कैतव
kaitavaक्ली · neut.In 14 kośas: 18 synonym verses, 10 as a nānārtha head word, 21 as a meaning of another word.
कपटं कैतवं दम्भः कूटं छद्मोपधिश्छलम् ।व्यपदेशो मिषं लक्षं निभं व्याजोऽथ कुक्कुटिः ॥ ३७८ ॥कुहना दम्भचर्या च वञ्चनं तु प्रतारणम् ।व्यलीकमतिसन्धानं साधौ सभ्यार्यसज्जनाः ॥ ३७९ ॥
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे ।कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता ॥ ३० ॥
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
कैतवं कपटं कूटं व्याजच्छद्मोपधिच्छलम् ।मिषं निभं च निर्दिष्टं व्यपदेशश्च सूरिभिः ॥ ७०९ ॥
अनुष्टुप्
genderक्लीneut.
कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे ।कुसृतिर्निकृतिः शाठ्यं पुंस्युपाधिर्मिषं छलम् ॥ १२१ ॥
अनुष्टुप्
genderक्लीneut.
माया स्त्री कुसृतिस्तथा च निकृतिर्व्याजोऽपदेशोपधीदम्भः कैतवपक्ष(त्र?)शाठ्यकुहकं दण्डाजिनं स्यान्मिषम् ।* * * * * * * * * * * * *छद्म स्याच्छलमस्त्रियां तु कपटं कूटं च संश्चन्निभम् ॥ १९७ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderक्लीneut.
क्षीबश्चामी विशेष्यघ्ना मद्यरोगो मदात्ययः ।पणो ना स्यादक्षवती कैतवं च दुरोदरम् ।दरोदरं द्यूतमस्त्री * * * * * * * * ॥ ६८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
दम्भः कूटं मिषं व्याजो लक्षं छद्मछले अपि ।कैतवं चोपधिश्चैवं व्यपदेशनिभौ समौ ॥ ४३ ॥
अनुष्टुप्
genderक्लीneut.
द्यूतकर्ताक्षधूर्तश्चाक्षदेवी सभिकश्च सः ।द्यूतं दुरोदरं चाक्षवती कैतवमित्यपि ॥ १४९ ॥
अनुष्टुप्
genderक्लीneut.
कैतवं कपटं दम्भः कूटं छद्मोपविश्छलम् ।व्यपदेशो मिषं व्याजं निभं लक्ष्यं छलं च तत् ॥ ८९ ॥
अनुष्टुप्
genderक्लीneut.
द्यूतकारोऽक्षदेवी चाक्षधूर्तः कितवश्व सः ।द्यूतं दुरोदरं चाक्षवती पणश्च कैतवम् ॥ ६४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
genderक्लीneut.
शाठ्यं स्यात् शठता माया कुसृतिर्निकृतिः पुनः ।कपटं कैतवं कूटं मिषं लक्षं तथा छलम् ॥ ५६० ॥
अनुष्टुप्
genderक्लीneut.
अक्षवती पणः द्यूतं कैतवं स्याद्दुरोदरम् ॥ ७५२ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
अस्त्रियां कपटो व्याज उपधिर्दम्भ एव च ।कूटकल्कं च्छद-छद्म-मिष-कैरव-कैतवम् ॥
अनुष्टुप्
genderक्लीneut.
द्यूतोऽस्त्री कैतवञ्चाक्षवती पण-दुरोदरौ ।पणोऽक्षेषु ग्लहः पुंसि अक्षदेवनपाशकाः ॥
अनुष्टुप्
genderक्लीneut.
अपदेशोपधिव्याजदम्भाः कपटमस्त्रियाम् ।छलं लक्षं पदं छद्म कैतवं कृतकं मिषम् ॥ १०१७ ॥
अनुष्टुप्
genderक्लीneut.
द्यूतकृत् कितवो धूर्तश्चाक्षदेव्यक्षदेवनः ।स्यादेवाक्षवती द्यूतमस्त्रियां कैतवं पणः ॥ १५६८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
भेद्यलिङ्गं तु कितवसम्बन्धिनि मनीषिणः ।कैराती तु स्त्रियामूर्ध्वाधोगतौ क्षिप्तपत्त्रिणः ॥ ५९० ॥
अनुष्टुप्
meaningsकितवसम्बन्धिन्
doubtful
कैतव as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् कूटमायानिश्चलयन्त्रेषु कैतवानृतराशिषु ॥ ३६ ॥ अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् । Amarakośa 3.3.73
- कोषकल्पतरु अप-दिश्अपाद्व्याजे कैतवे च प्रभाषे तूद ईरितः । अत्याङोऽतेरन्यधर्मप्राप्तावाङश्चाज्ञापने मतः ॥ ५७ ॥ Koṣakalpataru 3.5.57
- कोषकल्पतरु उपादधातिसम्यक्कृतौ प्रतिज्ञायामुपाङो धर्मचिन्तने । कैतवोपप्लवारोप-सयोजन-वियोजने ॥ ७३ ॥ Koṣakalpataru 3.5.73
- कोषकल्पतरु कूटकूटं निश्चलयन्त्रकैतवपुरद्वाराद्रिशृङ्गानृत- मायातुच्छहलाङ्गराशिषु तथा स्त्री रोचनेऽयोघने । लाटो देशविशेषके च वसने झाटो निकुञ्जे वने सम्मृष्टावरुषोऽथ ना पथि वृतौ वाटस्त्रये वास्तुभित् ॥ ७ ॥ Koṣakalpataru 6.10.7
- कोषकल्पतरु हारीतहारीतः खगमुनिभेदकैतवेषु सन्मन्त्रैर्हुतभुजि संस्कृते कृते च । सं[294a]पन्नेऽप्युपनिहिते प्रवेशिते च संप्रोक्तं किल परलिङ्गकं प्रणीतम् ॥ ५ ॥ Koṣakalpataru 6.16.5
- कोषकल्पतरु छद्मन्स्यात्सद्म गेहेऽम्भसि कैतवे तु छद्म प्रदिष्टं कुसृतौ तथैव । प्रेमास्त्रियां नर्मविधौ च हार्दे व्योमान्तिमे वारिविहायसोश्च ॥ ९३ ॥ Koṣakalpataru 6.21.93
- कोषकल्पतरु दम्भयोगे शुभं स्यात्कुशले तु षण्ढे व्याजे निभोऽस्त्री सदृशेऽन्यवच्च । दम्भस्तु कल्के नरि कैतवे च डिम्भोऽर्भके बालिशके तथैव ॥ ३९ ॥ Koṣakalpataru 6.24.39
- कोषकल्पतरु सत्रमासेऽद्रिभेदे च पुमानथ स्याद् वृत्रो रिपौ दानवशक्रयोश्च । ध्वान्ते घने पर्वतवाचकोऽथ सत्रं वने वाससि कैतवे च ॥ ३० ॥ Koṣakalpataru 6.27.30
- कोषकल्पतरु गह्वरपुंसि वास्तव्यके वाणिजे नीवरो गह्वरं कन्दरे कैतवे संकटे । भक्तसिक्थे यमे यक्ष्मके केसरे कौत्सिताम्बे दृढे( ? )पार्परो भस्मनि ॥ ३४ ॥ Koṣakalpataru 6.27.34
- कोषकल्पतरु लक्षदेहाङ्गचुल्लीविलयोः पतत्रे नृपद्विपे मित्रसहाययोश्च । बलेऽथ केशादिपरः स वृन्दे लक्षं शरव्ये षणि(?)कैतवेऽस्त्री ॥ ४९ ॥ Koṣakalpataru 6.30.49
- नानार्थार्णवसंक्षेप छद्मन्अनूहसामग्रन्थेऽथच्छद्म सद्मनि कैतवे । छदिस्तु पटले गेहे जन्म तूत्पत्तितोययोः ॥ २४ ॥ Nānārthārṇavasaṃkṣepa 2.3.24
- शब्दरत्नावली कूर्चबन्धनेऽपि च शोभायां करिण्याञ्च कचा स्त्रियाम् । काचो मनौ च शिक्ये च नेत्ररुग्मृत्तिकाभिदोः ॥ काञ्चीनगरभेदे च स्त्री कटिमेखलासु च । कूर्चमस्त्री भ्रुवोरन्तः कठिन श्मश्ककैतवे ॥ Śabdaratnāvalī 7.6.3
- शब्दरत्नावली दम्भदम्भः स्यात्कैतवे कल्के साटोपाहङ्कृतावपि । दृन्भूश्चवज्रचक्राहिमुख्यभूतिषु च स्त्रियाम् ॥ नाभिर्ना चक्रमध्ये च क्षत्रिये मुख्यभूपतौ । द्वयोः प्राण्यङ्गमध्ये तु स्त्रियां कस्तूरिकामदे ॥ निभो व्याजे तु पुंलिङ्गः प्रकाशे सदृशे त्रिषु । रम्भः कपौ च वंशे ना कदल्यप्सरसोः स्त्रियाम् ॥ विभुर्वृद्धे प्रभौ राज्ञि ब्रह्मशङ्करयोः पुमान् । शम्भुर्महेश्वरे सिद्धे सुगते परमेष्ठिने ॥ शुभं क्षेमे शुभोयोगे शुभा कान्तीच्छयोः स्त्रियाम् । सभाद्यूते मन्दिरे च गोष्ट्यां सामाजिके स्त्रियाम् ॥ स्वभूर्विष्णौ विधौ पुंसि स्तम्भः स्थूनाजडत्वयोः । Śabdaratnāvalī 7.24.7
- शब्दरत्नावली नेमनेमः खण्डेऽवधौ गर्ते नाहादौ कैतवान्ययोः । पद्मोऽस्त्रीपद्मके पद्मे निधिसंख्याभिदोर्न्नजौ(?) । नागे ना स्त्री चारटी-श्री-फञ्जिका-पन्नगीषु च ॥ Śabdaratnāvalī 7.25.14
- शब्दरत्नावली सत्रस्वरुर्व्रजे यूपखण्डे सायकेऽप्यध्वरे पुमान् । सद्रं (?) वनसदादानयज्ञाच्छादनकैतवे । सरः पुंसि गतौ तुङ्गे दद्यग्रे च निगद्यते ॥ Śabdaratnāvalī 7.27.47
- शब्दरत्नावली ऋक्षऋषिर्वेदे वशिष्ठादौ दीधितौ मत्स्यरूपिणि । ऋक्षं कैतवनक्षत्रधनेष्वपि नपुंसकम् ॥ Śabdaratnāvalī 7.31.4
- शब्दरत्नाकर छद्मन्छन्दः पद्यश्रूतीच्छासु च्छद्म सद्मनि कैतवे । छिद्रं तु रन्ध्रावसरापदेशेष्वथ संहतौ ॥ १९२३ ॥ Śabdaratnākara 4.1.1923
- त्रिकाण्डशेष कूर्चप्रतिमापूजयोरर्चा क्रौञ्चः पक्ष्यद्रिभेदयोः । कूर्चमस्त्री भ्रुवोर्मध्ये श्मश्रुकैतवयोरपि ॥ ७४ ॥ Trikāṇḍaśeṣa 3.3.74
- त्रिकाण्डशेष दम्भदुन्दुभिर्दैत्यभेदेऽपि दम्भः कैतवकल्कयोः । दुर्लभः कर्चुरेऽकाम्ये सदृशव्याजयोर्निभः ॥ २८७ ॥ Trikāṇḍaśeṣa 3.3.287
- त्रिकाण्डशेष सत्त्रशम्बरौ दैत्यहरिणौ सत्त्रं स्यात्कैतवे वने । स्रोतोञ्जने च सौवीरं काञ्जिके बदरेऽपि च ॥ ३७९ ॥ Trikāṇḍaśeṣa 3.3.379
- वैजयन्ती छद्मन्चैत्यं चितांके बुद्धाण्ड उद्देशेऽद्रौ मुरालये । चिह्नमंके पताकायां छद्म सद्मनि कैतवे ॥ ८ ॥ Vaijayantī 6.3.8