All kośas › Nānārthasaṅgraha
नानार्थसङ्ग्रह Nānārthasaṅgraha
749 verses · text only, tagging comes next
वकारः
॥ इति लकारः ॥
वार्ता वातिङ्गणोदन्तकृष्यादिषु च वर्तने ।वार्तमारोग्यनिःसारवृत्तिशालिषु नीरुजि ॥ १ ॥
34.1 · p. 78
अनुष्टुप्
वर्णो यशसि विप्रादौ गुणाक्षारकुथासु च ।शुक्लादिस्तुतिभेदेषु चित्रे रूप्ये विलेपने ॥ २ ॥
34.2 · p. 78
अनुष्टुप्
वरो जामातरि श्रेष्ठे दैवादेवाञ्छिते [दैवताद्वाञ्छिते] वृतौ ।वरी मता शतावर्यां वरमल्पेप्सितेऽव्ययम् ॥ ३ ॥
34.3 · p. 78
अनुष्टुप्metre not read in every line
वशागन्ध्या गरीमुख्योः करिणीयोषितोरपि ।वशः प्रवेश आयातु [१] अभिलाषे च कथ्यते ॥ ४ ॥
34.4 · p. 78
अनुष्टुप्
विषयीध्वनिरुद्दिष्टो वैषायिकजने नृपे ।इन्द्रिये कामदेवे च विषयासक्तपूरुषे ॥ ५ ॥
34.5 · p. 78
अनुष्टुप्
विधानं कविकरणे विधावभ्यर्चने धने ।वेदनायामुपाये च कथ्यते वैरभेदयोः ॥ ६ ॥
34.6 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
वृषा मूषिकपर्ण्यां तु वृषः स्याद्वृषभौषधौ ।धर्मप्रभेदराश्योश्च श्रेष्ठाम्बु[?]गोस्वशुक्रले [वासशुक्रले] ॥ ७ ॥
34.7 · p. 78
अनुष्टुप्metre not read in every line
व्यसनं पापरागादिदैवारिष्टफलेषु च ।विपत्तारः शुभे शक्तौ विधुः केशवचन्द्रयोः ॥ ८ ॥
34.8 · p. 78
अनुष्टुप्
विनीतो वाणिजे क्षिप्ते निभृते विजितेन्द्रिये ।विनयं चापि दृष्टं च वृष्णिर्यादवमेषयोः ॥ ९ ॥
34.9 · p. 78
अनुष्टुप्
वसुर्याक्त्रेऽग्नौ शुक्षेंऽशौ शिवमाल्यां स्वरान्तरे ।वसू रत्ने धने स्वादौ जीववाशाश्मपक्षिषु ॥ १० ॥
34.10 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग्नौ (wrong syllable)
विशिखा तु खनित्रे स्यात् प्रतोल्यां विशिखः शरे ।विद्धं सूच्यादिनिम्ने स्यात् सादृश्ये ताडिते तथा ॥ ११ ॥
34.11 · p. 79
अनुष्टुप्
विहारः स्वगतावासक्रीडापरिभ्रमेषु[क्रमेषु] च ।वर्वरः केशविन्यासे पारसीकजनेऽधमे ॥ १२ ॥
34.12 · p. 79
अनुष्टुप्metre not read in every line
स्याद्द्व्यतिकरशब्दोऽयं व्यसनव्यतिषङ्गयोः ।विवेकः सलिलद्रोण्यां पृथग्भावविचारयोः ॥ १३ ॥
34.13 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ति (wrong syllable)
विषयो गोचरे देशे रूपादौ नित्यसेविते ।वितानः शुड[तुच्छ] उल्लोचे यागे विस्तारमन्दयोः ॥ १४ ॥
34.14 · p. 79
अनुष्टुप्metre not read in every line
वर्ष्म देहे प्रमाणे च दृश्यते सुन्दराकृतौ ।वामं सव्ये प्रतीपे च चारौ वामा च योषिति ॥ १५ ॥
34.15 · p. 79
अनुष्टुप्
विमानं देवतायाने सप्तभौमगृहे तथा ।व्युत्थानं स्वातन्त्र्ये हृद्ये विरोधाचरणेऽपि च ॥ १६ ॥
34.16 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
वेकटः स्याद्विकटिके मत्स्यभेदे चमूनि च ।वीवधो विवधः पाण्या पर्याहरेऽध्वभारयोः ॥ १७ ॥
34.17 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
विधिर्दैवे विधाने च काले धातरि चेष्यते ।विष्टरः पादपे पीठे कुशमुष्टौ च दृश्यते ॥ १८ ॥
34.18 · p. 79
अनुष्टुप्
वप्रो रोधसि केदारे प्राकारे पितरि स्थितः ।वेगः प्रवाहकिंपाकरेतः सु कथितो जवे ॥ १९ ॥
34.19 · p. 79
अनुष्टुप्
वाहस्तुरङ्गमे याने वृषो वाहभुजेऽपि च ।व्यलीकपीडनाकार्यविलक्षेषु च विप्रिये ॥ २० ॥
34.20 · p. 79
अनुष्टुप्
विग्रहो विस्तरे युद्धे वाक्यभेदे कलेबरे ।वरचन्दनं कालीये देवदारुमहीरुहे ॥ २१ ॥
34.21 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नं (wrong syllable)
वारि नीरेऽथ वा विन्दुकलसी कविवन्दयोः[?] ।वालं कटे शतपले शुष्के सेचनकर्मणि ॥ २२ ॥
34.22 · p. 80
अनुष्टुप्
वीथिर्वर्त्मालिगेहाङ्गे पङ्क्तिरूपकयोरपि ।वि[धुः] चन्द्रे चतूरङ्गे पाशके समुदाहृतः ॥ २३ ॥
34.23 · p. 80
अनुष्टुप्
विविक्तं स्यादसंबाधे पवित्रे विजनेऽपि च ।विषाणं करिणां दन्ते पशुशृङ्गेऽपि कीर्तितम् ॥ २४ ॥
34.24 · p. 80
अनुष्टुप्
विलेपनं यवागु [यवाग्वायां] चारुभूषणयोरपि ।व्यञ्जनं तेमने श्मश्रुचिह्नेष्ववयवेऽपि च ॥ २५ ॥
34.25 · p. 80
अनुष्टुप्metre not read in every line
वर्तनं तर्करीपिण्डे जीवने वामने तथा ।विश्वकर्मा दिवानाथे देवानामपि शिल्पिनि ॥ २६ ॥
34.26 · p. 80
अनुष्टुप्
भवेद्विहननं घाते वधे विघटने तथा ।विस्रम्भः स्यात्परिचये विश्वासविप्रलम्भयोः ॥ २७ ॥
34.27 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
वेष्टनं मुकुटोष्णीषवाटेषु परिभाषितम् ।वर्षाः प्रावृषि वर्षं तु लोकधाधाब्द[लोकद्वीपाब्द]वृष्टिषु ॥ २८ ॥
34.28 · p. 80
अनुष्टुप्
विम्बं तु प्रतिबिम्बे स्थान्मण्डले बिम्बिकाफले ।वृजिनः कथितः केशे वृजिनं भुग्ने किल्विषे ॥ २९ ॥
34.29 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ग्ने (wrong syllable)
व्याघ्रौषध्यां व्याघ्रः पशौ राजादिपूर्वको वरे ।विनायको विघ्नराजे तथा देशबलेऽपि च ॥ ३० ॥
34.30 · p. 80
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ध्यां (syllables merged)
वृत्तान्तो विशेषे कार्त्स्न्ये वार्ता प्राक्तनयोरपि ।वयस्था त्वभयाधात्र्योर्वयस्थो---वनच्ययोः[?] ॥ ३१ ॥
34.31 · p. 80
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 शे (wrong syllable)
वयः पक्षिणि धान्यादौ दृश्यते यौवनेऽपि च ।विपणिः पण्यवीथ्यां तु वीक्षि----[ते क्व]चिदापणे ॥ ३२ ॥
34.32 · p. 80
अनुष्टुप्
वाच्ययुक्त वदे [वाच्योऽयुक्ते पदे ?] वाच्या हे सिते [वाच्यं हीने च कुत्सिते] ।वार्धकं स्याद्वृद्धकार्ये वृद्धत्वे वृद्धसंहतौ ॥ ३३ ॥
34.33 · p. 81
metre not recognised
विहायस्तु मतं व्योम्नि विहायश्चापि पक्षिणि ।विधा विधाने हस्त्यन्ने प्रकारे वेतनर्द्धिषु ॥ ३४ ॥
34.34 · p. 81
अनुष्टुप्
विष्टिः कर्मकरे तस्य मूल्ये करणकर्मणाम् ।भवेद्विदारणं भेदे तथा विद्धस्वनेऽपि च ॥ ३५ ॥
34.35 · p. 81
अनुष्टुप्
विस्रस्तो विश्वसनार्शे [विश्वासानर्हे] विश्वस्ता विधवा स्त्रियाम् ।विवशो वेशप्रकृतावरिष्टे दुष्टधीगुणे ॥ ३६ ॥
34.36 · p. 81
metre not recognised
वामनः केशवे खर्वे दृश्यते दिग्गजान्तरे ।विद्रुमः स्यात्किसलये प्रवालमणिभूरुहोः ॥ ३७ ॥
34.37 · p. 81
अनुष्टुप्
व्यूढो विशाले विन्यस्ते संहतेऽपि प्रयुज्यते ।वरिष्ठः स्याद्गुरुतमे तथा वत्से च दृश्यते ॥ ३८ ॥
34.38 · p. 81
अनुष्टुप्
विच्छिन्नस्तु समारब्धे कथ्यते च द्विधाकृते ।वर्तिर्दीपदशायां तु दीपे गात्रानुलेपने ॥ ३९ ॥
34.39 · p. 81
अनुष्टुप्
वारुकी सिन्धौ चित्राश्वे पर्णजीवे च विद्विषि ।वामिलो दाम्भिके चैव वृषाकपिः शिवे हरौ ॥ ४० ॥
34.40 · p. 81
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 न्धौ (wrong syllable); pāda 4, syllable 3 क (wrong syllable)
विकारो रुजि विकृतौ विभुः परिवृढे दृढे ।वृद्धिर्वर्धन आनन्दे वेधा विधिमनीषिणोः ॥ ४१ ॥
34.41 · p. 81
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रु (wrong syllable)
वपुः शस्ताकृतौ काये वञ्चकः फेरुधूर्तयोः ।वर्षाभूर्भेकशीथघ्न्योर्वृद्धः स्थविरधीमतोः ॥ ४२ ॥
34.42 · p. 81
अनुष्टुप्
विवस्वान् मनौ सूर्ये वीजं रेतसि कारणे ।विस्तारो विस्तृतस्तम्भे विकाशो विजने स्फुटे ॥ ४३ ॥
34.43 · p. 81
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
व्यवायोऽन्तर्दुरितयोर्वहो[होऽपि] स्कन्धवाहयोः ।वृष्टिः समृद्धिफलयोर्वृषयो व्यक्तशुक्रयोः ॥ ४४ ॥
34.44 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वीरुद्विटपाल[वीरुल्लताविट]पयोर्वापाविवमेहयोः[?] ।व्याप्तो-- व्यायते [गाढे व्यापृते च] वीचिः स्तोकतरङ्गयोः ॥ ४५ ॥
34.45 · p. 82
metre not recognised
वृषाकपायी श्रीगौर्योः विन्दुर्दातरि विप्रुषि ।वारुणी च सुराप्राच्योर्विभावसुः शुचौ रवौ ॥ ४६ ॥
34.46 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
विकटं पृथौ कराले विष्कम्भस्तरुरोधसोः ।विशुद्धं निभृतौ सत्ये वृषभः पुङ्गवे वृषे ॥ ४७ ॥
34.47 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 पृ (wrong syllable)
विगतो निष्प्रभे वीते बुधः सौभ्ये कवौ सुरे ।व्यालो व्याघ्रे खले सर्पे विस्मयश्चित्रदर्पयोः ॥ ४८ ॥
34.48 · p. 82
अनुष्टुप्
वाहिनी पूतनानद्योः वेल्लितं कुट्टिते धुते ।वर्धनं छेदने वृद्धौ वीरस्तु सुभटे वरे ॥ ४९ ॥
34.49 · p. 82
अनुष्टुप्
विल्वं विचारिते लब्धे विट् च मानुषवैश्ययोः ।विलग्नो मध्ये व्यायामः पौरुषे च श्रमे तथा ॥ ५० ॥
34.50 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ध्ये (wrong syllable)
विश्वाख्या विषाजगतोर्व्यक्तः स्फुटे च पण्डिते ।विशारदो बुधे श्रेष्ठे विवरं दोषरन्ध्रयोः ॥ ५१ ॥
34.51 · p. 82
अनुष्टुप्metre not read in every line
वैदेही सीतापिप्पल्योर्व्यग्रो व्याहत आकुले ।विकृतोत्पले बीभत्से वर्जनं त्यागहिंसयोः ॥ ५२ ॥
34.52 · p. 82
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ता (wrong syllable); pāda 3, syllable 5 ले (wrong syllable)
वर्त्म नेत्रच्छदे मार्गे वाष्प ऊष्मणि चाश्रुणि ।विरोचनोऽर्के चन्द्राग्न्योर्वदान्यो दातृवाग्मिनोः ॥ ५३ ॥
34.53 · p. 82
अनुष्टुप्
वाग्यो निर्वेदने कल्ये वैशाखो मासमन्थयोः ।विश्लेषो विधुरे योगे वरीयान् विपुले वरे ॥ ५४ ॥
34.54 · p. 82
अनुष्टुप्
वद्धो रूपेऽपि विड्भासोः वने कानननीरयोः ।विष्वक्सेनाख्या तु फल्यां विष्णौ प्रस्थानवर्गयोः ॥ ५५ ॥
34.55 · p. 83
अनुष्टुप्
व्यूहो वृन्दे बलन्यासे वज्रो हीरकशस्त्रयोः ।विक्रमोऽतिशक्तिकान्त्योर्वीर्यं वत्सेंऽशुरेतसोः ॥ ५६ ॥
34.56 · p. 83
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ति (wrong syllable)
॥ इति वकारः ॥
34.57 · p. 83