कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthasaṅgraha

नानार्थसङ्ग्रह Nānārthasaṅgraha

749 verses · text only, tagging comes next

दकारः

॥ इति तकारः ॥

दक्षिणा दानभेदे च दक्षिणो वामतोऽन्यतः ।सरले दक्षिणोद्भूते परच्छन्दानुवर्तिनि ॥ १ ॥
23.1 · p. 47
अनुष्टुप्
दायः स्याद्धौतके द्रव्ये लयादिदानयोरपि ।विभक्तव्यपितृद्रव्ये दृष्टः सोल्लुठभाषणे ॥ २ ॥
23.2 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
दृढं गाढे दृढः स्थूले दृढः स्याद्बलवत्यपि ।द्वितीया कथ्यते पत्न्यां पूरण्यामपि च द्वयोः ॥ ३ ॥
23.3 · p. 47
अनुष्टुप्
दिग्धो विषाक्तविशिरवे लिप्ते स्नेहप्रबन्धयोः ।दुग्धतालीयशब्दोऽयं दुग्धांशे दुग्धफेनके ॥ ४ ॥
23.4 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दण्डो दमे च मन्थाने सेनायां लगुडे तथा ।दशा वर्ताववस्थायां वसनान्तरचेतसोः ॥ ५ ॥
23.5 · p. 47
अनुष्टुप्
द्रोणोऽर्जुनगुरौ वृद्धे काकमनप्रभेदयोः ।दशमीस्थो नष्टवीजे स्थविरे च स्मृताशने ॥ ६ ॥
23.6 · p. 47
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
दृग्दृष्टी दर्शने बुद्धौ लोचने दृक् च वीक्षके ।दर्शनं स्वप्नधीज्यासु नेत्रशास्त्रोपलब्धिषु ॥ ७ ॥
23.7 · p. 47
अनुष्टुप्
दुरोदरं पणे द्यूते दुरोदरोऽक्षदेविनि ।द्रविणं ह्यसुरद्रव्ये कथ्यते च पराक्रमे ॥ ८ ॥
23.8 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
द्रव्यं तु भेषजे भव्ये द्रविणे पित्तले तथा ।दाक्षायणी स्मृता गौर्यामश्विनादौ प्रकथ्यते ॥ ९ ॥
23.9 · p. 47
अनुष्टुप्
दिवाभीतो भवेच्चौरे पेचके कुमुदाकरे ।दशनोच्छिष्ट उच्छ्राये चुम्बनाधरयोरपि ॥ १० ॥
23.10 · p. 48
अनुष्टुप्
दरो भये तथा गर्ते मनागर्थे दराव्ययम् ।दिवाकीर्तिस्तु चण्डाले नापिते च प्रयुज्यते ॥ ११ ॥
23.11 · p. 48
अनुष्टुप्
दक्षस्तु निपुणे शंभुवृषे धातरि कुक्कुटे ।दवदावौ वनाग्नै स्यात्कानने कथितः क्वचित् ॥ १२ ॥
23.12 · p. 48
अनुष्टुप्
दृष्टान्तशब्द उद्दिष्ट उदाहरणशास्त्रयोः ।देवलं व्यवहारे च जिगीषाक्रीडयोरपि ॥ १३ ॥
23.13 · p. 48
अनुष्टुप्
दुन्दुभिः कथ्यते भेर्यामक्षबिन्दुत्रिकद्वये ।दुर्जातं व्यसने दृष्टमसम्यग्जातस्तुनि ॥ १४ ॥
23.14 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दर्शः पक्षान्तयोगे स्यात् दृष्टौ सूर्येन्दुसङ्गमे ।द्वीपवती भवेन्नद्यां द्वीपवान् जलधौ नदे ॥ १५ ॥
23.15 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
दानं करिमदांहत्योः खण्डनावनशुद्धिषु ।दुकूलं सूक्ष्मवसने क्षौमेऽपि परिकीर्तितम् ॥ १६ ॥
23.16 · p. 48
अनुष्टुप्
देवो राज्ञि सुरे देवी महिषीमूकयोरपि ।द्वन्द्वं रहस्यमिथुनकलहेषु तथा युगे ॥ १७ ॥
23.17 · p. 48
अनुष्टुप्
द्योदिवौ नभसि स्वर्गे दमो दमनदण्डयोः ।दायादस्तनये ज्ञातौ दीक्षा तु यजनेऽर्चने ॥ १८ ॥
23.18 · p. 48
अनुष्टुप्
दवो नर्मणि निर्यासे द्रुघणो मुकुरे विधौ ।दिवौकाश्चातके देवे द्वापरः संशये युगे ॥ १९ ॥
23.19 · p. 48
अनुष्टुप्
द्विजो विप्रेऽण्डजे दन्ते द्युतिः कान्तित्विषोरपि ।दस्युः शत्रौ च चौरे च द्रुतं शीघ्रविलीनयोः ॥ २० ॥
23.20 · p. 48
अनुष्टुप्
द्रुमो वृक्षे पारिजाते द्विजिह्वो भुजगे खले ।दुर्गतिर्नरके दुःखे दिष्टिरानन्दमानयोः ॥ २१ ॥
23.21 · p. 49
अनुष्टुप्
द्वारे तु द्वार्युपाये च दर्शको द्रष्टृद्वाःस्थयोः ।दुर्वर्णं कुवर्णे रूपे दुर्विधौ भुजगे खेले ॥ २२ ॥
23.22 · p. 49
metre not recognised
दलं पत्रे दलः खण्डे दिष्टाख्या विधिकोलयोः ।दाला यानान्तरे नाल्यां दतोऽद्रिकटके वटे ॥
23.23 · p. 49
अनुष्टुप्
दीप्तं स्फुरत्प्रभे दग्धे दार्वेधोदेवदारुणोः ॥ २३ ॥
23.23 · p. 49