कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthasaṅgraha

नानार्थसङ्ग्रह Nānārthasaṅgraha

749 verses · text only, tagging comes next

छकारः

॥ इति चकारः ॥

छत्रा मधुरिकायां स्यात् छत्रमातपवारणे ।छाया पङ्क्तौ दीप्त्यभावे प्रतिमार्कस्त्रियोस्त्विषि ॥ १ ॥
17.1 · p. 38
अनुष्टुप्
छेको गृहासक्तपक्षिमृगयोर्नागरे तथा ।छिकुरः पक्षिभेदेऽपि गृहबभ्रौ भुजङ्गमे ॥ २ ॥
17.2 · p. 38
अनुष्टुप्
छलं छद्मस्खलितयोश्छदनं पत्रपक्षयोः ।छदो गरुति पत्रे च छन्दनं रहसि स्मृतम् ॥ ३ ॥
17.3 · p. 38
अनुष्टुप्
छन्दः श्रुतौ गायत्र्यादौ छद्म कैतवसाधने ।छिद्रं स्याद्दूषणे गर्ते छन्दः स्यादाशये वशे ॥ ४ ॥
17.4 · p. 38
अनुष्टुप्