All kośas › Nānārthasaṅgraha
नानार्थसङ्ग्रह Nānārthasaṅgraha
749 verses · text only, tagging comes next
मकारः
॥ इति भकारः ॥
मध्यमा स्याद्दृष्टरजोनार्यां मध्याङ्गुलेऽपि च ।मध्यमो हेतुमध्ये तु मध्यमाङ्गुलिगह्वरे ॥ १ ॥
30.1 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्दृ (wrong syllable)
मात्रा परिच्छदे माने तोके कर्णविभूषणे ।अक्षरावयवे दध्ये[द्रव्ये] यात्रांशे कालभेदके ॥ २ ॥
30.2 · p. 70
अनुष्टुप्metre not read in every line
मण्डलं ग्रामसन्दोहे प्रविधौ प्रतिबिम्बके ।वृन्दे शुनि मृगे चापि बिम्बे द्वादशराजके ॥ ३ ॥
30.3 · p. 70
अनुष्टुप्
महावीरो मृगेन्द्रेऽपि तार्क्ष्ये शूरे मखाग्निषु ।सुभटे वन्दिवरयोः श्वेताश्वे प्रवरे खगे ॥ ४ ॥
30.4 · p. 70
अनुष्टुप्
मत्सरः कृपणाढ्ये स्यात् परमे द्रोहकारिणि ।महामुनिः कृपे काले मन्युर्दैन्ये क्रतौ क्रुधि ॥ ५ ॥
30.5 · p. 70
अनुष्टुप्
मधुर्दैत्यान्तरे चैत्रे मधुके सुरभौ मधु ।क्षौद्रे पुष्परसे मद्ये मह उत्सवतेजसोः ॥ ६ ॥
30.6 · p. 70
अनुष्टुप्
मन्दो मूढे व रोगार्ते स्वैरे भाग्ये शनैश्चरे ।प्रलये द्विपभेदे च मरुः शैले च धन्वनि ॥ ७ ॥
30.7 · p. 70
अनुष्टुप्
मणिर्दोले च मेढ्राङ्गे रत्ने चाजागलस्तने ।मल्लिमत्स्यविशेषे च करङ्के च कपालके ॥ ८ ॥
30.8 · p. 70
अनुष्टुप्
मूर्धाभिषिक्तो राजन्ये प्रधाने पृथिवीपतौ ।मन्थरः सूचके मन्दे तथा वैशाखकोपयोः ॥ ९ ॥
30.9 · p. 70
अनुष्टुप्
महामात्रः समृद्धे तु हस्त्यारोहाधिपेऽपि च ।मौलिः संयतकेशे च चूडामुकुटयोरपि ॥ १० ॥
30.10 · p. 70
अनुष्टुप्
माधवोऽपि वसन्ते च राधेये दृश्यते तथा ।मदनाख्या स्मरे वृक्षे मधूच्छिष्टवसन्तयोः ॥ ११ ॥
30.11 · p. 71
अनुष्टुप्
मञ्जुलो रमणीये तु जलरङ्गविहङ्गमे ।माणवको भवेद्बाले हारभेदे कुपूरुषे ॥ १२ ॥
30.12 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
मङ्गलं भविके दृष्टं तथा लब्धानुरक्षणे ।महालयस्तु वीहारे वीक्षिते परमात्मनि ॥ १३ ॥
30.13 · p. 71
अनुष्टुप्
मागधी पिप्पलीशुण्ठ्योः वन्दियोषिति युज्यते ।मृगः पशौ मार्गशीर्षे एणे यज्ञेभभेदयोः ॥ १४ ॥
30.14 · p. 71
अनुष्टुप्
मधुका मधुयष्टौ च मधुकः स्तुतिपाठके ।माता तु गवि रेवत्यां सेनानीपितृयोषितोः ॥ १५ ॥
30.15 · p. 71
अनुष्टुप्
मिथुनं यूथदम्पत्योः मिथुन राशिभेदतः ।मूलं निजे शिफायां स्यादृक्षभेदेऽपि सन्निधौ ॥ १६ ॥
30.16 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
माने प्रसूतिप्रस्थादौ मानश्चित्तसमुन्नतौ ।मार्गो गवेषणे मासभेदे मृगपदाध्वनोः ॥ १७ ॥
30.17 · p. 71
अनुष्टुप्
भवेन्मदकलो मत्तद्विपे मदास्फुटोदिते ।महासेनो बाहुलेये महासेनापतावपि ॥ १८ ॥
30.18 · p. 71
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
मेखला खड्गबन्धे स्यात् काञ्ची भूभृन्नितम्बयोः ।मेचको विदितः कृष्णो बर्हिणां बर्हि बर्हिचन्द्रके ॥ १९ ॥
30.19 · p. 71
अनुष्टुप्
महिषी कृताभिषेकराजश्रीमहिषस्त्रियोः ।महाकालः स्यात्किंपाके शङ्करे च मखान्तरे ॥ २० ॥
30.20 · p. 71
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 कृ (wrong syllable); pāda 3, syllable 5 स्या (wrong syllable)
मुखं मुख्ये च वक्त्रे स्यादादावुपाय एव च ।मन्दारः पारिभद्रे स्यात् देवद्रुमार्कपर्णयोः ॥ २१ ॥
30.21 · p. 72
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 वु (wrong syllable); pāda 4, syllable 3 द्रु (wrong syllable)
म्लिष्टं मानेऽप्यविस्पष्टे माःशब्दो मासचन्द्रयोः ।मिषी शतपुष्पयोः स्यात् [मिसिर्मांसीशतपुष्प्योः] मरुद्वातदिवौकसोः ॥ २२ ॥
30.22 · p. 72
अनुष्टुप्metre not read in every line
मर्यादा धारणासीम्नोः मातङ्गः श्वपचे द्विपे ।मैथुनं रतिसङ्गे च मन्दिरं नगरे गृहे ॥ २३ ॥
30.23 · p. 72
अनुष्टुप्
मलयः शैलेऽप्यारामे मूर्च्छितो मूढवृद्धयोः ।मूल्यं तु वेतने रम्ये मूर्तिः काठिन्यकाययोः ॥ २४ ॥
30.24 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लेऽ (wrong syllable)
मृदुः स्यात् कोमलेऽतीक्ष्णे मृतं मृत्यौ च याचिते ।मन्मथः कपिले कामे मार्गणो याचके शरे ॥ २५ ॥
30.25 · p. 72
अनुष्टुप्
मोचा शाल्मलिकदल्योः मधुरं स्वादरम्ययोः ।मण्डो रसाग्र एरण्डे मध्ये नाभ्यवलग्नयोः ॥ २६ ॥
30.26 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
मोहस्तन्त्र्यामविद्यायां मूढस्तु तन्त्रिते जडे ।मतिरार्ये च शाके च मयूखः करकीलयोः ॥ २७ ॥
30.27 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
माल्यं पुष्पे पुष्पदाम्नि मुण्डो मूर्धनि मुण्डिते ।मोदको हर्षके खाद्ये महद्राज्यविशालयोः ॥ २८ ॥
30.28 · p. 72
अनुष्टुप्
मकराङ्कः स्मरे सिन्धावव्ययं स्यादतः परम् ।मिथस्त्वन्योन्यरहसोः मुहुः स्याच्च क्षणे क्षणे ॥ २९ ॥
30.29 · p. 72
अनुष्टुप्