All kośas › Nānārthasaṅgraha
नानार्थसङ्ग्रह Nānārthasaṅgraha
749 verses · text only, tagging comes next
इकारः
॥ इत्याकारः ॥
इक्ष्वाकुः स्यात् कटुतुम्बीभूमिपालप्रभेदयोः ।इन्द्राणी सिन्धुवारे तु शच्यां स्त्रीकरणान्तरे ॥ १ ॥
3.1 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 टु (wrong syllable)
भवेदितिकथापार्थवचोऽश्रद्धेयवाक्ययोः ।इरिणं निराश्रये भूभागे इरिणं कथितमूषरे ॥ २ ॥
3.2 · p. 12
अनुष्टुप्
इष्वाशो विशिखक्षेपे इष्वाशं धनुषि स्मृतम् ।इला गवि च सौम्यस्त्रीभुवोर्वचनवारिणोः ॥ ३ ॥
3.3 · p. 12
अनुष्टुप्
ईष्टं यागे च दाने च वाञ्छिते च प्रयुज्यते ।इरा वसुन्धरामद्यवचनेषु च वारिणि ॥ ४ ॥
3.4 · p. 12
अनुष्टुप्
इन्द्रियं हृषिके शुक्रे इन्द्रः पुरन्दरात्मनोः ।इतरः पामरेऽन्यस्मिन् इज्या याजनपूजयोः ॥ ५ ॥
3.5 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पु (wrong syllable)
इनः प्रभौ दिवानाथे इष्टिरध्वरवाञ्छयोः ।इति हेतौ प्रकारादौ समाप्तौ प्रक्रमेऽव्ययम् ॥ ६ ॥
3.6 · p. 12
अनुष्टुप्