक्षयोः प्रैष्ये प्रकाशः स्फुटरोचिषोः ॥ २१ ॥
26.21 · p. 58
अनुष्टुप्
प्रमाणं कारणे माने शास्त्रे सम्यक्प्रवक्तरि ।मर्यादायां तथा नित्ये पर्याख्या किंशुके दले ॥ २२ ॥
26.22 · p. 58
अनुष्टुप्
पालिः कर्णलतायां स्यात् प्रदेशे पङ्क्तिचिह्नयोः ।दृष्टं श्वश्रु[दृष्टश्मश्रु]स्त्रियामसौ पर्यायेऽवसरे क्रमे ॥ २३ ॥
26.23 · p. 58
अनुष्टुप्metre not read in every line
पर्व प्रतिपत्पक्षान्तसन्धौ विषुवदादिके ।ग्रन्थिप्रस्तावयोश्चापि प्रीतिः प्रेमप्रमोदयोः ॥ २४ ॥
26.24 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
कुरङ्गे च प्रपौत्रे च तनयेऽपि निगद्यते ।परम्परा सन्तानेऽपि पङ्कः पापे च कर्दमे ॥ २५ ॥
26.25 · p. 58
अनुष्टुप्
पाशः कर्णादिहेम्नि स्यात् समूहे केशपूर्वकः ।खगादिबन्धने चापि प्रसूनं कुसुमे फले ॥ २६ ॥
26.26 · p. 58
अनुष्टुप्
परागः पुष्परेणौ स्यात् पानीयरजसोरपि ।प्रतीतः प्रथितो दृष्टो हृष्टज्ञानमनीषिषु ॥ २७ ॥
26.27 · p. 58
अनुष्टुप्
पौरुषं नृभुजोन्माने पुंसो भावे च कर्मणि ।परिवेषो रवैर्बिभ्बे मण्डले[बिम्बमण्डले] वेष्टने तथा ॥ २८ ॥
26.28 · p. 59
अनुष्टुप्
पिप्पल्याख्या वृक्षभेदे वस्त्रच्छेदविशेषयोः ।प्रकरः स्तबकपुष्पादौ [स्तबके पुष्पे] समूहेऽपि प्रयुज्यते ॥ २९ ॥
26.29 · p. 59
metre not recognised
पाणिरुन्मत्तयोषायां सैन्यपृष्ठाङ्घ्रिमूलयोः ।पिनाकः स्याद्रजोवर्षे शंभोधन्वनि शूलके ॥ ३० ॥
26.30 · p. 59
अनुष्टुप्
पाचनो रन्धनद्रव्ये पाचनं पचने मतम् ।पातिनी रन्धनस्थाल्यां वागुरायामपि क्वचित् ॥ ३१ ॥
26.31 · p. 59
अनुष्टुप्
पतङ्गः शलभे सूर्ये शालिभेदे च पक्षिणि ।प्रसूतिः प्रसूते पुत्रे तनयायामपि स्मृता ॥ ३२ ॥
26.32 · p. 59
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सू (wrong syllable)
पवनं कुम्भकृत्पाकस्थाने स्यात्पवनोऽनिले ।पक्षतिस्तु गरुन्मूले तथा प्रतिपदि स्मृता ॥ ३३ ॥
26.33 · p. 59
अनुष्टुप्
पर्याप्तं यथेष्टे शक्ते तृप्तौ निवारणे तथा ।पटुस्तीक्ष्णे स्फुटे दक्षे पटोले निष्ठुरारुजोः ॥ ३४ ॥
26.34 · p. 59
अनुष्टुप्metre not read in every line
परीष्टिः परिचर्यायां दृश्यते च गवेक्षणे ।प्रदरो रोगभेदे स्याद्विदारे बाणभङ्गयोः ॥ ३५ ॥
26.35 · p. 59
अनुष्टुप्
पुलाकस्तुच्छधान्थे स्यात् संक्षेपे भक्तिसिक्थके[सक्थके] ।पुलकिं चित्तवृत्ते च [?] पिशिते कर्दमान्तरे ॥ ३६ ॥
26.36 · p. 59
अनुष्टुप्metre not read in every line
परिवारः परिजने दृष्टः खड्गपिधानके ।पङ्को विनाशेऽभिमुखे जने परिणते तथा ॥ ३७ ॥
26.37 · p. 59
अनुष्टुप्
पक्षचर एकचरे यूथभ्रष्टे विहङ्गमे ।पादपः पादपीठेऽपि तरौ पादरथे तथा ॥ ३८ ॥
26.38 · p. 60
अनुष्टुप्metre not read in every line
पीलुः पुष्पे गजे वृक्षे काण्डे तालास्थिखण्डके ।प्रेतः परेते नामृते तथा भूतान्तरेऽपि च ॥ ३९ ॥
26.39 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ना (wrong syllable)
प्रतिश्रयः सभायां स्यादाश्रये मन्दिरेऽपि च ।पिण्डमाजीवने देवे निवापे गोलके तथा ॥ ४० ॥
26.40 · p. 60
अनुष्टुप्
प्रायो मरणबाहुल्यतुल्येष्वनशनेऽपि च ।परीबापो जनस्थाने स्थाप्ये बीजे परिच्छदे ॥ ४१ ॥
26.41 · p. 60
अनुष्टुप्
पल्लवो विस्तरे [विटपे] षिद्गे पात्रे किसलये तथा ।परिधो मुद्रेऽस्त्रे च कथ्यते शूलघातयोः ॥ ४२ ॥
26.42 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 मु (syllables merged)
पुरस्कृतोऽभिशस्ते च पूजिते चाग्रतः कृते ।प्रसिद्धः प्रजवख्यातकृतप्रसाधनेषु च ॥ ४३ ॥
26.43 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
प्रणीतः संस्कृताग्नौ स्याद्विहितेऽपि प्रवेशिते ।पुलकः कृमिरोमाञ्चप्रस्तरेषु प्रयुज्यते ॥ ४४ ॥
26.44 · p. 60
अनुष्टुप्
पटलध्वनिः पिटके नेत्ररोगसमूहयोः ।प्रियकः कदम्बफल्यां पीतशाले मृगान्तरे ॥ ४५ ॥
26.45 · p. 60
metre not recognised
प्रकाण्डो विटपे शास्त्रे तरुशाखाशिफान्तरे ।पृषच्च पृषतो बिन्दौ प्रायश्चित्रे प्रयुज्यते ॥ ४६ ॥
26.46 · p. 60
अनुष्टुप्
प्रवणं क्रमनिम्ने च प्रह्वे चतुष्पथेऽपि च ।प्रकोष्ठः कूर्परान्नीचे कक्षायामपि दृश्यते ॥ ४७ ॥
26.47 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
प्रघनोऽपि बहिर्द्वारेऽलिन्दके लोहमुद्गरे ।पाटला गवि पुष्पे च पटलो व्रीहिवर्णयोः ॥ ४८ ॥
26.48 · p. 61
अनुष्टुप्
परिभाषणं च नियमे निन्दोपालम्भवाक्ययोः ।प्रतिग्राहः[प्रग्राहस्तु] तुलासूत्रे रश्मावपि च वाजिनाम् ॥ ४९ ॥
26.49 · p. 61
अनुष्टुप्metre not read in every line
पेचकः करिलाङ्गूलमूलकौशिकयोरपि ।प्रतियत्नस्तु संस्कारे तथोपग्रहलिप्सयोः ॥ ५० ॥
26.50 · p. 61
अनुष्टुप्
पत्तिः सैन्यप्रभेदे स्यात् पदातौ गमने तथा ।प्रणयः प्रेमविश्रम्भयाचनासु प्रकीर्तितः ॥ ५१ ॥
26.51 · p. 61
अनुष्टुप्
प्रथमं प्रमुखं चादौ प्रधाने परिकीर्तितम् ।पारायणं भवेत् कार्त्स्न्ये समासङ्गेऽपि कीर्तितम् ॥ ५२ ॥
26.52 · p. 61
अनुष्टुप्
परिबर्हो नृपार्हे स्यात् दृश्यते च परिच्छदे ।पार्श्वं चावयवे जन्तोर्वक्रोपाये च कीर्तितम् ॥ ५३ ॥
26.53 · p. 61
अनुष्टुप्
पराख्या केवले श्रेष्ठे रिपौ योग्ये स्वतोऽन्यतः ।भवेत्प्रतिकृतिः ख्यातौ प्रतिमाप्रतिकारयोः ॥ ५४ ॥
26.54 · p. 61
अनुष्टुप्
अस्ति प्रतिहतो द्विष्टपुच्छि[प्रति]स्खलितयोरपि ।भवेत्पिपलकं स्यूतिसूत्रे च स्तनचूचके ॥ ५५ ॥
26.55 · p. 61
अनुष्टुप्metre not read in every line
पलाशाख्या हरिद्राक्षषटीषु [हरिद्रक्षःशटीषु] किंशुके कुले [दले] ।भवेत्प्रणिहितं प्राप्ते न्यस्ते चापि ससंभृते ॥ ५६ ॥
26.56 · p. 61
अनुष्टुप्metre not read in every line
प्लवङ्गमः प्लवङ्गश्च मतौ वानरभेकयोः ।परमं स्वीकरेऽसंख्यं परमस्तु परेऽपि च ॥ ५७ ॥
26.57 · p. 61
अनुष्टुप्
प्रतिमानं प्रतिमेभदन्तद्वितयमध्ययोः ।भवेत्प्रवचनीयाख्या प्रवाक्ये च प्रवक्तरि ॥ ५८ ॥
26.58 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
प्रासादो विबुधावासे निवासे च महीभुजाम् ।भवेत्प्रवचवादस्तु[वचनं वेदे]कल्याणभाषिते मतः ॥ ५९ ॥
26.59 · p. 62
अनुष्टुप्metre not read in every line
पिण्याकः सिल्हके दृष्टस्तिलकल्के च कुत्रचित् ।पराक्रमः समुद्योगे प्राणमात्रे च दृश्यते ॥ ६० ॥
26.60 · p. 62
अनुष्टुप्
पराभवः परिभवे नाशेऽपि परिकीर्तितः ।प्रलयो मृत्युसंवर्तमूर्च्छासु परिकीर्तितः ॥ ६१ ॥
26.61 · p. 62
अनुष्टुप्
प्रणाय्यो लोभनिर्मुक्ते स्यादसम्मत एव च ।भवेत्परिमलः ख्यातौ गन्धे जनमनोहरे ॥ ६२ ॥
26.62 · p. 62
अनुष्टुप्
प्रतिष्कषः सहाये च वार्ताहारे पुरोगमे ।पिच्छलः[पित्सन्]पिपतिषन्नेतौ पतनेच्छुविहङ्गयोः ॥ ६३ ॥
26.63 · p. 62
अनुष्टुप्
पूर्वस्तु पूर्वपुरुषपुरस्तादग्रजेष्वपि ।पिशुना मता स्पृक्कायां पिशुनः सूचके खले ॥ ६४ ॥
26.64 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ता (wrong syllable)
पुरस्तु गुग्गुलौ दृष्टः पुरं पूर्देहरश्मिषु ।पवित्रं यज्ञोपवीते कुशे पूते च दृश्यते ॥ ६५ ॥
26.65 · p. 62
अनुष्टुप्
प्रतिपादने प्रतिपन्ने पिटो रोमपटे मृगे ।पतिः प्रभौ गतौ मूले पारावतः खगे मृगे ॥ ६६ ॥
26.66 · p. 62
metre not recognised
पुष्टो रोमणि पाषाणे पामरः खलनीचयोः ।पारदः क्षपणीगुर्वोः पार्थिवो भुवने नृपे ॥ ६७ ॥
26.67 · p. 62
अनुष्टुप्
प्रवेणी तु कुथे वेण्यां पुद्गलश्चात्मदेहयोः ।प्रगाढे तु द्वये[दृढे] कृत्स्ने[कृच्छे] प्रवापो देहवेश्मनोः ॥ ६८ ॥
26.68 · p. 63
अनुष्टुप्
प्लक्षो जटयां गर्दभाण्डे पोतः शिशुवहित्रयोः ।पद्धतिः पथि पङ्क्तौ स्यात् पूर्वश्च खण्डसाध्ययोः ॥ ६९ ॥
26.69 · p. 63
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 श्च (wrong syllable)
प्रतिष्ठा यशसि स्थाने पत्री श्येने खगे शरे ।प्राणो वायौ वने जीवे पुङ्गवो वृषभे वरे ॥ ७० ॥
26.70 · p. 63
अनुष्टुप्
प्रज्ञः प्राज्ञे स्त्रियां बुद्धौ पिण्डितं गलिते घने ।पृथग्जनोऽधमे मूर्र्खे पृथुकश्चिपिटेऽर्भके ॥ ७१ ॥
26.71 · p. 63
अनुष्टुप्
पुरुषो नाथतुङ्गेषु पटः प्रियालवस्त्रयोः ।पयोधरः स्त्रीस्तनेऽब्दे पयः क्षीरे तथाम्भसि ॥ ७२ ॥
26.72 · p. 63
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 प्रि (wrong syllable)
प्रयोजनं योगहेत्वोः प्रेम स्निग्धत्वनर्मणोः ।पङ्क्तिः स्यात् गौरवे पाके प्रतिपत्तिथिसंविदोः ॥ ७३ ॥
26.73 · p. 63
अनुष्टुप्
प्रतीहारो द्वाःस्थद्वारोः प्रेक्षाधीनृत्यदर्शयोः ।प्रस्थः सानुनि माने च प्रततिस्ततिवीरुधोः ॥ ७४ ॥
26.74 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वाः (wrong syllable)
पत्रं पक्षे दले युग्ये प्रार्थितं याचिते हते ।प्रपञ्चो बिस्तरे दम्भे पाताले क्ष्मातलौर्वयोः ॥ ७५ ॥
26.75 · p. 63
अनुष्टुप्
प्रकारो भेदसदृशोः प्रियङ्गुः कङ्कुवृक्षयोः ।प्रभूतः क्षुण्णे व्युत्पन्न प्राप्तिर्लाभे तथोदये ॥ ७६ ॥
26.76 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ण्णे (wrong syllable)
प्रविदारणं भिदाज्योः पीतिः पानतुरङ्गयोः ।प्रज्ञानं धीलक्षणयोः पूगः क्रमुकवृन्दयोः ॥ ७७ ॥
26.77 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
प्रवृत्तिर्वृत्तौ वार्तायां पुरुषो मनुजात्मनोः ।पुष्पं प्रसूनरजसोः पेशलश्चारुदक्षयोः ॥ ७८ ॥
26.78 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्तौ (wrong syllable)
प्रोक्षणं तु वधे सेके प्रैष्यः प्रेषणपीडयोः ।प्रसूरश्च जनन्योश्च प्रणिधिः प्रार्थने चरे ॥ ७९ ॥
26.79 · p. 64
अनुष्टुप्
प्रश्रयः प्रणये वेगे प्राप्तौ लब्धे जले कुशे ।पिचिण्डः कुक्षौ पश्वङ्गे पौत्रं कौलाहलास्ययोः ॥ ८० ॥
26.80 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्षौ (wrong syllable)
पिल्लः क्लिन्नदृक्लिन्नाक्ष्णोः पुष्यो मासभयोः स्मृतैः ।पलं माने च मांसे च पलाशी राक्षसे द्रुमे ॥ ८१ ॥
26.81 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दृ (wrong syllable)
प्लक्षः पिप्पलपर्कट्योः पार्थिवो भूभवे नृपे ।प्राप्तरूपोऽभिरूपे च पलिर्ग्रामनिवासयोः ॥ ८२ ॥
26.82 · p. 64
अनुष्टुप्
पर्युपोपर्युपर्यन्तः पूजा सम्मानलोकयोः ।प्रत्याभिमुख्ये वीप्सायां लक्षणप्रतिदानयोः ॥ ८३ ॥
26.83 · p. 64
अनुष्टुप्
उग्रे हृतस्य [इतिवृत्तस्य] चाख्याने मात्रार्ये तुल्यभागयोः ।पुरा प्रबन्धनिकटचिरन्तनेष्वनागते ॥ ८४ ॥
26.84 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)
पूर्वेद्युः पूर्वदिवसप्रत्यूषयोरुदाहृतम् ।पुरस्तात्प्रथमे प्राच्यां पुरार्थे च पुरस्तथा ॥ ८५ ॥
26.85 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
पुनरप्रथमे भेदे प्राक् तुल्येऽन्तरपूर्वयोः ।पश्चात्प्रतीच्यां चरमे प्रादुः स्फुटे च संभवे ॥ ८६ ॥
26.86 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्फु (wrong syllable)