All kośas › Nānārthasaṅgraha
नानार्थसङ्ग्रह Nānārthasaṅgraha
749 verses · text only, tagging comes next
उकारः
॥ इतीकारः ॥
उपकारश्चोपकृतौ प्रकीर्णकुसुमादिके ।भवेदुपनिषद्धर्मे रहोवेदान्तयोरपि ॥ १ ॥
5.1 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चो (wrong syllable)
उदर्क उत्तरे काले तथोत्तरफले मतः ।उन्माथः पाशयन्त्रे स्यात् वधे घाते च दृश्यते ॥ २ ॥
5.2 · p. 14
अनुष्टुप्
उर्वरा सर्वसस्याढया वसुधायां क्षितावपि ।भवेदुल्लिखिताभिक्षासमुत्कीर्णे तनूकृते ॥ ३ ॥
5.3 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 वसु (syllable split)
स्यादुत्पतनमुत्पत्तौ तथोर्ध्वगमने मतम् ।उत्थानमुद्गमे तन्त्रे पौरुषेऽङ्गन उद्यमे ॥ ४ ॥
5.4 · p. 14
अनुष्टुप्
उत्तरे श्रेष्ठे वाग्भेदे उदीच्योर्ध्वपरेषु च ।उदारो महति ख्यातो दानशौण्डे च दक्षिणे ॥ ५ ॥
5.5 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष्ठे (wrong syllable)
उपासनं शराभ्यासे शुश्रूषायां च दृश्यते ।उपकुम्भं समीपे च निःशलाकेऽपि कीर्तितम् ॥ ६ ॥
5.6 · p. 14
अनुष्टुप्
उत्तंसः कर्णपूरे तु शेखरेऽपि प्रकीर्तितः ।उपाधिर्धर्मचिन्तायां कुटुम्बव्यामृतावपि ॥ ८ ॥
5.8 · p. 14
अनुष्टुप्
उद्यानं सङ्ग्रहे याने वनभेदे प्रयोजने ।स्यादुद्धरणमुन्मूले संभुक्तोज्झित एव च ॥ ९ ॥
5.9 · p. 14
अनुष्टुप्
उत्थितं प्रोद्यते जाते वृद्धिमत्यपि दृश्यते ।उदास्थितश्च रुग्भेदे प्रतीहारे च सम्मतः ॥ १० ॥
5.10 · p. 14
अनुष्टुप्
उद्ग्राहितमुपन्यस्ते बद्धग्राहितयोरपि ।उग्रः स्यादुत्कटे क्षत्राच्छूद्रापुत्रे त्रिलोचने ॥ ११ ॥
5.11 · p. 15
अनुष्टुप्
उपग्रहो भवेद्वन्द्यामनुकूलित एव च ।उपस्पर्शः स्नानाचान्त्योर्व्यवधिस्पर्शनेऽपि च ॥ १२ ॥
5.12 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्ना (wrong syllable)
उचितो युक्तेऽनुमते निश्चिताभ्यस्तयोरपि ।उपप्लवोऽध्यासे राहावुत्पाते च प्रयुज्यते ॥ १३ ॥
5.13 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्तेऽ (wrong syllable)
उपक्रमश्चिकित्सायामुपधारम्भयोरपि ।उत्सवध्वनिरुत्सर्गे स्यादामर्षे क्षणेऽपि च ॥ १४ ॥
5.14 · p. 15
अनुष्टुप्
उपाहितो वह्न्युत्पाते दृश्यते निहतेऽपि च ।उद्घातः पादस्खलिते क्षत्राङ्गे समुपक्रमे ॥ १५ ॥
5.15 · p. 15
अनुष्टुप्
उष्णीषं मूर्द्ध्न शिरोवेष्टने कथ्यते बुधैः ।उपलब्धिर्भवेत्प्राप्तौ तथा ज्ञानमनीषयोः ॥ १६ ॥
5.16 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उपनाहो वैरे स्यादुपाधि[व्रणालेपे वैरे] वीणानिबन्धने ।उन्मत्त उन्मादवति धुस्तूरे च प्रकीर्तितः ॥ १७ ॥
5.17 · p. 15
अनुष्टुप्
उडुम्बरो द्रुदेहल्योरुदूढः पृथुलोढयोः ।उषा निष्यव्यायान्ते [निशाया अन्ते] स्स्यात् उपोढो निकटोढयोः ॥ १८ ॥
5.18 · p. 15
अनुष्टुप्metre not read in every line
उपरागः सङ्गे राहोरुदितं प्रोक्त उद्गते ।उत्कलिकोत्कण्ठावीच्योरुपलः प्रस्तरे मणौ ॥ १९ ॥
5.19 · p. 15
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable); pāda 3, syllable 2 त्क (wrong syllable)
उपधिर्व्याजे रथाङ्गे उरो वक्षसि सत्तमे ।उत्कटः क्षीबोत्कटयोरुषः प्रत्यूषसन्ध्ययोः ॥ २० ॥
5.20 · p. 15
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 बो (wrong syllable)
उषितं व्युषिते दग्धे उदर्चिरुत्प्रभेऽनले ।उत्सेध उन्नतौ काये उस्राख्या गवि दीधितौ ॥ २१ ॥
5.21 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्चि (wrong syllable)
उद्धानमुद्गमे वृन्त्यां[?] उपस्थः क्रोडगुह्ययोः ।उमातसीहैमवत्योरुडुपो भेलचन्द्रयोः ॥ २२ ॥
5.22 · p. 16
अनुष्टुप्
उपतापो गदे तापे उत्सर्गस्त्यागदानयोः ।उररी चोररी चोरी विस्तारेऽङ्गीकृतेऽव्ययम् ॥ २३ ॥
5.23 · p. 16
अनुष्टुप्
उदक् काले देशदिशोरुदीच्ये स्यादनव्ययम् ।उप हीनेऽधिके दृष्टमुत बाढविकल्पयोः ॥ २४ ॥
5.24 · p. 16
अनुष्टुप्