आलिङ्गन
āliṅganaक्ली · neut.In 11 kośas: 10 synonym verses, 3 as a nānārtha head word, 6 as a meaning of another word.
आलिङ्गनं परिष्वङ्गः संश्लेष उपगूहनम् ।अङ्कपाली परीरम्भः क्रोडिकृतिरथोत्सवे ॥ १५०७ ॥महः क्षणोद्धवोद्धर्षा मेलके सङ्गसङ्गमौ ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 डि (wrong syllable)
genderक्लीneut.
आलिङ्गनमुपगूहनमाहुः परिरम्भणं परिष्वङ्गम् ।आश्लेषमङ्कपालीं क्रोडीकरणं च तुल्यार्थम् ॥ ५६८ ॥
आर्या
genderक्लीneut.
स्त्रियां श्लिषाङ्कपालिः स्यादङ्कपाल्युपगूहनम् ।क्लीबे परीरम्भणं च स्यादालिङ्गनमित्यपि ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
श्लेषः परिष्वङ्गरहोपगूहोऽ-प्यमी परीरम्भयुताः पुमांसः ।क्रोडीकृतिस्तत्सद(दृ?)गङ्कपालीमा(आ?)लिङ्गनं नार्युपगूहनं च ॥ १६७ ॥
उपजातिः
genderक्लीneut.
जृम्भणं जृम्भया साकं परिष्वङ्गोऽङ्कपाल्यपि ।आलिङ्गनं च संश्लेषः परीरम्भोपगूहने ॥ ३८० ॥
अनुष्टुप्
genderक्लीneut.
आलिङ्गनं परिष्वङ्गः संश्लेष उपगूहनम् ।अङ्कपाली परिरम्भो मेलकः सङ्गसंगमौ ॥ ७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
genderक्लीneut.
परिरम्भः परीरम्भः संश्लेषः परिरम्भसाम् ।स्यादङ्कपालिराश्लेषः आलिङ्गनोपजूहने ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)
genderक्लीneut.
परिरम्भः परिष्वङ्ग आश्लेष उपगूहनम् ।आलिङ्गनं स्त्र्यङ्गपालिः समे निंसनचुम्बने ॥ ९८१ ॥
अनुष्टुप्
genderक्लीneut.
आलिङ्गनं त्वङ्कपालिः श्लिषा खट्टिस्त्वसद्ग्रहः ।स्यादज्ञेनेडकः सग्धिः सहभोजनमत्यापे ॥ ४ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 7 त्या (wrong syllable)
genderक्लीneut.
आलिङ्गनमपि क्रोडीकरणं चाङ्कपाल्यपि ।ग्राम्यधर्मः कामकेली रतिर्निधुवनं रतम् ॥ १७० ॥
अनुष्टुप्
genderक्लीneut.
आलिङ्गते श्लिष्यतिस्तु वेर्विश्लेष उदीरितः ।चुम्बति स्यान्निक्षति च निंस्ते चुम्बनवाचकाः ॥ २२ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 न्नि (wrong syllable)
meaningsआलिङ्गते
प्रत्याङः पुनरावृत्तौ परेरालिङ्गने मतः ।आङः समः पदद्वंद्वे रभिः कैश्चित्समीरितः ॥ ८० ॥
अनुष्टुप्
meaningsपरिरभते
आलिङ्गन as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप ऊआलिङ्गने च दहनेऽप्यर्थेष्वेकान्नविंशतौ । अत्यन्तमप्रसिद्धत्वादेवमादि न वक्ष्यते ॥ ५१ ॥ Nānārthārṇavasaṃkṣepa 1.1.51
- नानार्थार्णवसंक्षेप आश्लेषापुमानथ स्यादाश्लेषा नक्षत्रे सर्पदैवते । स्त्रीणां त्वालिङ्गनेऽथ स्यादास्फोता स्त्री वनोद्भवे ॥ १७६ ॥ Nānārthārṇavasaṃkṣepa 4.176
- नानार्थार्णवसंक्षेप आलिङ्गआलिङ्गो वाद्यभदे स्यादित्यूचे शाकटायनः । आलिङ्गने च त्रिषु तु स्यादलिङ्गस्य योगिनि ॥ २०७ ॥ Nānārthārṇavasaṃkṣepa 4.207
- शब्दरत्नावली परिआलिङ्गने निरसने पूजा सन्तोषभाषणे । परा प्राधान्यमोक्षाभिमुख्यविक्रमहर्षणे ॥ प्रातिलोम्ये भृशार्थे च तथा गतिवधार्थयोः । पुरा पुराणे निकटे प्रबन्धातीतभाविषु ॥ स्वराकाशे शोभने च स्वर्गेऽपि च भावान्तरे ॥ Śabdaratnāvalī 8.1.53
- शब्दरत्नाकर हेलिस्यात् स्तम्बघ्नः स्तम्बघनः स्तम्बो येन निहन्यते । हेलिरालिङ्गनेऽप्यङ्कपालिर्नाली तु मानके ॥ १७३१ ॥ Śabdaratnākara 3.7.1731
- वैजयन्ती हेलिवारिपर्णी च हेतुस्तु कारणे कर्मजन्मनोः । हीरः सर्पे हरे सिंहे हेलिरालिंगने रवौ ॥ ६९ ॥ Vaijayantī 6.1.69