कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthasaṅgraha

नानार्थसङ्ग्रह Nānārthasaṅgraha

749 verses · text only, tagging comes next

अकारः

अमृतं हृद्ये पीयूषे यज्ञशेषेऽप्ययाचिते ।मुक्तौ तोयेऽमृता धात्र्यां गुडूचीपथ्ययोरपि ॥ ५ ॥
1.5 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्ये (wrong syllable)
अक्षो विभीतके नित्ये शकटव्यवहारयोः ।रथस्यावयवे कर्षे पाशकेऽप्यक्षमिन्द्रिये ॥ ६ ॥
1.6 · p. 1
अनुष्टुप्
अरिष्टं सूतिकागारे मृत्युचिह्ने शुभेऽशुभे ।तक्रेऽप्यरिष्टो लशुने काके फेनिलनिम्बयोः ॥ ७ ॥
1.7 · p. 1
अनुष्टुप्
अञ्जनं कज्जले दृष्टमञ्जनो दिग्गजान्तरे ।गिरिभेदेऽञ्जनाम्बायां मारुतेश्च हलाहले ॥ ८ ॥
1.8 · p. 1
अनुष्टुप्
अवहारो रणादीनां विश्रान्तौ ग्राहयादसि ।निमन्त्रणोपनेतव्यद्रव्ये चौरे च भाषितः ॥ ९ ॥
1.9 · p. 2
अनुष्टुप्
अभिपन्नो विप्रकृष्टे स्वीकृतेऽभिद्रुते तथा ।अपराध्येऽप्यभिग्रस्ते दक्षिणेऽपि प्रयुज्यते ॥ १० ॥
1.10 · p. 2
अनुष्टुप्
अनुबन्धो दोषोत्पादे प्रकृत्यादेर्विनश्वरे ।प्रस्तुतस्यानुवृत्तौ च शिशौ श्रेष्ठानुयायिनि ॥ ११ ॥
1.11 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दो (wrong syllable)
अर्जुनी सौरभेय्यां स्यात् अर्जुनस्तु धनञ्जये ।जनन्येकसुते शुक्ले तृणवृक्षप्रभेदयोः ॥ १२ ॥
1.12 · p. 2
अनुष्टुप्
अन्तरङ्गे च [अन्तरं भेदे] ताद स्थाने वा प्रे[बाह्य]क्षणेऽब्धिषु[ऽवधौ] ।विनार्थे स्वीये स्वेऽन्तर्धौ वाक्य[वस्त्र]भेदेऽन्तमध्ययोः ॥ १३ ॥
1.13 · p. 2
metre not recognised
अरुणोऽर्के सान्ध्यदीप्तौ रक्ते चानूरुपिङ्गयोः ।अव्यक्तरागे निःसङ्गेऽप्यरुणातिविषौषधौ ॥ १४ ॥
1.14 · p. 2
अनुष्टुप्
अनन्तं खेऽनन्तो विष्णौ शेषेऽनन्ता मता भुवि ।दुरालभायां दूर्वायाम् अपत्यं पुत्रधीदयोः [पुत्रकन्ययोः] ॥ १५ ॥
1.15 · p. 2
metre not recognised
अर्थो धनेऽनुवृत्तौ च विषये हेतुवस्तुनोः ।प्रयोजनेऽभिधेये स्यात् अवनं प्रीतिरक्षयोः ॥ १६ ॥
1.16 · p. 2
अनुष्टुप्
अजः पितामहे छागे केशवे च महेश्वरे ।अथर्वाणिरथर्वज्ञे दृश्यते च पुरोहिते ॥ १७ ॥
1.17 · p. 2
अनुष्टुप्
अन्तशय्या श्मशाने स्यात् भूशय्यायामपि क्वचित् ।अम्बरीशस्तैलिन्यां[स्तु राजन्ये] सूर्ये हयकिशोरके ॥ १८ ॥
1.18 · p. 2
अनुष्टुप्metre not read in every line
अभिशस्तिरभिशापे प्रार्थनायां च कीर्तिता ।अनुभावो निश्चये स्यात् प्रभावे भावबोधके ॥ १९ ॥
1.19 · p. 3
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 भि (wrong syllable)
आस्तेऽनुमतिरूनेन्दुपूर्णिमायां च सम्मतौ ।अधिक्षिप्तः प्रणिहिते प्रेरिते[प्रेषिते] चैव भर्त्सिते ॥ २० ॥
1.20 · p. 3
अनुष्टुप्metre not read in every line
अपाचीनं विपर्यस्तेऽप्यपागर्थे च कुत्रचित् ।अभीक्ष्णं तु पौनःपुन्ये सर्वदार्थे च दृश्यते ॥ २१ ॥
1.21 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पौ (wrong syllable)
अनूचानो नयनम्रे षडङ्गश्रुतिवेदिनि ।अर्को वृक्षान्तरे ज्येष्ठभ्रातरि स्फटिके रवौ ॥ २२ ॥
1.22 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)
अयने दक्षिणोदीचीगतौ भानोस्तथा पथि ।भवेदपचितिः पूजाव्ययहानिषु निष्कृतौ ॥ २३ ॥
1.23 · p. 3
अनुष्टुप्
अत्याहितं महाभीतौ जीवनापेक्षकर्मणि ।अहिद्विड्गरुडे शक्रे मयूरे नकुले तथा ॥ २४ ॥
1.24 · p. 3
अनुष्टुप्
अनुकर्षो रथस्याधःकाष्ठेऽनुकर्षणेऽपि च ।अघशब्दो भवेत्पापे दुःखव्यसनयोरपि ॥ २५ ॥
1.25 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नु (wrong syllable)
अवग्रहः प्रतिबन्धे वृष्टिरोघे गजालिके ।अन्तः प्रान्ते स्वरूपे च समीपे निधनेऽपि च ॥ २६ ॥
1.26 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
अम्बरं वाससि व्योम्नि सुगन्धिद्रव्यभेदयोः ।अभिजातो बुधे न्याय्ये समन्ताज्जातधन्ययोः ॥ २७ ॥
1.27 · p. 3
अनुष्टुप्
अभिषङ्गः स्यादाक्रोशे शापाभिभवयोरपि ।अमरेन्द्रपुरीस्थूणागुडूचीष्वमरः सुरे ॥ २८ ॥
1.28 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्या (wrong syllable)
अग्रमूर्ध्वे पुरः श्रेष्ठे परिमाणेऽधिकेऽपि च ।अबलाख्या श्यालाकः स्त्री पूगरक्तमुखाम्भसोः ॥ २९ ॥
1.29 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्या (wrong syllable)
अभिख्या नाम्नि निर्दिष्टा शोभाविख्यातिकीर्तिषु ।अवष्टम्भस्तु संरम्भे स्तम्भकाञ्चनयोरपि ॥ ३० ॥
1.30 · p. 4
अनुष्टुप्
अपवर्गः क्रियाशेषे साफल्यत्यागमुक्तिषु ।अभिमानं वाग्विज्ञप्तौ गर्वे प्रणयहिंसयोः ॥ ३१ ॥
1.31 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
अवराङ्गे नतोद्गमाभाव द्रव्ये अ---म[?]तारयोः ।अरुष्करं व्रणकृतिमतं भल्लातकेऽपि च ॥ ३२ ॥
1.32 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अम्बष्ठा पृथ्व्यां पाठायां अम्बष्ठो वैद्यदेशयोः ।अष्टापदं शातकुम्भे तथा शारिफले मतम् ॥ ३३ ॥
1.33 · p. 4
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 थ्व्यां (wrong syllable)
अत्ययः कृच्छ्रे विनाशे कथितो दोषदण्डयोः ।अवधिः सीम्नि गर्ते च तथा कालावधानयोः ॥ ३४ ॥
1.34 · p. 4
अनुष्टुप्
अभिनिष्टान उद्दिष्टो विसर्जनीयवर्णयोः ।अस्रः कोणे मूर्ध्निजे च अश्रुणि क्षतजेऽतथा ॥ ३५ ॥
1.35 · p. 4
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र्ज (wrong syllable)
अयनस्त्वृतुभेदे वै विपत्तौ व्यसनेऽपि च ।पश्चात्तापेऽनुतापः स्यादनुबन्धे मतोऽप्यसौ ॥ ३६ ॥
1.36 · p. 4
अनुष्टुप्
अरत्निः स्यात्सप्रकोष्ठकनिष्ठकरकीलयोः ।अनीकस्थो नृपारक्षेऽयशिक्ष[हस्तिशिक्षा]विचक्षणे ॥ ३७ ॥
1.37 · p. 4
metre not recognised
अभिहारोऽभियोगे च चौर्यसन्नाहयोरपि ।अवतारणं भूताद्युपग्रहे वसनाञ्चले ॥ ३८ ॥
1.38 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णं (wrong syllable)
अवदानमतिवृत्ते खण्डने रक्षणेऽपि च ।अङ्गजः सुतकन्दर्पशोणितेषु तथा रुजि ॥ ३९ ॥
1.39 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
अजिरं विषये काये प्राङ्गणे दर्दुरेऽनिले ।अभिनीतं न्याय्येऽपि स्यादमर्षवति संस्कृते ॥ ४० ॥
1.40 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्या (wrong syllable)
अध्यारूढमभ्यधिके समारूढेऽपि दृश्यते ।भवेदभिमरो युद्धे स्वपक्षबलसाध्वसे ॥ ४१ ॥
1.41 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ढ (wrong syllable)
अनुत्तरमवचने वाक्यभेदेऽपि दृश्यते ।अङ्गे गात्रे तथोपायेऽप्यङ्गो देशेऽङ्गशालिनि ॥ ४२ ॥
1.42 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
भवेदभिषवः स्नाने बले च मद्यसंहतौ ।अभिग्रहोऽभियोगे च समन्ताद्ग्रहणेऽपि चे ॥ ४३ ॥
1.43 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
अपाङ्गो नयनस्यान्ते तिलके चाङ्गहीनके ।अंशुकं वसने सूक्ष्मे वस्त्रमात्रान्तरीययोः ॥ ४४ ॥
1.44 · p. 5
अनुष्टुप्
अनेडमूकशब्दोऽयं श्रुतिवाग्वर्जिते शठे ।अवतारोऽवतरणे तीर्थे दूताद्युपग्रहे ॥ ४५ ॥
1.45 · p. 5
अनुष्टुप्
अन्तर्गतस्तु मध्ये विस्मृते प्राप्तेऽभिधेयवत् ।अवध्वस्तो निन्दितेऽपि समुज्झितेऽवचूर्णिते ॥ ४६ ॥
1.46 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज्झि (wrong syllable)
भवेदवसितं ज्ञाते समाप्तिंगतवत्यपि ।अन्तिकं सन्निधौ दृष्टमन्तिका चुल्लिकापि च ॥ ४७ ॥
1.47 · p. 5
अनुष्टुप्
अश्वीयमश्वसंघाते स्यादश्वानां तथा हिते ।अपवर्जनं तु दाने च परित्यागेऽपि दृश्यते ॥ ४८ ॥
1.48 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अधिष्ठानं रथस्याङ्गे तथा चागमनेऽपि च ।अवगीतं तु निर्वादेऽनुक्तदृष्टेऽपि गर्हिते ॥ ४९ ॥
1.49 · p. 5
अनुष्टुप्
अपभ्रंशोऽपशब्दे च भाषाभेदापवादयोः ।अभिजनः स्यादभिख्याने जन्मभूमौ कुले तथा ॥ ५० ॥
1.50 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अन्तावशायी चाण्डाले कथ्यते नापिते पुमान् ।अनिमेषोऽनिमिषश्च पृथुरोमसुपर्वणोः ॥ ५१ ॥
1.51 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 मि (wrong syllable)
अवतंसः स्यादापीडे तथा कर्णविभूषणे ।अभयाख्या हरीतक्यामुशीरे भयवर्जिते ॥ ५२ ॥
1.52 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्या (wrong syllable)
अपह्नवो ह्नुतौ स्नेहेऽनीकः सैन्ये पुमानयम् ।रणे दृष्टं द्युतावर्चिर्ज्वालेऽपि दृश्यते तथा ॥ ५३ ॥
1.53 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
अङ्कः क्रोडेऽन्तिके चिह्ने स्यादर्वा कुत्सिते हये ।अहिभुक्तार्क्ष्यशिखिनोरभीषुः प्रग्रहे द्विषि ॥ ५४ ॥
1.54 · p. 6
अनुष्टुप्
अववादो विनिन्दायामवज्ञायां च दृश्यते ।तरोर्मूलेऽप्यगाधोऽस्त्री तथा च श्लाघरन्ध्रयोः ॥ ५५ ॥
1.55 · p. 6
अनुष्टुप्
अतलस्पर्शने क्लीबमुक्तं बुधगणैरपि ।अणुर्व्रीहिप्रभेदे च सूक्ष्मेऽहिर्वज्रसर्पयोः ॥ ५६ ॥
1.56 · p. 6
अनुष्टुप्
अध्यक्षसमक्षे मुक्तेऽवलेपो गर्भलेपयोः ।अर्घ्यमर्घ्यार्थेऽर्घार्हे स्यान्मूल्येऽपि च बुधैर्मतः ॥ ५७ ॥
1.57 · p. 6
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable); pāda 3, syllable 5 र्थेऽ (wrong syllable)
अवरोधो नीलोष्ठे स्यात् अव्यक्तश्चास्फुटात्मनोः ।अभिमर्दो मृधे मर्दे अग्रजन्मा द्विजेऽग्रजे ॥ ५८ ॥
1.58 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नी (wrong syllable)
अणी रूप्येऽक्षकीलेऽश्रावन्वयोऽन्तकृते कुले ।अण्डीरः पुंसि शक्ते स्यादर्घो मूल्ये च सत्कृतौ ॥ ५९ ॥
1.59 · p. 6
अनुष्टुप्
अचलाचलौ भुव्यद्रावविर्मेषे गिरौ रवौ ।अम्लिकाचिञ्चाचाङ्गार्योरभीकः कामुकेऽभये ॥ ६० ॥
1.60 · p. 7
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 लौ (wrong syllable); pāda 3, syllable 5 ञ्चा (wrong syllable)
अद्रिर्द्रुमे गिरावर्के अभ्रं मेधे विहायसि ।अम्बिकोमामातृकयोरर्तिश्चापाग्रपीडयोः ॥ ६१ ॥
1.61 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
अकूपारो द्रुमे सिन्धावनीकं रणसैन्ययोः ।अर्धं समांशेऽर्धः खण्डेऽप्यनलोऽग्नौ च चित्रके ॥ ६२ ॥
1.62 · p. 7
अनुष्टुप्
अम्बुजाख्या च निचुलेष्वब्जेऽप्यन्त्येऽधमेऽन्त्यजे ।अधमो न्यूनेऽपि गर्ह्ये स्यादवटोऽपि निगद्यते ॥ ६३ ॥
1.63 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 दव (syllable split)
प्रजापतिमयो गर्ते चानुमोदनभुक्तयोः ।अनूकमन्वये शीलेऽप्यक्षरं ब्रह्मवर्णयोः ॥ ६४ ॥
1.64 · p. 7
अनुष्टुप्
अट्टः सद्मातिशययोरर्यस्तु प्रभुवैश्ययोः ।अन्यः परस्मिन्निह च सदृशतेरस्मि[परस्मिन् सदशे] अशनिः पविबिद्युतोः ।अवक्षरो गुह्ये गूथेऽर्दितः स्यात् प्रार्थिने हने ॥ ६५ ॥
1.65 · p. 7
अनुष्टुप्metre not read in every line
अन्धं तमस्यन्धोऽनक्षेऽप्यलिर्वृश्चिकभृङ्गयोः ।अयोगे विधुरे श्लेषे अलिशब्दः प्रकथ्यते ॥ ६६ ॥
1.66 · p. 7
अनुष्टुप्
अशिरस्को रुण्डे वांच्छौ[?]भिरूपो ज्ञरूपिणोः ।अतोऽव्ययान्यपि प्रश्न शङ्कायां च समुच्चये ॥ ६७ ॥
1.67 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्को (syllables merged)
संभावनायां गर्हायामन्तरेणान्तरा विना ।अस्तु स्यादभ्यनुज्ञाने पीडेर्ष्ययोरपि स्मृतः ॥ ६८ ॥
1.68 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ष्य (wrong syllable)
अलं भूषणसामर्थ्यपर्याप्तिष्ववधारणे ।शीघ्रे कार्त्स्न्ये च अभितः समीप उभयोरपि ॥ ६९ ॥
1.69 · p. 8
अनुष्टुप्
अञ्जसा तु तथा तूर्णेऽप्यमा सह समीपयोः ।अह द्रुते विनियोगेऽप्यहहाद्भुतखेदयोः ॥
1.66 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
अनु सादृश्येऽनन्तरेऽप्यधिः स्यादीश्वरेऽधिके ॥ ७० ॥
1.70 · p. 8