दम्भचर्या
dambhacaryāस्त्री · fem.In 7 kośas: 3 synonym verses, 5 as a meaning of another word.
कपटं कैतवं दम्भः कूटं छद्मोपधिश्छलम् ।व्यपदेशो मिषं लक्षं निभं व्याजोऽथ कुक्कुटिः ॥ ३७८ ॥कुहना दम्भचर्या च वञ्चनं तु प्रतारणम् ।व्यलीकमतिसन्धानं साधौ सभ्यार्यसज्जनाः ॥ ३७९ ॥
अनुष्टुप्
genderस्त्रीfem.
कुर्कुटिर्दम्भचर्या च कुहना वञ्जने पुनः ।प्रतारणाभिसंधाने व्यलीकं परवञ्जने ॥ ४४ ॥
अनुष्टुप्
genderस्त्रीfem.
अथ स्याद्दम्भचर्या च कुक्कुटिः कुहना तथा ।वञ्चनं च व्यलीकं चाऽतिसन्धानं प्रतारणम् ॥ ५६२ ॥
अनुष्टुप्
genderस्त्रीfem.
दम्भचर्या as a meaning in nānārtha verses
- धरणिकोश कुहनासूचनाभिनये प्रोक्ता दर्शने व्यधनेऽपि च । कुहना दम्भचर्यायां कुहनावीर्ष्यदाम्भिकौ ॥ Dharaṇikośa 19.2.16
- कोषकल्पतरु कुक्कुटनिषादशूद्रात्मजताम्रचूड- स्फुलिङ्गवाची किल कुक्कुटोऽस्त्री । स्त्री तालमध्ये लसुनप्रभेदे स्याद्दम्भचर्योच्चटयोश्च तद्वत् ॥ ३० ॥ Koṣakalpataru 6.10.30
- नानार्थार्णवसंक्षेप कुहननप्स्त्री तु दम्भचर्यायां दम्भशीलत्व एव च । कुहना क्ली तु मायायां मूषिके तु द्वयोर्भवेत् ॥ ५२७ ॥ Nānārthārṇavasaṃkṣepa 4.527
- परमानन्दीयनाममाला नाडीनाडी दम्भस्य चर्यायां नाले स्नायौ गुणान्तरे । न्यङ्कुस्ताले मृगे साधौ नखो नखरखण्डयोः ॥ २६० ॥ Paramānandīyanāmamālā 5.18.260
- शब्दरत्नावली कुहनानद्धानं(?) काचपात्रे स्यान्मृत्तिकाभाण्डभेदयोः । कुहना दम्भचर्यायां स्यादीर्ष्यापथकल्पने ॥ Śabdaratnāvalī 7.20.47