कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उपधृति

upadhṛtiस्त्री · fem.

In 5 kośas: 5 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.100 · p. 8
रोचिरुस्ररुचिशोचिरंशुगो ज्योतिरर्चिरुपधृत्यभीशवः ।प्रग्रहः शुचिमरीचिदीप्तयो धामकेतुघृणिरश्मिपृश्नयः ॥ ९९ ॥पाददीधितिकरद्युतिद्युतो रुग्विरोककिरणत्विषित्विषः ।भाःप्रभावसुगभस्तिभानवो भा मयूखमहसी छविर्विभा ॥ १०० ॥
रथोद्धता
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.39 · p. 6
उस्रधामवसुकेतुमरीचिप्रग्रहोपधृतिवृष्णिमयूखाः ।अंशुभानुकरपादविरोका गाव इत्यभिहितास्तु समानाः ॥ ३९ ॥
स्वागता
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.15 · p. 437
अभीशुः किरणोभीषुर्भानुरुस्रश्च दीधितिः ।रश्मिर्मयूख उद्योतः केतुश्चोपधृतिर्वसुः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.44 · p. 31
कर-किरण-मयूखाभीषु-रश्म्यंशु-गावःशुचि-वसु-घृणि-घृष्णि-प्रग्रहोस्रा गभस्तिः ।उपधृतिरपि रोकः स्यूम-पादौ च पृश्निः*****मरीचिर्दीधितिः स्त्री पदं च [21a] ॥ ४४ ॥
मालिनीmetre not read in every line
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.94 · p. 17
अभीशुः शुचिभाभानुवसूपधृतयो विभा ।प्रकाशो वर्च आलोकोद्योतावातपतेजसी ॥ ९४ ॥
अनुष्टुप्
genderस्त्रीfem.