कपट
kapaṭaक्ली · neut.In 15 kośas: 15 synonym verses, 1 as a nānārtha head word, 10 as a meaning of another word.
कपटं कैतवं दम्भः कूटं छद्मोपधिश्छलम् ।व्यपदेशो मिषं लक्षं निभं व्याजोऽथ कुक्कुटिः ॥ ३७८ ॥कुहना दम्भचर्या च वञ्चनं तु प्रतारणम् ।व्यलीकमतिसन्धानं साधौ सभ्यार्यसज्जनाः ॥ ३७९ ॥
अनुष्टुप्
genderक्लीneut.
कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे ।कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता ॥ ३० ॥
अनुष्टुप्
genderपुंक्लीm. n.
कैतवं कपटं कूटं व्याजच्छद्मोपधिच्छलम् ।मिषं निभं च निर्दिष्टं व्यपदेशश्च सूरिभिः ॥ ७०९ ॥
अनुष्टुप्
genderक्लीneut.
हासिक्यं तु हसो हासो हसनं हस्यघर्घरे ।व्याजो मिषं छलं छद्म निभं च कपटं लविः ॥ १०७ ॥
अनुष्टुप्
genderक्लीneut.
कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे ।कुसृतिर्निकृतिः शाठ्यं पुंस्युपाधिर्मिषं छलम् ॥ १२१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
स्याद्धजमलयजयोः कालकूटारकूटयोः ।स्यात्कवटकपटयोः खेटकर्पटयोस्ततः ॥ १५४ ॥
metre not recognised
genderपुंक्लीm. n.
माया स्त्री कुसृतिस्तथा च निकृतिर्व्याजोऽपदेशोपधीदम्भः कैतवपक्ष(त्र?)शाठ्यकुहकं दण्डाजिनं स्यान्मिषम् ।* * * * * * * * * * * * *छद्म स्याच्छलमस्त्रियां तु कपटं कूटं च संश्चन्निभम् ॥ १९७ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderक्लीneut.
कव(वा)टं कपटं खेटं कर्पटं पिष्टकोष्टवत् ।चटु चाटु किरीटं च अगलःटं( ? )मकुटं कुटम् ॥ ४२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 अग (syllable split)
genderपुंक्लीm. n.
कुहको व्यंसको मायिदाण्डाजिनिकजालिकाः ।मायायां निकृतिः शाठ्यं शठता कपटे तथा ॥ ४२ ॥
अनुष्टुप्
genderक्लीneut.
रुक्मकारो महाजाली शस्त्रमार्जोऽसिधावकः ।सर्वमायी चर्मिनीचः कपटः पश्यतोहरः ॥ ५७४ ॥
अनुष्टुप्
genderपुंmasc.
कैतवं कपटं दम्भः कूटं छद्मोपविश्छलम् ।व्यपदेशो मिषं व्याजं निभं लक्ष्यं छलं च तत् ॥ ८९ ॥
अनुष्टुप्
genderक्लीneut.
शाठ्यं स्यात् शठता माया कुसृतिर्निकृतिः पुनः ।कपटं कैतवं कूटं मिषं लक्षं तथा छलम् ॥ ५६० ॥
अनुष्टुप्
genderक्लीneut.
अस्त्रियां कपटो व्याज उपधिर्दम्भ एव च ।कूटकल्कं च्छद-छद्म-मिष-कैरव-कैतवम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
अपदेशोपधिव्याजदम्भाः कपटमस्त्रियाम् ।छलं लक्षं पदं छद्म कैतवं कृतकं मिषम् ॥ १०१७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
व्याजो मिषं छलं छद्म निभं च कपटोऽस्त्रियाम् ।दंभो दंडाजिनं कूटं दौन्दुभिश्छन्दनोपधा ॥ १९५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कपट as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) जालजालं कपटेऽप्युक्तं कपालमुक्तं घटादिशकलेऽपि । रिष्टं पापाशुभयोररिष्टमशुभेऽपि निर्दिष्टम् ॥ ८०४ ॥ Abhidhānaratnamālā (Halāyudha) 5.804
- धरणिकोश शारिद्यूतोपलक्षणं शारिः शारिः शकुनिकान्तरम् । हस्तिपर्याणकं शारिः शारिः कपट इष्यते ॥ Dharaṇikośa 26.3.21
- कोषकल्पतरु लक्ष्यस्यादश्वकर्माख्यतरौ तुरङ्गे रसाञ्जने तु प्रथितो द्वयोनः । लक्ष्यं शरव्ये कपटे तु न स्त्री संख्यासु नाट्ये भरणीषु याम्या ॥ ४८ ॥ Koṣakalpataru 6.26.48
- कोषकल्पतरु जालचालं छदौ स्यादपि कम्पनेऽन्त्ये जालस्तु नीपे कपटेऽथ ना न । आनायवातायनकोद्रवेषु स्त्री घोषके चाथ भुजंगमे स्यात् ॥ ६१ ॥ Koṣakalpataru 6.28.61
- नानार्थार्णवसंक्षेप जालआनाये कपटे चापि भारताद्दक्षिणे क्वचित् । वर्षात् स्यादन्तरद्वीपे मर्त्यजात्यन्तरे पुनः ॥ ४७२ ॥ Nānārthārṇavasaṃkṣepa 2.5.472
- नानार्थार्णवसंक्षेप कैतवकेतनं स्यादकार्ये च चापे कृत्येऽथ कैतवम् । द्यूते च कपटे चाथ कैवल्यं मोक्ष एव च ॥ २५ ॥ Nānārthārṇavasaṃkṣepa 3.3.25
- शब्दरत्नाकर जालगवाक्षानाययोर्जालं क्षारके कपटे गणे । जरठे देशभेदे च जीनो बुद्धार्हतोर्जिनः प्राणिनि त्रिषु जीवः स्यात् पुंसि जन्तौ बृहस्पतौ ॥ १९२४ ॥ Śabdaratnākara 4.1.1924
- शब्दरत्नाकर कैतवकैतवं कपटे द्यूते कारणं हेतुजन्मनोः । बबादौ कारणे काये साधने रतिबन्धने ॥ २०७१ ॥ Śabdaratnākara 4.1.2071
- वैजयन्ती जालछन्दः श्रुतीच्छापद्येषु च्छिद्रं रंध्रापराधयोः । जालं गवाक्ष आनाये क्षारके कपटे गणे ॥ ९ ॥ Vaijayantī 6.3.9
- वैजयन्ती कैतवकुरीरं ग्राम्यधर्मेऽब्जे कुन्नानं कुण्डशिक्ययोः । कैतवं कपटे द्यूते कृपीटमुदरे जले ॥ ८ ॥ Vaijayantī 7.3.8