शाठ्य
śāṭhyaक्ली · neut.In 13 kośas: 10 synonym verses, 10 as a meaning of another word.
माया तु शठता शाठ्यं कुसृतिर्निष्कृतिश्च सा ॥ ३७७ ॥
अनुष्टुप्
genderक्लीneut.
कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे ।कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता ॥ ३० ॥
अनुष्टुप्
genderक्लीneut.
कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे ।कुसृतिर्निकृतिः शाठ्यं पुंस्युपाधिर्मिषं छलम् ॥ १२१ ॥
अनुष्टुप्
genderक्लीneut.
माया स्त्री कुसृतिस्तथा च निकृतिर्व्याजोऽपदेशोपधीदम्भः कैतवपक्ष(त्र?)शाठ्यकुहकं दण्डाजिनं स्यान्मिषम् ।* * * * * * * * * * * * *छद्म स्याच्छलमस्त्रियां तु कपटं कूटं च संश्चन्निभम् ॥ १९७ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderक्लीneut.
कुहको व्यंसको मायिदाण्डाजिनिकजालिकाः ।मायायां निकृतिः शाठ्यं शठता कपटे तथा ॥ ४२ ॥
अनुष्टुप्
genderक्लीneut.
माया तु शठता शाठ्यं वञ्चनं विप्रतारणम् ।शङ्कातङ्कौ दरस्त्रासो भीतिर्भीः साध्वसं भयम् ॥ ९० ॥
अनुष्टुप्
genderक्लीneut.
शाठ्यं स्यात् शठता माया कुसृतिर्निकृतिः पुनः ।कपटं कैतवं कूटं मिषं लक्षं तथा छलम् ॥ ५६० ॥
अनुष्टुप्
genderक्लीneut.
अथ शाठ्यञ्च शठता कुसृतिर्निकृतिश्च सा ।हिंसा फले चतुष्कं स्यात् शाठ्यपर्याय ईरितः ॥
अनुष्टुप्
genderक्लीneut.
मायावी, दाण्डाजनिको, दण्डाजनिक इत्यपि ।मायायां शठता-शाठ्ये व्याज्ये लक्ष्यं तु लक्षयुक् ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
छलना तु न ना शाठ्यं कुसृतिर्निकृतिः स्त्रियौ ।प्रतारणातिसंधानवञ्चनानि प्रलोभनम् ॥ १०१८ ॥
अनुष्टुप्
genderक्लीneut.
शाठ्य as a meaning in nānārtha verses
- धरणिकोश निकृतिप्रसूती प्रसवोत्पादौ निकृती शाठ्यभर्त्सने । दुर्गतिर्नरके नैःस्व्ये संततिः पङ्क्तिगोत्रयोः ॥ Dharaṇikośa 15.1.19
- कोषकल्पतरु व्यजतिआङः प्रवति संप्लुत्यामुत्प्लुतौ स तथोद्धृतौ । अनोः प्लविः स्यात्सहगे विप्लवोत्पातयोरुपात् ॥ औद्धत्येऽथाङभिभ्यां स शौचे नाशे तु वेः परः । समः साकं प्लवे लौल्यलाघवोन्मोहनेकरे ॥ इषतिश्चेङ्खतिर्द्वौ स्तः प्रात्परौ वाजिनां गतौ । अभिघातेऽभ्याङ्परोऽजिर्वेस्तु वीजन-शाठ्ययोः ॥ २७ ॥ Koṣakalpataru 3.5.27
- कोषकल्पतरु निकरोतिनिर्माति च विधत्ते स्युः करणे कृस्तु(?) नेर्भवेत् । अवज्ञावञ्चनाशाठ्यनिन्दाभर्त्सनवाचकः ॥ ५२ ॥ Koṣakalpataru 3.5.52
- कोषकल्पतरु निकृतिभवेत्स्रवन्त्यौषधिसिन्धुभेदे वाते त्वमात्ये वहतिर्वृषे ना स्त्री दुर्गतिः स्यान्निरये च निःस्वे । डिम्बे गदे स्याद्विकृतिर्विकारे शठे तु शाठ्ये निकृतिर्निकारे ॥ ३६ ॥ Koṣakalpataru 6.16.36
- नानार्थार्णवसंक्षेप कुसृतिकिणिही स्यादपामार्गे गिरिकर्ण्यां च भाषिता । कुसृतिस्तु कुमार्गे स्यात् कुगतौ शाठ्य एव च ॥ २३ ॥ Nānārthārṇavasaṃkṣepa 3.1.23
- नानार्थार्णवसंक्षेप निकृतिनिर्वृतिर्मनसस्तोषे मोक्षेऽस्तमयबाढयोः । नियतिः सयमे दैवे निकृतिः शठशाठ्ययोः ॥ ४० ॥ Nānārthārṇavasaṃkṣepa 3.1.40
- शब्दरत्नावली व्याजबहुत्वे पुंसि लाजाः स्युर्व्याजोऽपदेशशाठ्ययोः । ब्रजो गोष्ठे पथिच्छन्दे वाजः पक्षे च निस्वने । मुनौ पुमान् जले क्लीबं यज्ञे चैव घृतान्नयोः ॥ Śabdaratnāvalī 7.8.16
- शब्दरत्नावली निकृतिनिकृतिः स्त्री शठे शाठ्ये दैन्ये क्षेये च भर्त्सने । निर्वृतिः सुत्थितौ सौख्ये तथास्तङ्गमने स्त्रियाम् ॥ Śabdaratnāvalī 7.16.112
- शब्दरत्नाकर निकारआज्ञायामपि निर्देशो निषधोऽनलभूभृतोः । निकारस्तु तिरस्कारे धान्योत्क्षेपणशाठ्ययोः ॥ २१११ ॥ Śabdaratnākara 4.1.2111
- त्रिकाण्डशेष व्याजव्याजः शाठ्येऽपदेशे च स्वेदरक्तात्मजाः स्वजाः । निसर्गे सहजः पुंसि सहोत्थे वाच्यलिङ्गकः ॥ ८८ ॥ Trikāṇḍaśeṣa 3.3.88