All kośas › Nānārthasaṅgraha
नानार्थसङ्ग्रह Nānārthasaṅgraha
749 verses · text only, tagging comes next
खकारः
॥ इति कादिः ॥
खरस्तु गर्दभे तीक्ष्णे दुस्पर्शे राक्षसान्तरे ।खलं भूस्थानकल्केषु खलस्तु क्रूरनीचयोः ॥ १ ॥
13.1 · p. 30
अनुष्टुप्
खनकश्चित्ततत्त्वज्ञे मूषिके चावदारके ।खोलकः पाकभेदे तु पूगकोषशिरस्त्रयोः ॥ २ ॥
13.2 · p. 30
अनुष्टुप्
खिङ्खिकस्तु शिवाभेदे खट्वाङ्गे च खिखीरवे ।खेटः कफे मृगव्ये च ग्रामभेदे च कुत्सिते ॥ ३ ॥
13.3 · p. 30
अनुष्टुप्
खटस्तु लाङ्गले कूपे खाते टङ्के च कत्तृणे ।खाटिरेकग्रहे खर्वे किणे शवरथे तथा ॥ ४ ॥
13.4 · p. 30
अनुष्टुप्
खदिरी शाखभेदेऽपि खदिरो दन्तधावने ।खेलिः काश्यां गीतस्तुतौ बाणार्कपक्षिजन्तुषु ॥ ५ ॥
13.5 · p. 30
अनुष्टुप्metre not read in every line
पूराख्या पूगे वेष्टे खमाकाशे दिवीन्द्रिये ।खड्गो गण्डके निस्त्रिंशे खर्जुरं फलरूप्ययोः ॥
13.6 · p. 30
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 पू (syllables merged); pāda 3, syllable 5 के (wrong syllable)
खलु निषेधजिज्ञासावाक्यभूषासु सान्त्वने ॥ ६ ॥
13.6 · p. 30