All kośas › Nānārthasaṅgraha
नानार्थसङ्ग्रह Nānārthasaṅgraha
749 verses · text only, tagging comes next
तकारः
॥ इति डकारः ॥
तलस्ताले चपेटे च तलं चाधःस्वरूपयोः ।कार्यबीजे प्रकोष्ठे च ज्याघातवारणे मतः ॥ १ ॥
22.1 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
तारो गाढस्वने मुक्तशुद्धौ निर्मलमौक्तिके ।तारं रूप्ये तार इव तारा च नेत्रमध्ययोः ॥ २ ॥
22.2 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
तालो गीतिक्रियामाने मध्यमाङ्गुष्ठनामिते ।तृणराजे हस्ततले तालं तु हरितालके ॥ ३ ॥
22.3 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ह (wrong syllable)
तीर्थं क्षेत्रेऽध्वरे पात्रे शास्त्रे सलिलगोचरे ।योषिद्रजस्युपाये स्यादुपाध्याये च मन्त्रिणि ॥ ४ ॥
22.4 · p. 44
अनुष्टुप्
तन्त्री वीणागुणे नाड्यां तन्त्रं द्व्यर्थे परिच्छदे ।तन्तुवाये वरे जायौ सिद्धान्ते राष्ट्रवृद्धयोः ॥ ५ ॥
22.5 · p. 44
अनुष्टुप्
तरलो भास्वरे हारे हारमध्यमणौ चले ।तरला सुरायवाग्वोस्त्रिदिवः खे सुरालये ॥ ६ ॥
22.6 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 सु (wrong syllable)
तमोपहस्तमोनुच्च मार्तण्डे वह्निचन्द्रयोः ।तृष्णातर्षतृषशब्दाः पिपासायामथेप्सिते ॥ ७ ॥
22.7 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ष (wrong syllable)
तपस्विनी जटामांस्यां तपस्वी तापसे मतः ।तपो धर्मे व्रते चापि तपा माघे च दृश्यते ॥ ८ ॥
22.8 · p. 44
अनुष्टुप्
तुला पलशते माने सादृश्ये स्तम्भपीठके ।तमो राहौ तमः शोके गुणभेदतमिस्रयोः ॥ ९ ॥
22.9 · p. 44
अनुष्टुप्
तीक्ष्णं विषे रणे लोहे कथ्यते खरयोगिनोः ।त्र्यङ्गटः शिक्यभेदेऽपि धौताञ्जन्यां च कुत्रचित् ॥ १० ॥
22.10 · p. 45
अनुष्टुप्
तालितं तौलितपटे वाद्यभाण्डे गुणे तथा ।त्रुटिः कालप्रमाणे स्यादेलायां संशये लवे ॥ ११ ॥
22.11 · p. 45
अनुष्टुप्
तमिस्रा तामसीरात्रौ दृश्यते च तमस्ततौ ।तल्पं कलत्रे शयने गृहभेदे च दर्शितम् ॥ १२ ॥
22.12 · p. 45
अनुष्टुप्
तातगुः क्षुद्रताते स्यात्तथा तातहिते मतः ।तोक्ममभ्रे [तोक्मं यवे] हरिन्मात्रे कर्णयोर्मलकेऽपि च ॥ १३ ॥
22.13 · p. 45
अनुष्टुप्
तिलकं चित्रके क्लोन्नि जटुलद्रुमभेदयोः ।ततं वीणादिवाद्ये स्याद्व्यासविस्तृतयोरपि ॥ १४ ॥
22.14 · p. 45
अनुष्टुप्
तितिलं नन्दके ज्ञातं करणे तिलपिच्चटे ।तारलं तप्तमात्रे स्यात् तायनोऽपि व्रजे मतः ॥ १५ ॥
22.15 · p. 45
अनुष्टुप्
तिक्ता स्यात्कटुरोहिण्यां तिक्तस्तु सुरभौ रसे ।तलिमं कुटिले तल्पे त्रपु रङ्गे च सीसके ॥ १६ ॥
22.16 · p. 45
अनुष्टुप्
त्रयी वेदे त्रिविद्यायां त्वक् चर्मणि प्रकथ्यते ।तुङ्गो महति पुन्नागे तक्षकस्तक्षनागयोः ॥ १७ ॥
22.17 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्म (wrong syllable)
तरस्वी वेग अनिले त्याग उत्सर्गदानयोः ।तृणता तृणचापे च त्रेता वह्नित्रये युगे ॥ १८ ॥
22.18 · p. 45
अनुष्टुप्
तरणिर्नौसहार्केषु तरुणं युवनव्ययोः ।तोदनं व्यथने तोत्रे तलिने स्वच्छलेशयोः ॥ १९ ॥
22.19 · p. 45
अनुष्टुप्
तुषोऽक्षधान्यत्वचोस्त्विट् कान्तौ च भासि च स्मृता ।ताम्रं वर्णान्तरे शुद्धे तन्त्री निद्राप्रमीलयोः ॥ २० ॥
22.20 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
तेमनं व्यञ्जने क्लेदे तामो भीषणदोषयोः ।तोकं स्यादात्मजे पुत्र्यां तुषारः शीकरे हिमे ॥ २१ ॥
22.21 · p. 46
अनुष्टुप्
तिष्यं नक्षत्रके मासे तार्क्ष्यः स्याद्गरुडाश्वयोः ।तारा बले तथा वेगे तेजोंऽशौ बलशुक्रयोः ॥ २२ ॥
22.22 · p. 46
अनुष्टुप्
तावन्मानेऽवधौ कार्त्स्न्येऽवधारणे[…तथा]व्ययम् ।तिरोऽन्तर्धौ तिर्यगर्थे तु स्याद्भेदेऽवधारणे ॥ २३ ॥
22.23 · p. 46
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)