कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śāradīyākhyanāmamālā

शारदीयाख्यनाममाला Śāradīyākhyanāmamālā

462 verses · 4,677 words tagged · 226 marked doubtful (dashed)

द्वितीयः काण्डः · संगीतवर्गः

॥ इति संयोगादिवर्गः ॥

गीतं नृत्यं च वादित्रं त्रयं संगीतमुच्यते ।गीतं गानं गेयं गीतिर्नादो गन्धर्व एव च ॥ १०३ ॥
2.3.103 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 गे (wrong syllable)
नर्तनं नाटकं नृत्यं लास्यं नाट्यं च ताण्डवम् ।अङ्गहारोऽङ्गविक्षेपो व्यञ्जकोऽभिनयो लयः ॥ १०४ ॥
2.3.104 · p. 29
अनुष्टुप्
षड्जर्षभगान्धारा मध्यमः पञ्चमस्तथा ।धैवतो निषधः सप्त स्वरास्तन्त्र्यादिषूद्भवाः ॥ १०५ ॥
2.3.105 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 ष (syllables merged)
द्रुतं विलम्बितं मध्यमिति गीते त्रयो लयाः ।ग्रामा घोरमन्द्रतारास्तालाश्च चपुटादयः ॥ १०६ ॥
2.3.106 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
सप्त स्वरास्त्रयो ग्रामा मूर्छनाश्चैकविंशतिः ।ताना एकोनपञ्चाशत्तालाः स्युर्द्विचतुर्मिताः ॥ १०७ ॥
2.3.107 · p. 30
अनुष्टुप्
वाद्यं वादित्रमातोद्यं तूर्यं तूरः स्मरध्वजः ।ततं वीणाप्रभृतिकं वंशतालादिकं घनम् ॥ १०८ ॥
2.3.108 · p. 30
अनुष्टुप्
वंशादिकं तु सुषिरमानद्धं मुरजादिकम् ।विपञ्ची वल्लकी वीणा मुरलीवंशवेणवः ॥ १०९ ॥
2.3.109 · p. 30
अनुष्टुप्
मृदङ्गो मुरजश्चैव मर्दलः पुष्करस्त्रिधा ।स्याद्यशःपटहो ढक्का भेरी दुन्दुभिरानकः ।वाद्यभेदाः शङ्खताला झल्लरीपटहादयः ॥ ११० ॥
2.3.110 · p. 30
अनुष्टुप्metre not read in every line
शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।बीभत्साद्भुतशान्ताश्चेत्येते नव रसाः स्मृताः ॥ १११ ॥
2.3.111 · p. 30
अनुष्टुप्
मभजासानयरता गणा अष्ट लघुर्गुरु ।एकं द्विचतुःषट्स्वरैर्द्रुतो लघुर्गुरुः प्लुतः ॥ ११२ ॥
2.3.112 · p. 30
अनुष्टुप्metre not read in every line
न स्यात्पञ्चस्वरान्नूनं पञ्चभिः षा[ओ]डवं स्मृतम् ।षट्स्वरैः षाडवं प्रोक्तं सम्पूरणं तु सप्तभिः ॥ ११३ ॥
2.3.113 · p. 30
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 र (wrong syllable)