उपधि
upadhiपुं · masc.In 12 kośas: 11 synonym verses, 5 as a nānārtha head word.
कपटं कैतवं दम्भः कूटं छद्मोपधिश्छलम् ।व्यपदेशो मिषं लक्षं निभं व्याजोऽथ कुक्कुटिः ॥ ३७८ ॥कुहना दम्भचर्या च वञ्चनं तु प्रतारणम् ।व्यलीकमतिसन्धानं साधौ सभ्यार्यसज्जनाः ॥ ३७९ ॥
अनुष्टुप्
genderपुंmasc.
कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे ।कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
कैतवं कपटं कूटं व्याजच्छद्मोपधिच्छलम् ।मिषं निभं च निर्दिष्टं व्यपदेशश्च सूरिभिः ॥ ७०९ ॥
अनुष्टुप्
genderपुंmasc.
माया स्त्री कुसृतिस्तथा च निकृतिर्व्याजोऽपदेशोपधीदम्भः कैतवपक्ष(त्र?)शाठ्यकुहकं दण्डाजिनं स्यान्मिषम् ।* * * * * * * * * * * * *छद्म स्याच्छलमस्त्रियां तु कपटं कूटं च संश्चन्निभम् ॥ १९७ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
दम्भः कूटं मिषं व्याजो लक्षं छद्मछले अपि ।कैतवं चोपधिश्चैवं व्यपदेशनिभौ समौ ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
उपधिः पुंसि दम्भे स्याच्छाठ्ये निकृतिरिष्यते ।क्रीडायां खेलना खेला केलिर्नर्म द्रवः पुमान् ॥ १७१ ॥
अनुष्टुप्
genderपुंmasc.
कैतवं कपटं दम्भः कूटं छद्मोपविश्छलम् ।व्यपदेशो मिषं व्याजं निभं लक्ष्यं छलं च तत् ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.doubtful
उपाधिरुपधिश्छद्म व्याजो व्यपदेशो निभम् ।उपधा चेति मन्तव्याः कपटस्यैव वाचकाः ॥ ५६१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 दे (wrong syllable)
genderपुंmasc.
अस्त्रियां कपटो व्याज उपधिर्दम्भ एव च ।कूटकल्कं च्छद-छद्म-मिष-कैरव-कैतवम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
आत्मा क्षेत्रज्ञपुरुषौ निदानं त्वादिकारणम् ।निमित्तं कारणं बीजं हेतुरर्थ उपधिवत् ॥ २७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 प (wrong syllable)
genderपुंmasc.
अपदेशोपधिव्याजदम्भाः कपटमस्त्रियाम् ।छलं लक्षं पदं छद्म कैतवं कृतकं मिषम् ॥ १०१७ ॥
अनुष्टुप्
genderपुंmasc.
उषवस्तु रवौ दाहेऽप्युपधिः पुनरुच्यते ।उपधानक्रियायां च रथस्यावयवान्तरे ॥ ५७ ॥
अनुष्टुप्