All kośas › Nānārthasaṅgraha
नानार्थसङ्ग्रह Nānārthasaṅgraha
749 verses · text only, tagging comes next
घकारः
॥ इति गकारः ॥
घनोऽब्दे दार्ढ्ये संघाते विस्तारे लोहमुद्भरे ।मुस्ते घनं सान्द्रे वाद्ये घृतमिद्धेऽम्बुसर्पिषोः ॥ १ ॥
15.1 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्ढ्ये (wrong syllable)
भवेद्धनरसो नीरे सान्द्रनिर्यासयोरपि ।घर्घरिका वाद्यभेदे वादित्रे लगुडे तथा ॥ २ ॥
15.2 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रि (wrong syllable)
घनाघनो मत्तनागे वर्षुकाब्दमहेन्द्रयोः ।घनसारस्तु कर्पूरे दक्षिणावर्तपारदे ॥ ३ ॥
15.3 · p. 35
अनुष्टुप्
घर्मः स्वेदोष्णयोर्ग्रीष्मे घृणा दयाजुगुप्सयोः ॥ ४ ॥
15.4 · p. 35