All kośas › Nānārthasaṅgraha
नानार्थसङ्ग्रह Nānārthasaṅgraha
749 verses · text only, tagging comes next
चकारः
॥ इति घकारः ॥
चित्रा सुभद्राखुपर्ण्योः सरिन्नक्षत्रभेदयोः ।गवाक्ष्यां चित्रतिलक आलेख्ये कर्बुरेऽद्भुते ॥ १ ॥
16.1 · p. 36
अनुष्टुप्
चक्रं सैन्ये रथाङ्गे च राष्ट्रे दम्भान्तरे तथा ।आयुधे सलिलावर्ते चक्रो रथाङ्गनामनि ॥ २ ॥
16.2 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
चन्द्रं सुवर्णे कर्पूरे चन्द्रः काम्पिल्लसोमयोः ।स्याद्बर्हिचन्द्रके काम्ये चेलं गर्हितवस्त्रयोः ॥ ३ ॥
16.3 · p. 36
अनुष्टुप्
चिलमीलिका तु खद्योते कण्ठीभेदे च विद्युति ।चपलाख्या रसे लोले शीघ्रे चाप्यचिरद्युतौ ॥ ४ ॥
16.4 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
चमसः पर्पटे पात्रे पिष्टभेदे च लड्डुके ।चिल्लन्तु सह चुल्लेन क्लिन्नाक्षे क्लिन्नलोचने ॥ ५ ॥
16.5 · p. 36
अनुष्टुप्
चैत्य उद्देशवृक्षे स्यात् चैत्यं चिह्ने जिनाण्डजे [जिनालये] ।चटुश्चाटुनि विज्ञातः स्तुतावथ पिचिण्डके ॥ ६ ॥
16.6 · p. 36
अनुष्टुप्metre not read in every line
चरणो वेदशाखादौ पादपादपमूलयोः ।चलने भ्रमणे पादे दृष्टं वस्त्रान्तरेऽपि च ॥ ७ ॥
16.7 · p. 36
अनुष्टुप्
चतुरश्चक्रगण्डौ स्यात् दक्षे लोचनगोचरे ।चतुष्की मशके हर्यां भवने यष्टिकान्तरे ॥ ८ ॥
16.8 · p. 36
अनुष्टुप्
चामरपुष्पो माकन्दे काशकेतकयोरपि ।चिरण्टी तु सुवासिन्यां यौवनान्वितयोषिति ॥ ९ ॥
16.9 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 म (wrong syllable)
चूर्णवाग्वासयोगे तु धूलिक्षारप्रभेदयोः ।चन्द्रहासो रावणासौ खड्गमात्रे च दृश्यते ॥ १० ॥
16.10 · p. 37
अनुष्टुप्
चिपिटः पिष्टभेदे स्यात् तथा टिप्पितरि स्मृते [चिपिटकः स्मृतः] ।चिकुरश्चञ्चले दृष्टः केशपादपभेदयोः ॥ ११ ॥
16.11 · p. 37
अनुष्टुप्metre not read in every line
चर्चा देव्यां च चिन्तायां स्थासकेऽपि प्रकीर्तितः ।चञ्चुः स्यात्त्रोटौ वेरण्डे चोक्षो गीतमनोज्ञयोः ॥ १२ ॥
16.12 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 टौ (wrong syllable)
चित्रभानू रवावग्नौ चक्री विष्णौ भुजङ्गमे ।चित्रको भेषजे व्याघ्र चक्रपादो रथे गजे ॥ १३ ॥
16.13 · p. 37
अनुष्टुप्
चोद्यं चित्रे चोदनीये चारश्चरप्रवासयोः ।चयो वृन्दे प्रबन्धे च चितिश्चित्यासमूहयोः ॥ १४ ॥
16.14 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
चूडा शिखायां वडभौ चरश्चारेऽथ चञ्चले ।चर्म स्यात्त्वचि फलके चिह्नमङ्कपताकयोः ॥ १५ ॥
16.15 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्त्व (wrong syllable)
चराचरश्चरे लोके चरुर्हव्यान्नभाण्डयोः ।अन्वाचये समाहारे चान्योन्यार्थे सुमुच्चये ॥ १६ ॥
16.16 · p. 37
अनुष्टुप्