कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कुहना

kuhanāस्त्री · fem.

In 12 kośas: 9 synonym verses, 4 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.379 · p. 19
कपटं कैतवं दम्भः कूटं छद्मोपधिश्छलम् ।व्यपदेशो मिषं लक्षं निभं व्याजोऽथ कुक्कुटिः ॥ ३७८ ॥कुहना दम्भचर्या च वञ्चनं तु प्रतारणम् ।व्यलीकमतिसन्धानं साधौ सभ्यार्यसज्जनाः ॥ ३७९ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.98
नष्टाग्निः कुहना लोभान्मिथ्येर्यापथकल्पना ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.740 · p. 85
ईर्ष्या स्यात्कुहना दम्भो मिथ्याचर्या च कुक्कुटिः ।कुसृतिर्निकृतिर्माया शाम्बरी पथकल्पना ॥ ७४० ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.152 · p. 85
कुहना लोभान्मिथ्येर्या सा स्यादपथकल्पना ।क्षतव्रतोवकीर्णी स्याद्व्रात्यः संस्कारवर्जितः ॥ १५२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भा (wrong syllable)
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.44 · p. 106
कुर्कुटिर्दम्भचर्या च कुहना वञ्जने पुनः ।प्रतारणाभिसंधाने व्यलीकं परवञ्जने ॥ ४४ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.241 · p. 55
लोभान्मिथ्याकल्पनायाश्चर्यायाश्चरणे मता ।कुहनेत्यथ व्रात्यः स्यात्कालसंस्कारवर्जिते ॥ २४१ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 थ (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.562 · p. 72
अथ स्याद्दम्भचर्या च कुक्कुटिः कुहना तथा ।वञ्चनं च व्यलीकं चाऽतिसन्धानं प्रतारणम् ॥ ५६२ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.118 · p. 119
अर्थलोभेन या मिथ्या ध्यानमौनादिकल्पना ।कुहना कुहनोऽपि स्यात् भवेत् कुहनिकापि च ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.1019 · p. 127
अकृत्याचरणं यत्तदासुरं विप्रलम्भनम् ।कुहना त्वव्यये क्रुष्टं क्रन्दितं रुदितं समम् ॥ १०१९ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.16 · p. 111
सूचनाभिनये प्रोक्ता दर्शने व्यधनेऽपि च ।कुहना दम्भचर्यायां कुहनावीर्ष्यदाम्भिकौ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.1 · p. 261
ईर्ष्यायां कुहना च दम्भचरणेऽथो पूतना राक्षसी-भेदे किं च हरीतकीभिदि विदि त्वाहुः स्त्रियां चेतनाम् ।वाच्ये[20a]प्राणिनि सा मताथ पृतना स्यात्सैन्यमात्रे चमू-भेदे चाथ वराङ्गनासु ललना जिह्वाशिराभेदयोः ।स्त्रियां प्रसन्ना मदिरासु वाच्येप्रसादयुक्तेऽथ फणिज्जमल्ल्योः ।कम्पिल्लके च प्रमदासलिङ्गंश्लेष्मघ्नमुक्तं कफहृत्सुभेद्ये ॥ १ ॥
शार्दूलविक्रीडितम्two metres in one verse
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.47 · p. 236
नद्धानं(?) काचपात्रे स्यान्मृत्तिकाभाण्डभेदयोः ।कुहना दम्भचर्यायां स्यादीर्ष्यापथकल्पने ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.23 · p. 258
कीनाशो रक्षसि यमे कदर्ये कर्षकेऽर्थवत् ।कुहनो मूषिके सेर्ष्ये कुहना दंभशीलता ॥ २३ ॥
अनुष्टुप्