व्यपदेश
vyapadeśaपुं · masc.In 8 kośas: 8 synonym verses.
कपटं कैतवं दम्भः कूटं छद्मोपधिश्छलम् ।व्यपदेशो मिषं लक्षं निभं व्याजोऽथ कुक्कुटिः ॥ ३७८ ॥कुहना दम्भचर्या च वञ्चनं तु प्रतारणम् ।व्यलीकमतिसन्धानं साधौ सभ्यार्यसज्जनाः ॥ ३७९ ॥
अनुष्टुप्
genderपुंmasc.
कैतवं कपटं कूटं व्याजच्छद्मोपधिच्छलम् ।मिषं निभं च निर्दिष्टं व्यपदेशश्च सूरिभिः ॥ ७०९ ॥
अनुष्टुप्
genderपुंmasc.
व्यपदेशो निभं व्याजः पदं व्यतिकरश्छलम् ।छद्म वृत्तान्तमुत्प्रेक्षा शब्दमन्यं च निर्णयेत् ॥ १३८ ॥
अनुष्टुप्
genderपुंmasc.
दम्भः कूटं मिषं व्याजो लक्षं छद्मछले अपि ।कैतवं चोपधिश्चैवं व्यपदेशनिभौ समौ ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
कैतवं कपटं दम्भः कूटं छद्मोपविश्छलम् ।व्यपदेशो मिषं व्याजं निभं लक्ष्यं छलं च तत् ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
उपाधिरुपधिश्छद्म व्याजो व्यपदेशो निभम् ।उपधा चेति मन्तव्याः कपटस्यैव वाचकाः ॥ ५६१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 दे (wrong syllable)
genderपुंmasc.
व्यपदेशाह्वयौ संज्ञा गोत्रमाख्या च लक्ष्मणम् ।स्यादभिख्या तथाह्वा च नामपर्याय ईरितः ॥
अनुष्टुप्
genderपुंmasc.
संज्ञाऽधिवचनं सद्यःकृतं लक्षणनामनी ।व्यपदेशः प्रसिद्धस्तु टङ्कारोऽथ नवः स्तवः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.