जृम्भण
jṛmbhaṇaक्ली · neut.In 14 kośas: 12 synonym verses, 9 as a meaning of another word.
अत्यर्थे गाढमुद्गाढं बाढं तीव्रं भृशं दृढम् ॥ १५०५ ॥अतिमात्रातिमर्यादनितान्तोत्कर्षनिर्भराः ।भरैकान्तातिवेलातिशया जृम्भा तु जृम्भणम् ॥ १५०६ ॥
अनुष्टुप्
genderक्लीneut.
क्रन्दितं रुदितं क्रुष्टं जृम्भस्तु त्रिषु जृम्भणम् ॥ ३५ ॥
अनुष्टुप्
genderक्लीneut.
जृम्भणं जृम्भितं जृम्भा … गवेल्लोच्चभङ्गिका ।पर्वस्फोटोऽङ्गुलिध्वानो मध्यमाङ्गुष्ठयोगजः ॥ १३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
हृद्रोगो हृद्गते शूलेऽथोदराण्युदरामये ।जलोदरोथ जृम्भा स्याज्जम्भिका जृम्भणं च षण् ॥ ३३० ॥
अनुष्टुप्
genderक्लीneut.
जृम्भणो विष्टरः क्षीरी प्रतापोऽपि विकीरणः ।आस्फोटकः सदापुष्पः फलः स्याच्छुकतूलयोः ॥ २३२ ॥
अनुष्टुप्
genderपुंmasc.
अतिशक्तियुते तत्र वीर्यं वीर्या ततः पुनः ।हेवाकोऽध्यवसायित्वं जृम्भस्तु त्रिषु जृम्भणम् ॥ ११४ ॥
अनुष्टुप्
genderक्लीneut.
पुंसि वक्रविकासः स्याज्जृम्भस्तु त्रिषु जृम्भणम् ।केशस्तनाधरादीनां ग्रहे हर्षेऽपि संभ्रमात् ॥ १८५ ॥
अनुष्टुप्
genderविadj.
जृम्भणं जृम्भया साकं परिष्वङ्गोऽङ्कपाल्यपि ।आलिङ्गनं च संश्लेषः परीरम्भोपगूहने ॥ ३८० ॥
अनुष्टुप्
genderक्लीneut.
जृम्भणं स्यात्तथा जृम्भा मुखं व्यादाय वर्त्तने ॥ २७४३ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कामाप्त्यर्थे तु गाढमुद्गाढं भर-निर्भरौ ।जृम्भणं त्रिषु जृम्भा स्यात्, परिष्वङ्गेऽङ्कपालिवत् ॥ ८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
विप्रलम्भो विसंवादो जृम्भस्तु त्रिषु जृम्भणम् ।द्रवः केलिः परीहासः क्रीडा लीला च नर्म च ॥ १०२१ ॥
अनुष्टुप्
genderक्लीneut.
न स्त्री केलिः परीहामः क्रीडा लीला च नर्म च ।जृंभणं तु त्रयी जृंभा मुखभेदस्तु जृंभिका ॥ ८८ ॥
अनुष्टुप्
genderक्लीneut.doubtful
जृम्भण as a meaning in nānārtha verses
- धरणिकोश जृम्भजृम्भे जृम्भणविकासे रम्भा वारयोषाप्सराः । सनाभिः सदृशे ज्ञातावात्मभूः स्मरवेधसोः । ककुभ् शास्त्रे दिशि ज्ञेया अनुष्टुब्वाचि छन्दसि ॥ Dharaṇikośa 23.1.3
- कोषकल्पतरु जृम्भितप्रार्थितमर्थितरुद्धाभिहतेषु स्याद्व( ? )रांगे तु । जृम्भितमीहाजृम्भणविकसितिषु स्यादथाह्वाने ॥ ९० ॥ Koṣakalpataru 6.16.90
- कोषकल्पतरु जृम्भभ्रूणे तथा गर्भककण्टके स्यात् स्या[29a]ज्जृम्भणेऽथ त्रिषु जृम्भ उक्तः । जृम्भा विकासे गृहधारणे तु स्तम्भो जडत्वेऽप्यथ रम्भ उक्तः ॥ ४२ ॥ Koṣakalpataru 6.24.42
- नानार्थार्णवसंक्षेप जृम्भितजृम्भणे च त्रि तूत्फुल्ले विवृद्धेऽप्यथ पुंस्ययम् । नीललोहितसम्मिश्रवर्णे तद्वति तु त्रिषु ॥ ८१० ॥ Nānārthārṇavasaṃkṣepa 4.810
- नानार्थार्णवसंक्षेप विजृम्भितजृम्भणेऽथ द्वयोः सर्पे विषन्धर इति ध्वनिः । ना तु मेघे विकसुकः परिस्रोतोरये पुमान् ॥ ५७५ ॥ Nānārthārṇavasaṃkṣepa 6.575
- परमानन्दीयनाममाला जृम्भितजृम्भितं जृम्भणोत्फुल्लचेष्टितेष्वपि वर्धिते । जिगीषा तु जयेच्छायां व्यवसाये तथोच्यते ॥ २०१ ॥ Paramānandīyanāmamālā 5.13.201
- शब्दरत्नावली जृम्भजृम्भस्त्रिषु विकाशे च जृम्भरणे स्फारितेऽपि च । डिम्भः स्याद्वालिशे मध्ये क्षत्रिये शावकेऽपि च ॥ Śabdaratnāvalī 7.24.6
- तन्त्राभिधान णणो निर्गुणो रतिज्ञानं जृ(ज)म्भणः पक्षिवाहनः । जया शम्भुर्नरकजित् निष्कला योगिनी प्रियः ॥ १०० ॥ Tantrābhidhāna 2.32.100
- वैजयन्ती जृम्भितजृंभितं जृंभणोत्फुल्लविवृद्धेषु विचेष्टिते । जीवकः प्रवरे जन्तौ श्रमणे वृद्धिजीविनि ॥ ४० ॥ Vaijayantī 7.5.40