श्लेष
śleṣaपुं · masc.In 8 kośas: 4 synonym verses, 10 as a meaning of another word.
विधा समृद्धौ स्फुरणं स्फुलनं स्फुरितेऽपि च ।उत्कर्षोऽतिशये संधिः श्लेषे विषय आशये ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
श्लेषः परिष्वङ्गरहोपगूहोऽ-प्यमी परीरम्भयुताः पुमांसः ।क्रोडीकृतिस्तत्सद(दृ?)गङ्कपालीमा(आ?)लिङ्गनं नार्युपगूहनं च ॥ १६७ ॥
उपजातिः
genderपुंmasc.
संधिः श्लेषश्च संयोगः संबन्धो युतिरङ्गना ।विधुरं तु प्रविश्लेषो नरि स्त्री तु वियोजना ॥आप्रच्छनं भवेदानन्दनं तच्च सभाजनम् ।नीतिः स्त्रियां नयो नायो ज्यानिर्जीर्णिः स्त्रियामुभे ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
रूप्यस्वर्णद्वयं श्लेषः कथ्यते घनगोलकः ।अथालङ्कारपीते स्याच्छ्टङ्गीकनकमायुधम् ॥ ३२६ ॥
अनुष्टुप्
genderपुंmasc.
श्लेष as a meaning in nānārtha verses
- कोषकल्पतरु आलिङ्गतिसमो द्रविः पलायेऽथाङः श्लेषे लिङ्गतिर्मतः । वारणे स्यात्प्रतेः सेधिस्तद्वन्नेरपि वारणे ॥ आङो विरोधे प्रात्ख्यातावाविर्भाव-विभूषयोः । समः स्वभावसंसिद्ध्योरुदो वृद्धौ समुच्छ्रये ॥ आङस्तञ्चिः प्रतीवापे जवनाप्याययोरपि ॥ ३३ ॥ Koṣakalpataru 3.5.33
- नानार्थार्णवसंक्षेप सन्धिअन्त्यस्तोमेऽतिरात्रस्य श्लेषे भङ्गसुरुङ्गयोः । नाट्याङ्गेऽथ स्वरुर्यूपशकले कुलिशेऽपि च ॥ १३० ॥ Nānārthārṇavasaṃkṣepa 2.2.130
- नानार्थार्णवसंक्षेप प्रलयमूर्च्छायामपि कल्पान्ते श्लेषे चापि क्षयेऽपि च । प्रदरस्तु भवेद्भङ्गगबाणयोः स्त्रीरुजान्तरे ॥ १३६ ॥ Nānārthārṇavasaṃkṣepa 3.2.136
- परमानन्दीयनाममाला लीलोऽमृते चलने शक्रे ला दाने लीस्तु कङ्कणे । श्लेषबन्धनयोः श्रीश्च सरलद्रवसम्पदोः ॥ ३८ ॥ Paramānandīyanāmamālā 1.38
- शब्दरत्नाकर संधिद्यूते दरोदरः संधिः श्लेषे शाणे भ्रमिर्भ्रमः । स्फूर्च्छा तु विस्मृतौ मूर्च्छा व्याप्तिरूर्जा त्वरुंधती ॥ १७२७ ॥ Śabdaratnākara 3.7.1727
- शब्दरत्नाकर प्रलयपर्जन्यो वासवे गर्जदभ्रे जीमूतनिस्वने । प्रलयो मूर्च्छने श्लेषे संवर्ते मरणेऽपि च ॥ २१२० ॥ Śabdaratnākara 4.1.2120
- तन्त्राभिधान ललः श्लेषे चाशये चैव प्रलये साधनेऽपि लः । मानसे वरुणे चैव ल-कारः सान्त्वनेऽपि च ॥ ३१ ॥ Tantrābhidhāna 3.31
- त्रिकाण्डशेष लयआहतस्वर्णरजते रजते च नपुंसकम् । वत्से बले बुधे रौहिणेयोऽथ श्लेषवाद्ययोः ॥ ३२० ॥ Trikāṇḍaśeṣa 3.3.320
- वैजयन्ती सन्धिसन्धिः श्लेषे सुरुंगायां नाट्यांगे योनिरन्ध्रयोः । स्वरोऽकाराद्युदात्ताद्योः षड्जादौ प्राणिनां स्वने ॥ ६३ ॥ Vaijayantī 6.1.63
- वैजयन्ती प्रलयप्रलयो मरणे श्लेषे मूर्छासंवर्तयोरपि । प्रवहो वायुभेदे स्याद्वायुमात्रे बहिर्गतौ ॥ ४३ ॥ Vaijayantī 7.1.43