केतु
ketuपुं · masc.In 22 kośas: 37 synonym verses, 11 as a nānārtha head word, 11 as a meaning of another word.
रोचिरुस्ररुचिशोचिरंशुगो ज्योतिरर्चिरुपधृत्यभीशवः ।प्रग्रहः शुचिमरीचिदीप्तयो धामकेतुघृणिरश्मिपृश्नयः ॥ ९९ ॥पाददीधितिकरद्युतिद्युतो रुग्विरोककिरणत्विषित्विषः ।भाःप्रभावसुगभस्तिभानवो भा मयूखमहसी छविर्विभा ॥ १०० ॥
रथोद्धता
रोचिस्क्लीउस्रपुंरुचिस्त्रीशोचिस्क्लीअंशुपुंगोस्त्रीज्योतिस्क्लीअर्चिस्क्लीउपधृतिस्त्रीअभीशुपुंप्रग्रहपुंशुचिपुंमरीचिपुंस्त्रीदीप्तिस्त्रीधामन्क्लीकेतुपुंघृणिपुंरश्मिपुंपृश्निस्त्रीपादपुंदीधितिस्त्रीकरपुंद्युतिस्त्रीद्युत्स्त्रीरुच्स्त्रीविरोकपुंकिरणपुंत्विषिस्त्रीत्विष्स्त्रीभास्स्त्रीप्रभास्त्रीवसुक्लीगभस्तिपुंभानुपुंभास्त्रीमयूखपुंमहस्क्लीछविस्त्रीविभास्त्री
genderपुंmasc.
अश्लेषाभूः शिखी केतुर्ध्रुवस्तूत्तानपादजः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तिः (wrong syllable)
genderपुंmasc.
genderपुंmasc.
उस्रधामवसुकेतुमरीचिप्रग्रहोपधृतिवृष्णिमयूखाः ।अंशुभानुकरपादविरोका गाव इत्यभिहितास्तु समानाः ॥ ३९ ॥
स्वागता
genderपुंmasc.
स्वर्भानुः सैंहिकेयश्च तमो राहुर्विधुन्तुदः ।केतवः शिखिनः प्रोक्ता आर्द्रालुब्धक उच्यते ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती पताका च केतुः स्यात्केतनं ध्वजः ।अस्योच्चूलावचूलाख्यावूर्ध्वाधोमुखकूर्चकौ ॥ ४५८ ॥
अनुष्टुप्
genderपुंmasc.
स्वर्भानुग्रहकल्लोलः सैंहिकेयो विधुन्तुदः ।राहुरभ्रपिशाचश्च केतवो विकचाः कृशाः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
राहुर्विधुन्तुदोऽब्जारिः सिंहिकेयस्तथातमः ।स्वर्भानुश्चंद्रमाशत्रुकेतवः शिखिनो मतः ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
ध्वजोऽस्त्री केतनं चापि क्लीबे केतुः पुमान् स्त्रियाम् ।वैजयन्ती जयन्ती च पताका व्योममञ्जरी ॥ ३३७ ॥
अनुष्टुप्
genderपुंmasc.
अभ्रार्थाच्च पिशाचार्थः स्वर्भानुः स्यादथो शिखी ।आश्लेषाभूर्वारुणः स्यादहिः केतुश्च तद्गणाः ॥ २११ ॥
अनुष्टुप्
genderपुंmasc.
अभीशुः किरणोभीषुर्भानुरुस्रश्च दीधितिः ।रश्मिर्मयूख उद्योतः केतुश्चोपधृतिर्वसुः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
काश्यपिः प्लवगो वैनतेयो गरुडपूर्वजः ।हम्रो[?]नूरुश्च सूर्येन्द्वोर्ग्रासे स्वर्भानुकेतुतः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
छायाङ्गोऽपि तमो मुण्डः कृष्णवर्त्मा तमोऽस्त्रियाम् ।केतुः शिखी च विशिरा उत्प्लवो विकचोऽहिकः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
प्र[च?]क्षाः प्रचक्षा वाग्वाग्मी [गी]रथश्च महामतिः ।रविरिन्दुः कुजः सौम्यो वागीश उशनाः शनिः ।राहुः केतुश्चेति नव ग्रहाः खेटाश्च कीर्त्तिताः ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
काश्मर्यो मिथुनेऽथ स्यादरणिर्नाऽग्निमन्थकः ।मन्थानो वह्निमथनो मन्थतेजोद्रुकेतवः ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
पताका वैजयन्ती च धूका केतुर्मतो नरि ।केतनं ध्वजमस्त्रीके अस्योच्चूलावचूलिका ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
त्सरुपुंभरुपुंमरुपुंचरुपुंशत्रुपुंतरुपुंमेरुपुंकेतुपुंसेतुपुंहेतुपुंतन्तुपुंधातुपुंकशेरुक्लीदारुक्लीजतुक्लीवस्तुक्लीमस्तुक्लीग्रन्थिपुंप्रस्थपुंसर्पिस्क्लीहविस्क्लीबर्हिस्क्लीवपुस्क्लीआयुस्क्लीधनुस्क्लीसौकुमार्यक्लीशौक्ल्यक्लीकार्ष्ण्यक्लीदाक्ष्यक्लीपाटलिपुंस्त्रीगोपुंस्त्रीमुष्टिपुंस्त्रीअशनिपुंस्त्रीबाहुपुंस्त्रीसिन्धुपुंस्त्रीमणिपुंस्त्रीआशिस्स्त्रीधुर्स्त्रीपुर्स्त्रीक्षुध्स्त्रीतृष्स्त्रीगिर्स्त्रीमुद्स्त्रीरुष्स्त्री
genderपुंmasc.
genderपुंmasc.
ध्वजं पताका केतुश्च चिह्नं तद्वैजयन्त्यपि ।तत्तदन्तो झषाद्यादिः शम्भोर्विघ्नकरः स्मरः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
द्योतिरंशुः छविः केतुमरीचिरुचिरोचिषः ।अर्चिविरोकरुक्शोचिमयूखोस्रगभस्तयः ॥ ९३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 वि (wrong syllable)
genderपुंmasc.
भरणीभूस्तमोऽथ स्याच्छिखी केतुस्तथाहिकः ।अश्लेषाभूरथोत्तानपादजो ध्रुव इत्यपि ॥ ११९ ॥
अनुष्टुप्
genderपुंmasc.
घृणिर्घृष्टिर्मयूखश्च रुगर्चिर्वर्च इत्यपि ।शोचिः केतुः पदः पादस्तेजः कान्तिर्भगो रुचिः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
सैन्यं वरूथिनी चक्रं ध्वजिनी चतुरङ्गिणी ।पताकिका ध्वजः केतुर्नासीरः पृतना मुखम् ॥ २१९ ॥
अनुष्टुप्
genderपुंmasc.
अहिर्विधुन्तुदो राहुः स्वर्भानुः सिंहिकासुतः ।अश्लेषाभू राहुशिरो ग्रहोल्का केतुराविकः ॥ ३२२ ॥
अनुष्टुप्
genderपुंmasc.
राहुस्तमः सैंहिकेयः स्वर्भाणु[नु]स्तु विधुंतुदः ।केतुः शिखी चाहिकः स्याद्ध्रुवस्तूत्तानपादजः ॥ ७६ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
ध्वजश्च केतनं केतुः पताका चिह्नमेव च ।मार्गोऽध्वा निगमः पन्था पदवी वर्त्म पद्धतिः ॥ १५९ ॥
अनुष्टुप्
genderपुंmasc.
अश्लेषाभूश्च केतुश्च शिखी चेति ग्रहा मताः ।उत्तानपादजश्चैव ध्रुवाख्यः कथितो बुधैः ॥ ११३ ॥
अनुष्टुप्
genderपुंmasc.
पताका केतनं केतुः पटाका च ध्वजः पुनः ।वैजयन्ती जयन्ती च ध्वजनामानि सन्ति वै ॥ १२२३ ॥
अनुष्टुप्
genderपुंmasc.
विधुन्तुदोपरागौ च सिंहिकासूनुरित्यपि ।केतुर्ज्योतीरथोऽपि स्यादश्लेषाभव आंहिकः ॥
अनुष्टुप्
genderपुंmasc.
केतुः कदलिका व्योममण्डनं केतनं तथा ।स्त्री ककुत् ककुदं क्लीबे राजचिह्ने भवेद्द्वयम् ॥
अनुष्टुप्
genderपुंmasc.
केतवो ब्रह्मपुत्राः स्युर्विकचा धूमजाश्च ते ।नक्षत्रमृक्षं भं ज्योतिः सन्ति तारोडुतारकाः ॥ १८८ ॥
अनुष्टुप्
genderपुंmasc.
पताका वैजयन्ती द्वे ध्वजे तद्वसनेऽपि च ।केतुरङ्को ध्वजोऽस्त्री स्यात् केतनं चाथ कूर्चकौ ॥ १३५४ ॥
अनुष्टुप्
genderपुंmasc.
विवस्वान् सप्तगुः केतुः गोषूक्तयङ्गावुपस्तुतः ।अर्चनाना पूतदक्ष एकद्यूश्च महर्षयः ॥ १७७६ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
विद्युच्चण्डा च हंसी च केतुर्नागिन्यलङ्कृऽता ॥ह (?)॥
genderपुंmasc.
इः केतुर्मकराङ्कः सङ्कल्पभवोऽङ्गजश्च रूपास्त्रः ।रणरणको रतिरमणः संसारगुरुर्मनोजन्मा ॥ ३८ ॥
आर्या
genderपुंmasc.
राहुस्तु ग्रहकल्लोलोऽभ्रपिशाचोऽप्यथाऽहिकः ।केतुर्ज्योतिरथस्तु स्याद्ग्रहाधारो ध्रुवश्च सः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
राहुरभ्रपिशाचश्च केतवो विकचाः कृशाः ।धूमजाः शिरिखनो ब्रह्मपुत्राः श्रीमन्त आहिकाः ॥ ३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
प्रज्ञायां ग्रहभेदे च किरणे क्लेदुवाक् पुनः ।भङ्गे चन्द्रे शरीरे च क्षेत्रेऽथौषधिचन्द्रयोः ॥ ३६ ॥
अनुष्टुप्
doubtful
कुन्ती पृथायां शल्लक्यां गुग्गुलौ बाणभेदके ।कृतं स्यादलमर्थे च विहिते युगभेदके ॥हिंसिते त्रिषु च क्लीबे कृत्तन्तु छिन्नचेष्टिते ।स्यात्कृतिः करणे चैव हिंसायामपि च स्त्रियाम् ॥कृत्तिश्चर्मणि भूर्जे च कृतिकायां त्वचि स्त्रियाम् ।केतुः पुंसि पताकारुक्ग्रहोत्पातलक्षणेषु च ॥गर्तोऽवटे त्रिगर्ते च रोगभेदे कुकुन्दरे ।ग्रस्तं लुप्तवर्णपदे क्लीबं ग्रासीकृतेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्nearly अनुष्टुप्: pāda 1, syllable 4 प्त (wrong syllable)
अंशौ च केतुसूक्ष्माग्रा अप्यद्रौ शृंगिभैरवौ ।ःc{इति विषमाक्षराः}
अनुष्टुप्metre not read in every lineimpossible sign sequence: ःc{इति Latin letters: c
meaningsअंशु
केतु as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् केतनक्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके ॥ ११३ ॥ मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे । Amarakośa 3.3.216
- नामलिङ्गानुशासनम् ललामललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु । Amarakośa 3.3.274
- कोषकल्पतरु ध्वजछागे विधाविन्दुमतीधवेऽजो व्रजोऽध्वगोष्ठप्रकरेषु न स्त्री । निजं तु नित्ये त्रिषु तु स्वकीये ध्वजोऽङ्ककेत्वोरपि मेहनेऽस्त्री ॥ २१ ॥ Koṣakalpataru 6.7.21
- कोषकल्पतरु धूधः स्याद्विरिञ्चौ वदने तु बन्धे वान्ते मतौ धीर्धुरपीह केतौ । धूरश्वमातर्यपि चित्रके च धूर्ते तु लिङ्गं भजते परस्य । Koṣakalpataru 6.20.1
- कोषकल्पतरु वासनआदेशलेखाक्षितिपालदत्त- पृथ्वीषु वीरासनकेतुवस्त्रे । स्याद्वासनं ज्ञानसुधूपनार्थं स्कन्धे त्विभस्यासनमन्तिमे तत् ॥ Koṣakalpataru 6.21.44
- कोषकल्पतरु धूमकेतनश्वेतवाहनः शशधरे धनंजये हरिवाहनः [24b] सुरपतौ विवस्वति । दहने च केतुषु च धूमकेतनः शिवकीर्तनो हरिगणे मुरद्विषि ॥ ५९ ॥ Koṣakalpataru 6.21.59
- नानार्थार्णवसंक्षेप कृशतनुनि त्रिः पुमान् केतुग्रहेषु त्रि तु कृष्टवाक् । सामगीतिप्रकाराणां भेदेनैकेन संयुते ॥ २७३ ॥ Nānārthārṇavasaṃkṣepa 2.5.273
- परमानन्दीयनाममाला अहिअहिः सर्पे रवौ वप्रवृत्रयोः केतुपान्थयोः । अद्रिः शैले रवावन्दूर्निगडे भूषणेऽपि च ॥ १२ ॥ Paramānandīyanāmamālā 5.1.12
- शब्दरत्नावली केतनकेतनं गृहकेतौ स्यात्कृत्ये स्थाने निमन्त्रणे । केशी दैत्ये पुमांश्चोरपुष्प्यां स्त्रीतद्वति त्रिषु ॥ Śabdaratnāvalī 7.20.49
- तन्त्राभिधान ळ्ळः पृथ्वी विमला मेघोऽनन्तो हव्यवहः सिता । व्यापिनी शिवदा केतुर्जगत् सारतरं हठः ॥ १६८ ॥ Tantrābhidhāna 2.51.168
- वैजयन्ती केतनकोदण्डं तु चतुर्हस्तं धनुर्वेणुर्धनुर्धरः । केतौ तु केतनं चापे कृत्यार्थोपनिमन्त्रणे ॥ १२ ॥ Vaijayantī 7.3.12