अङ्कपाली
aṅkapālīस्त्री · fem.In 9 kośas: 9 synonym verses, 3 as a nānārtha head word.
आलिङ्गनं परिष्वङ्गः संश्लेष उपगूहनम् ।अङ्कपाली परीरम्भः क्रोडिकृतिरथोत्सवे ॥ १५०७ ॥महः क्षणोद्धवोद्धर्षा मेलके सङ्गसङ्गमौ ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 डि (wrong syllable)
genderस्त्रीfem.
आलिङ्गनमुपगूहनमाहुः परिरम्भणं परिष्वङ्गम् ।आश्लेषमङ्कपालीं क्रोडीकरणं च तुल्यार्थम् ॥ ५६८ ॥
आर्या
genderस्त्रीfem.
स्त्रियां श्लिषाङ्कपालिः स्यादङ्कपाल्युपगूहनम् ।क्लीबे परीरम्भणं च स्यादालिङ्गनमित्यपि ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
श्लेषः परिष्वङ्गरहोपगूहोऽ-प्यमी परीरम्भयुताः पुमांसः ।क्रोडीकृतिस्तत्सद(दृ?)गङ्कपालीमा(आ?)लिङ्गनं नार्युपगूहनं च ॥ १६७ ॥
उपजातिः
genderस्त्रीfem.
जृम्भणं जृम्भया साकं परिष्वङ्गोऽङ्कपाल्यपि ।आलिङ्गनं च संश्लेषः परीरम्भोपगूहने ॥ ३८० ॥
अनुष्टुप्
genderस्त्रीfem.
आलिङ्गनं परिष्वङ्गः संश्लेष उपगूहनम् ।अङ्कपाली परिरम्भो मेलकः सङ्गसंगमौ ॥ ७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
genderस्त्रीfem.
अङ्कपाली परिषङ्गे आलस्यमजिगीषुता ॥
genderस्त्रीfem.
अङ्कपाली परिरम्भः परीरम्भोऽप्यथोत्सवे ।महो महश्च सान्तं षण्, मेलके सङ्ग-सङ्गमौ ॥ ८४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
genderस्त्रीfem.
आलिङ्गनमपि क्रोडीकरणं चाङ्कपाल्यपि ।ग्राम्यधर्मः कामकेली रतिर्निधुवनं रतम् ॥ १७० ॥
अनुष्टुप्
genderस्त्रीfem.
अक्षमाला चाक्षसूत्रे त्वरुन्धत्यामपि स्त्रियाम् ।अङ्कपाली परिरभ्ये कोटिधात्रिकयोः स्त्रियाम् ॥भवेदतिवलौषध्यां प्रबलेऽप्यभिधेयवत् ।उदूखलं गुग्गुलौ स्याद्भवेदुलूखलेऽपि च ॥एकाष्ठीला पापचेल्यां वकपुष्पेऽपि च स्त्रियाम् ।भवेत्कलकलः कोलाहले सर्जरसेऽपि च ॥भवेत्कर्मफलं कर्मरङ्गे च सुखदुःखयोः ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 रि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 दु (wrong syllable)