All kośas › Nānārthasaṅgraha
नानार्थसङ्ग्रह Nānārthasaṅgraha
749 verses · text only, tagging comes next
जकारः
॥ इति छकारः ॥
जन्या नवोढाभृत्यादौ जामातुरपि वत्सले ।जननीये जनितरि जन्यं कौलीनयुद्धयोः ॥ १ ॥
18.1 · p. 39
अनुष्टुप्
जगती पिष्टपे लोके पृथ्वीछन्दोविशेषयोः ।जगतु जङ्गमे दृष्टं जिनोऽर्हति तथागते ॥ २ ॥
18.2 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 तु (wrong syllable)
जीवको भैषज्यभेदे क्षपणे वृद्धिजीविनि ।जन्तौ श्रेष्ठे पीतशाले जीवनं वर्तनाम्बुनोः ॥ ३ ॥
18.3 · p. 39
अनुष्टुप्
जीवातुः कथितो जीवे तथा जीवितभेषजे ।जृम्भितं जृम्भणोत्फुल्लप्रवृद्धेषु विचेष्टिते ॥ ४ ॥
18.4 · p. 39
अनुष्टुप्
जीवो जन्तौ गुरौ जीवं प्राणे जीवा धनुर्गुणे ।जिगीषाशब्द उद्दिष्टो व्यवसायजयेच्छयोः ॥ ५ ॥
18.5 · p. 39
अनुष्टुप्
जटा केशविकारे स्यान्मांसीपादपर्मूलयोः ।जघनं तु कटीपूर्वभागे योषित्कटावपि ॥ ६ ॥
18.6 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 प (wrong syllable)
ज्योत्स्ना चन्द्रमसो भासि स्फुरज्ज्योतिर्निशि स्मृता ।ज्योतिर्दीप्त्यग्नितारासु वेदाङ्गान्तरनेत्रयोः ॥ ८ ॥
18.8 · p. 39
अनुष्टुप्
जगलः पिष्टमद्ये स्यान्मोदके कितवे तथा ।जैवातृकः सुधारश्मावायुष्मति कृषीवले ॥ ९ ॥
18.9 · p. 39
अनुष्टुप्
जातिश्छन्दसि सामान्ये मालत्यां जन्मगोत्रयोः ।ज्यायान् ज्येष्ठे चातिशये प्रशस्येऽतिजरत्यपि ॥ १० ॥
18.10 · p. 40
अनुष्टुप्
जालं कोरक आनाये दम्भे गवाक्षवृन्दयोः ।जीवितेशो यमे ख्यातो वल्लभे च धनागमे ॥ ११ ॥
18.11 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
जम्भो दमे च जम्भीरे दैत्यदन्तप्रभेदयोः ।जर्जरः कथितो जीर्णे शक्रध्वजे च कोकिले ॥ १२ ॥
18.12 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध्व (wrong syllable)
जघन्यं गर्हिते पश्चात् जिष्णुः पार्थेन्द्रजेतृषु ।जङ्गलं निर्जले मांसे ज्वलितं दग्धभास्वतोः ॥ १३ ॥
18.13 · p. 40
अनुष्टुप्
जठरं कठिने कुक्षौ जातं जन्मनि संभृतौ ।जिह्मस्तु कुटिले मन्दे जामिः स्वसृकुलस्त्रियोः ॥ १४ ॥
18.14 · p. 40
अनुष्टुप्
जम्बुको वरुणे फेरौ जीमूतोऽब्दे नगान्तरे ।जघन्यजोऽनुजे शूद्रे ज्या पृथिव्यां धनुर्गुणे ॥ १५ ॥
18.15 · p. 40
अनुष्टुप्
जया गौरीजयन्त्योश्च जवा पुष्पे जवा जपे ।जम्बालः शैवले पङ्के जोषं तूष्णीं सुखेऽव्ययम् ॥ १६ ॥
18.16 · p. 40
अनुष्टुप्