कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

रश्मि

raśmiपुं · masc.

In 18 kośas: 30 synonym verses, 6 as a nānārtha head word, 71 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.100 · p. 8
रोचिरुस्ररुचिशोचिरंशुगो ज्योतिरर्चिरुपधृत्यभीशवः ।प्रग्रहः शुचिमरीचिदीप्तयो धामकेतुघृणिरश्मिपृश्नयः ॥ ९९ ॥पाददीधितिकरद्युतिद्युतो रुग्विरोककिरणत्विषित्विषः ।भाःप्रभावसुगभस्तिभानवो भा मयूखमहसी छविर्विभा ॥ १०० ॥
रथोद्धता
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.33
किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः ।भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.38 · p. 6
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.65 · p. 9
अर्चिः कीला ज्वाला वर्चस्तेजस्त्विषस्तथा ज्योतिः ।हेतिद्युतिदीप्तिरुचः शिखाप्रभारश्मयः समानार्थाः ॥ ६५ ॥
गीतिः
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.442 · p. 51
पर्याणं स्यात्पल्ययनं खलीनं कविकं स्मृतम् ।चर्मदण्डः कशा प्रोक्ता वल्गारश्मिकुशाः स्मृताः ॥ ४४२ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.575 · p. 65
हलं स्याल्लाङ्गलं सीरः फालः कुशिक उच्यते ।योक्त्रं तु रश्मिराबन्धः शम्या च युगकीलकः ॥ ५७५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.64 · p. 350
गुणः पुंसि स्त्रियां रज्जुर्वरत्रा रश्मिरित्यपि ।वातप्रतिच्छदो वाताधारो वातमहापटः ॥ ६४ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.15 · p. 437
अभीशुः किरणोभीषुर्भानुरुस्रश्च दीधितिः ।रश्मिर्मयूख उद्योतः केतुश्चोपधृतिर्वसुः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.9 · p. 461
महत्यर्थे त्वरण्यानी हिमानी यवनान्यपि ।लिप्यां दोषे यवानी स्याद्रज्जौ रश्मिः सुरागृहे ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.204 · p. 484
कलशस्य कटाहस्य रश्मिषष्ट्योरितीहदिक् ।परलिङ्गं स्वप्रधाने द्वन्द्वे तत्पुरुषेऽपि तत् ॥ २०४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.44 · p. 31
कर-किरण-मयूखाभीषु-रश्म्यंशु-गावःशुचि-वसु-घृणि-घृष्णि-प्रग्रहोस्रा गभस्तिः ।उपधृतिरपि रोकः स्यूम-पादौ च पृश्निः*****मरीचिर्दीधितिः स्त्री पदं च [21a] ॥ ४४ ॥
मालिनीmetre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.61 · p. 259
कशा कषा चर्मदण्डरश्मिः स्यादथ वारकः ।भवेद्वल्लभपालाह्वो हयस्कन्धो हयच्छटा ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.35 · p. 98
गृह्या तु शाखानगरेऽथ चुल्ल्यांस्यादन्तिका यब्धिहतौ च कीला ।रज्जौ च रश्मिः स्थिरमस्थिरं वाङ्याबूङ्विरामं कि*शिंशपाद्याः ॥ ३५ ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा
genderस्त्रीfem.
प्राणो नाम वायुः सोऽस्यास्तीति प्राणी तस्याङ्गं प्राण्यङ्ग इकारः अन्ते यस्य तदिदन्तम् । तत्सर्वं स्त्रीलिङ्गं भवति । तद्यथा । इयं कटिः श्रोणिः अङ्गुलिः पङ्क्तिरित्यादि वस्तिकुक्षिपाणीनामपीदन्तत्वाच्च स्त्रीत्वे प्राप्ते बाधः क्रियते । एतान्विमुच्य वर्जयित्वेत्यर्थः । पुंसीत्यधिकारात्तेषां पुंस्त्वमेव भवति । अयं वस्तिः नाभेरधः । अयं कुक्षिरुदरस्थानम् । अयं पाणिर्हस्त इति । जङ्घादयः शब्दाः स्त्रियां भवन्ति । इयं जङ्घा जानुनोरधस्तात् । पादस्योपरिस्था च । इयं शिरा देहधारिणी । इयं स्नुषा पुत्रवधूः ।इयं नासिका गन्धहारिणी । इयं चूडा शिखा । इयं वसा शोणितविकारः स्नेहश्च ।स्रक्स्रुक्स्फिक्त्वग्वाग्योषितो हि विद्यात्स्त्रियां द्युनावौ च ।दीधितिमेकां[का] मुक्त्वा रश्म्यभिधानं तु पुंस्येव ॥ १८ ॥
metre not recognised
genderपुंmasc.
स्रगादयः शब्दाः स्त्रियां भवन्ति । तद्यथा । इयं स्रक् माला । इयं स्रुक् यज्ञोपकरणभाण्डम् । इयं स्फिक् कटिप्रदेशः । इयं त्वक् बहिश्चर्म । इयं वाक् वाणी । इयं योषित् बाला । द्यौश्च नौश्च द्युनावौ च स्त्रियां भवतः इयं द्यौः स्वर्गः । इयं नौः जलतरणिः । हिशब्दः पादपूरणे । दीधितिमेकां वर्ज्जयित्वा रश्मिवाचकाः शब्दाः पर्यायाश्च ये ते पुंसि भवन्ति । तद्यथा इमे रश्मयः प्रग्रहाः किरणाः अंशवः पादाः मयूखाः अभीषवः गभस्तयः घृणय इत्येवमादयः । तुशब्दः पादपूरणे ।मूर्द्ध्नोऽक्षतक्षमज्जश्लेष्मात्माश्मयु[यू]वपूषराजभी रहितम् ।सर्वं द्व्यच्कं नान्तं नपुंसकं पुंसि वा भवेद्ब्रह्मा ॥ १९ ॥
metre not recognised
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 46 · p. 23
दीप्तिर्ज्योतिर्महो धाम रश्मिरूर्जो विभावसुः ।शीतोष्णप्रायपूर्वाञ्चौ तदन्ताविन्दुभास्करौ ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.92 · p. 16
किरणः प्रग्रहो ज्योतिरर्चिर्धाम घृणिः करः ।पृश्निरशिमहःपाददीधितित्विषिदीप्तयः ॥ ९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.9 · p. 212
निधिरश्मिकफा वायुद्रुममानार्थवाचकाः ।देहभृद्विषयाद्याः स्युः सभेदा नरलिङ्गगाः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.39 · p. 215
शाखापुरे स्त्रियां गृह्या दुन्दुभिरक्षबिन्दुषु ।गञ्जा सुराग्रहे रज्जौ रश्मिः कीला रताहतौ ॥ ३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भि (wrong syllable)
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त तेजोभानुः Pañcatattvaprakāśa 4.317 · p. 22
गृणिर्गभस्तिः किरणो दीधितिश्चरणो वसुः ।रश्मिर्मरीचिरुस्रोंऽशुः करो भानुः प्रकाशकः ॥ ३१७ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.71 · p. 9
पादो गभस्तिरुस्रो गौर्ज्योतिर्धामांशुरश्मयः ।अर्चिः पृष्णिर्घृणिस्तेजो भाः प्रभा त्विट् छविर्द्युतिः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.84 · p. 13
रोचिः शोचिश्च रश्मिश्च ज्योतिश्च किरणो शुचिः ।घृणिः पृश्निः मयूखश्च मरीचिर्दीधितिर्द्युतिः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2262 · p. 368
चर्मदण्डः कशा चैव ताडनायास्य जायते ।वल्गो वल्गा कुशा वागा रश्मिस्तथाऽवक्षेपणी ॥ २२६२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.242 · p. 17
रश्मिर्भानुः करोऽभीषुर्महो ज्योतिर्महोऽपि च ।तथा रोचिः शोचित्विषी त्विषा पृश्निरपि स्त्रियाम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 चि (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.301 · p. 243
सन्नाहऽस्य प्रक्षरं प्रखरोऽस्त्री रश्मि-रस्मिके ।रुक् च वल्गा वल्गो वागाऽश्वतरे वेगतः सरः ॥ ३०१ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 व (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.165 · p. 22
वसुपादकराभीशुरश्मिप्रग्रहभानवः ।दीधितिः स्त्री मरीचिः स्त्रीपुंसोस्तासु सहस्रके ॥ १६५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1539 · p. 186
पाशो रश्मिर्गुणो बन्धो वराटः प्रग्रहो वटः ।शुल्बं शुल्बाप्यथ व्याधो मृगयुर्लुब्धकश्च सः ॥ १५३९ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.46 · p. 68
ग्रीवाघण्टा धर्धरा स्याद्रश्मिः प्रवयणं च तत् ।प्रतोदोऽथ खुरो विड्खः पुटो लुण्टनवेल्लने ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.16 · p. 18
घृष्टिपादमयूखांशुसांध्योद्योतगभस्तयः ।किरणोस्रौ च रोचिः क्ली रश्मिरक्ली मरीचिवत् ॥ १६ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
वैजयन्ती Vaijayantī · यादवप्रकाश लिङ्गसङ्ग्रहाध्यायः Vaijayantī 8.9.25 · p. 291
क्वचिद्रश्मिमयूखांशुघृणिघृष्टिगभस्तयः ।सृपाटी त्रिसरा सूर्मिः सुषुम्ना यष्टिरिंगुदी ॥ २५ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.263
किरणप्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास मपादः Dharaṇikośa 24.1.2 · p. 141
भीष्मो भयानके क्षत्रे रश्मिः स्यात्प्रग्रहे घृणौ ।क्रमः शक्तौ परिपाट्यां भौमावङ्गारकाम्बरौ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ मान्ताः Koṣakalpataru 6.25.71 · p. 281
भूमिः स्थितौ स्याद्भुवि चाथ वह्नौवमिः पुमान्स्त्री वमनेऽथ रश्मिः ।पक्षे द्युतौ योषिति रज्जुवाचीजामिः कुलस्त्रीभगिनीगतः स्त्री ॥ ७१ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1095 · p. 136
पुंसि क्वचित् स्त्रियां च स्यात् प्रग्रहे किरणेऽपि च ।ज्वालायामपि च प्राह वैजयन्त्यां द्वयोः पुनः ॥ १०९५ ॥
अनुष्टुप्
doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1986 · p. 241
रतिः क्रीडाकामपत्न्योः रदो दन्तविलेखयोः ।अंशुप्रग्रहयोः रश्मी रणोऽस्त्री युधि ना स्वने ॥ १९८६ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.50 · p. 218
रश्मी ज्वालाप्रग्रहौ च रदो दन्तविलेखयोः ।राजा तु क्षत्रिये चन्द्रे लताभेदे नृपे प्रभौ ॥ ५० ॥
अनुष्टुप्

रश्मि as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् पादपादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः ॥ ८९ ॥ Amarakośa 3.3.89
  • नामलिङ्गानुशासनम् भानुसूर्यवह्नी चित्रभानू भानू रश्मिदिवाकरौ । Amarakośa 3.3.201
  • नामलिङ्गानुशासनम् अभीषुअभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने ॥ २२० ॥ Amarakośa 3.3.220
  • नामलिङ्गानुशासनम् वसुदेवभेदेऽनले रश्मौ वसू रत्ने धने वसु । Amarakośa 3.3.444
  • नामलिङ्गानुशासनम् प्रग्राहतुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च । Amarakośa 3.3.462
  • हलायुधकोशः (अभिधानरत्नमाला) वसुअग्निधनरश्मिरत्नत्रिदशविशेषेषु भवति वसुशब्दः । चेष्टात्मजन्मसत्ताभिप्रायेष्वभिहितो भावः ॥ ८५० ॥ Abhidhānaratnamālā (Halāyudha) 5.850
  • धरणिकोश मरीचिनीचः पृथग्जने निम्ने पिचुः स्यात्तूलकर्षयोः । मरीचिः स्यान्मनौ रश्मौ नमुची दैत्यमन्मथौ ॥ Dharaṇikośa 5.1.2
  • धरणिकोश रुच्त्वक्त्वचाचोचशब्दाः स्युः वल्के चर्मणि पत्रके । रुग्रुचावपि रश्मिः स्याच्छोभाभिलाषयो रुचा ॥ Dharaṇikośa 5.2.1
  • धरणिकोश भानुमीनो मत्स्ये राशिभेदे भानू रश्मिदिवाकरौ । भर्म भृतौ सुवर्णे स्याच्चर्म स्यात्फलकेऽपि च ॥ Dharaṇikośa 19.1.6
  • धरणिकोश ललामन्ललाम कथितं रश्मिप्रधानध्वजवाजिषु । भूषाप्रभावशृङ्गेषु पुण्ड्रवालधिलक्ष्मसु ॥ Dharaṇikośa 19.3.24
  • धरणिकोश उस्रउस्रो रश्मिस्तु गौरुस्रा तन्द्री निद्राप्रमीलयोः । सुरो देवे सुरा मद्ये वध्रं त्रिपुवरत्रयोः ॥ Dharaṇikośa 26.1.7
  • धरणिकोश करअरमङ्गे रथाङ्गस्य शीघ्रं स्याच्छीघ्रगोऽप्यरम् । करो राजप्रदो यः स्याद्रश्मौ हस्ते घनोपले ॥ Dharaṇikośa 26.2.1
  • धरणिकोश अंशुईशः प्रभौ च शम्भौ च राशिर्मेषादिपुञ्जयोः । अंशुर्लेशे च रश्मौ स्यादाशा तृष्णादिशोः स्मृता ॥ Dharaṇikośa 29.1.1
  • धरणिकोश ऋषिविट् च व्याप्तिस्तथा विष्ठा त्विट् च शोभा [102] तथा प्रभा । ऋषिर्वेदे मुनौ रश्मौ शुषिः शोषः शुषिर्बिलम् ॥ Dharaṇikośa 30.1.1
  • धरणिकोश ओजस्ओजो बलमवष्टम्भ ओजो रश्मिप्रकाशयोः । छन्दः पद्ये च वेदे च छन्दश्छन्दानुवर्तनम् ॥ Dharaṇikośa 31.2.7
  • धरणिकोश वसुवसवो देवभेदाः स्यू रश्मौ योक्त्रेऽनले वसुः । कुबेरे वकपुष्पे च वसु रत्नं धनं वसु ॥ Dharaṇikośa 31.3.1
  • कोषकल्पतरु प्रगृह्णातिउपसंभ्यां नमस्कारे प्राद्रश्मौ निगडस्थितौ । शिलतीषत्युञ्छति च सिलत्युध्रासयत्यपि ॥ ३६ ॥ Koṣakalpataru 3.5.36
  • कोषकल्पतरु गोगौरर्वनाकक्रतुभेदरश्मि- दृग्धेनुलोमाशनिनीरभूषु । दिग्बाणवाणीवृषभेषु गस्तु गणेशगन्धर्वकगातृषु स्यात् ॥ ९० ॥ Koṣakalpataru 6.3.90
  • कोषकल्पतरु भानुसानुस्तु न स्त्री शिखरे वने च वातावलावध्वनि पल्लवे च । बुधेऽन्यवद्रश्मिदिवाकरौ तु भानू पुमांसा[12a]वथ भेद्यबद्धौ ॥ ३ ॥ Koṣakalpataru 6.21.3
  • कोषकल्पतरु धामन्रश्मौ शरीरेऽप्यथ साम वेदा- न्तरेऽप्युपायान्तरके च षण्ढे । वर्ष्म प्रमाणे वपुषि प्रदिष्टं स्यात्सुन्दरे चाकृतिवाचकं च ॥ ९२ ॥ Koṣakalpataru 6.21.92
  • कोषकल्पतरु वसुस्कन्धे विभागेऽप्यथ मांसमस्त्री स्यादामिषे स्त्री जटिलार्थकः स्यात् । काकोलिकायामथ पुंसि वह्नि- कुबेरयोक्त्रह्र[88a]दरश्मिदेवे ॥ ८२ ॥ Koṣakalpataru 6.31.82
  • कोषकल्पतरु प्रग्रहना खड्गकोशे कलहोऽपि राटौ युद्धे तथा भण्डनवाचकश्च । स्यात्प्रग्रहोऽश्वादिकरज्जुरश्मि- भुजेषु वन्द्यां नियमे हरिद्रौ ॥ ४५ ॥ Koṣakalpataru 6.32.45
  • नानार्थार्णवसंक्षेप भास्साम्नां द्रष्टृषु चैकेषु नौर्वाक्कालतरिष्वथ । पूर्देहे नगरे बुद्धौ भास्तु रश्मौ रुचावपि ॥ ५६ ॥ Nānārthārṇavasaṃkṣepa 1.1.56
  • नानार्थार्णवसंक्षेप गोनृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु । अश्वानां प्रग्रहेऽप्येष यत्साधारणनामसु ॥ ४ ॥ Nānārthārṇavasaṃkṣepa 1.5.4
  • नानार्थार्णवसंक्षेप स्यूनालोहप्रतिकृतौ तन्त्रधारिण्यामिति षट्स्वपि । रश्मिमेखलयोः स्यूना सृष्टिस्त्यागस्वभावयोः ॥ १२४ ॥ Nānārthārṇavasaṃkṣepa 2.1.124
  • नानार्थार्णवसंक्षेप ष्ठ्यूमषिद्गो वेश्यापतावुक्तो वेश्याचार्येऽपि कैश्चन । ष्ठ्यूमश्चन्द्रे जले रश्मौ तन्तौ मङ्गल इत्यपि ॥ १२४ ॥ Nānārthārṇavasaṃkṣepa 2.2.124
  • नानार्थार्णवसंक्षेप आष्ट्रआष्ट्रं तु रश्मावाकाशेऽप्यागः पापापराधयोः । रहस्ये चोक्थशब्दस्तु सामस्तोत्रेषु च त्रिषु ॥ १२ ॥ Nānārthārṇavasaṃkṣepa 2.3.12
  • नानार्थार्णवसंक्षेप शोचिस्रश्मौ ज्वलति शुद्धत्वेऽप्यथ शौर्यमिति ध्वनिः । लग्नात् तृतीयराशौ च शक्त्याह्वयबले तथा ॥ ६७ ॥ Nānārthārṇavasaṃkṣepa 2.3.67
  • नानार्थार्णवसंक्षेप अण्वीसूक्ष्मेषु त्रिषु तत्रापि स्त्र्यर्थे वाण्वीत्यथाङ्गुलौ । रश्मौ चाण्वी स्त्र्यथानुर्ना प्राणे मर्त्ये तु स द्वयोः ॥ ५६ ॥ Nānārthārṇavasaṃkṣepa 2.5.56
  • नानार्थार्णवसंक्षेप अंशुअंशुः सूत्रादिसूक्ष्मांशेऽप्येकदेशे लतादिनः । चन्द्रे सूर्ये द्युतौ रश्मौ पुमान् केचित्तु मन्वते ॥ ५७ ॥ Nānārthārṇavasaṃkṣepa 2.5.57
  • नानार्थार्णवसंक्षेप कररश्मौ पाणौ महीपस्य भागधेये घनोपले । अजयस्त्वाह मुद्रायां हिंसाविक्षेपयोरपि ॥ १३९ ॥ Nānārthārṇavasaṃkṣepa 2.5.139
  • नानार्थार्णवसंक्षेप केशचूडायां यादवाचार्यो ना तु केशः शिरोरुहे । रश्मौ भगे च क्लीबं तु ह्रीबेरे क्ष्वेडवाक् पुनः ॥ २८१ ॥ Nānārthārṇavasaṃkṣepa 2.5.281
  • नानार्थार्णवसंक्षेप घृणिरश्मौ ज्वाले निदाघेऽह्नि वीच्यां घोणा तु सा स्त्रियाम् । नासिकायां हयप्रोथे जलस्योपरि गत्वरे ॥ ३८९ ॥ Nānārthārṇavasaṃkṣepa 2.5.389
  • नानार्थार्णवसंक्षेप चन्द्रानृशण्डः कनके स्त्री तु चन्द्रार्घ्यायामथ स्त्रियाम् । पूष्णो रश्मिसहस्रस्य शतानि त्रीणि रश्मयः ॥ ३९६ ॥ Nānārthārṇavasaṃkṣepa 2.5.396
  • नानार्थार्णवसंक्षेप धृष्टिरश्मौ धृ(षु?ष्णु)र्ना सन्तापे शैले चोरे तु स त्रिषु । प्रगल्भे वैजयन्त्यां तु धृष्टे चेत्याह ना पुनः ॥ ६५३ ॥ Nānārthārṇavasaṃkṣepa 2.5.653
  • नानार्थार्णवसंक्षेप पपीपपीस्तु सूर्ये रश्मौ च ना हस्तिनि तु स द्वयोः । पटुः पुंसि पटोल्याख्यवल्लीजातौ रसान्तरे ॥ ७३२ ॥ Nānārthārṇavasaṃkṣepa 2.5.732
  • नानार्थार्णवसंक्षेप मण्डमण्डमस्त्री स्त्रियां मण्डी यागुल्यां मण्डने पुनः । नृस्त्री मण्डाऽथ ना रश्मौ क्ली तून्मानान्तरे भवेत् ॥ ९४५ ॥ Nānārthārṇavasaṃkṣepa 2.5.945
  • नानार्थार्णवसंक्षेप मेष्यशते रश्मिषु मे(ध्यो?ष्यो)ऽथ मेनो ना पूर्वपार्थिवे । पृषदश्वाह्वये स्त्री तु मेना नार्यां स्त्रियां पुनः ॥ १०२९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1029
  • नानार्थार्णवसंक्षेप यवायन्त्रणायां तु नाथ स्त्री यवा रश्मिमनीषयोः । भेद्यलिङ्गं तु महति यवोत्पत्त्युचिते पुनः ॥ १०४६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1046
  • नानार्थार्णवसंक्षेप रोकस्त्रीपुंसयोस्तु पांसौ स्यात् त्रसरेण्वष्टकेऽपि च । रोको रश्मौ पुमान् क्ली तु रन्ध्रे रोहित् पुनर्नरि ॥ ११२२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1122
  • नानार्थार्णवसंक्षेप शुक्रात्रि तु मेध्ये सिते चाथ घर्मसर्जनरश्मिषु । शतत्रये स्त्रियः शुक्राः शुक्रस्तु नरलिङ्गकः ॥ १३८३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1383
  • नानार्थार्णवसंक्षेप शुष्णअल्पे स्त्रीपुंसयोस्तु स्याच्छोषणे शुष्णवाक् तु ना । अर्के कश्चित्तु रश्मौ च ब्रूते कुक्षिनिदाघयोः ॥ १३९३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1393
  • नानार्थार्णवसंक्षेप शूद्राशूद्राः स्त्री रश्मिषु क्ली तु रजते शूकवाक् पुनः । अस्त्री धान्यस्य सूक्ष्माग्रे शुङ्गानुक्रोशयोरथ ॥ १४०५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1405
  • नानार्थार्णवसंक्षेप ष्ट्यूमकैश्चिदेवेष्यते नान्यैर्लिङ्गं तस्य पुमान् मतः । चन्द्रे रश्मौ तथा तन्तौ मङ्गले चाथ नब्जले ॥ १४३९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1439
  • नानार्थार्णवसंक्षेप साध्यसमूहभेदे तु पुमान् प्राणिनां साध्यवाक् तु ना । गणदेवप्रभेदेषु रश्मौ च त्रिषु तु स्मृतः ॥ १४९५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1495
  • नानार्थार्णवसंक्षेप स्यूमतन्तौ रश्मौ निशानाथे स्त्री तु दीर्घे स्त्रियां पुनः । सूचिः स्यूतिशलाकायां कवाटस्यार्गलासु च ॥ १५४६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1546
  • नानार्थार्णवसंक्षेप दीधितिदीधितिस्त्वङ्गुलौ रश्माविभीधेन्वोस्तु धेनुका । नालिका तु चतुर्हस्तप्रमाणे युगसंज्ञके ॥ ३७ ॥ Nānārthārṇavasaṃkṣepa 3.1.37
  • नानार्थार्णवसंक्षेप पूतनातेषां तुर्यशते ये स्यू रश्मयः पृतना पुनः । सेनाभेदे च वाहिन्यास्त्रिगुणात्मनि सा तथा ॥ ६० ॥ Nānārthārṇavasaṃkṣepa 3.1.60
  • नानार्थार्णवसंक्षेप किरणनाकौ च कलभे चापि जानीयात् पण्डितो जनः । किरणस्त्वश्वरश्मौ च रश्मौ च कथितो बुधैः ॥ ७२ ॥ Nānārthārṇavasaṃkṣepa 3.2.72
  • नानार्थार्णवसंक्षेप प्रग्रहमाहात्म्ये च प्रग्रहस्तु वन्द्यामारग्वधद्रुमे । तुलासूत्रेऽश्वादिरश्मौ रश्मौ नियमनेऽर्चने ॥ १२५ ॥ Nānārthārṇavasaṃkṣepa 3.2.125
  • नानार्थार्णवसंक्षेप अशिवअग्नौ क्ली रश्मिहविषोरम्बष्ठस्तु द्वयोरयम् । वैश्यायां ब्राह्मणाज्जाते विवाहादपरे पुनः ॥ १३२ ॥ Nānārthārṇavasaṃkṣepa 4.132
  • नानार्थार्णवसंक्षेप गभस्तिरश्मौ गभस्तिर्बाहौ तु ना गणेरुः पुनः स्त्रियाम् । वशायामपि वेश्यायां कर्णिकारे पुनः पुमान् ॥ ६६१ ॥ Nānārthārṇavasaṃkṣepa 4.661
  • परमानन्दीयनाममाला गोरश्मिवह्न्योश्च सत्याक्षिस्वर्गमातृषु भाषितः । गीश्च वाण्यां दिशाब्राह्म्योर्दुर्गायामथ घो घटे ॥ १४ ॥ Paramānandīyanāmamālā 1.14
  • परमानन्दीयनाममाला अंशुअर्कः शक्रे रवौ वृक्षान्तरे स्फटिकताम्रयोः । अंशुर्दिवाकरे रश्मावङ्कश्चिह्नसमीपयोः ॥ ६ ॥ Paramānandīyanāmamālā 5.1.6
  • परमानन्दीयनाममाला करकरो मेघोपले रश्मौ शुण्डायां हस्तिनोऽपि च । हस्तेऽप्यथ कुलं देहे गेहे शातिचये चये ॥ १०४ ॥ Paramānandīyanāmamālā 5.7.104
  • परमानन्दीयनाममाला धिष्ṇयधिष्ण्यं रश्मौ गृहे स्थाने वह्नौ नक्षत्रशुक्रयोः । धात्री क्षोण्यामलक्योश्च धातक्यामुपमातरि ॥ २५४ ॥ Paramānandīyanāmamālā 5.17.254
  • परमानन्दीयनाममाला पादविभक्त्यन्तेऽथ पादस्तु रश्मौ प्रत्यन्तपर्वते । तुर्यांसे तरुमूलेऽथ पद्मो व्यूहेऽहिसंख्ययोः ॥ २८४ ॥ Paramānandīyanāmamālā 5.19.284
  • परमानन्दीयनाममाला रोकरङ्को मल्ले दरिद्रे च रागः संगीतरागयोः । रोकं जले बिले रोको रश्मौ रोचिः स्पृहारुचोः ॥ ३४३ ॥ Paramānandīyanāmamālā 5.22.343
  • शब्दरत्नावली गोगौ पुंसि वृषभे रश्मौ कुलिशे त्रिदिवेऽपि च । स्त्रियां गवीषु दृग्-वाग्-भूदिक्षु वारिणि भूम्नि च ॥ Śabdaratnāvalī 7.3.1
  • शब्दरत्नावली द्युतिदितिः स्त्रियां खण्डने स्यात्तथा च दैत्यमातरि । दीप्तं निर्भासिते दग्धे ज्वलितेऽपि च वाच्यवत् ॥ द्रुतं शीघ्रे विनीते च विम्राणे चाभिधेयवत् । दृतिश्चर्मपुटे मीते द्युतिः स्त्री रश्मिशोभयोः ॥ धातुर्मनःशिलादौ तु श्लेष्मादौ गैरिकेऽपि च ॥ Śabdaratnāvalī 7.16.17
  • शब्दरत्नावली भानुपानं पीतौ भोजने च रक्षणे च नपुंसकम् । भानुर्ना भास्करे रश्मौ भानुमत्यामपि स्त्रियाम् ॥ भिन्नस्तु सङ्गतेऽन्यस्मिन् फुल्ले च दारिते त्रिषु । मानं क्लीबे प्रमाणादौ मानश्चित्तोन्नतौ ग्रहे ॥ Śabdaratnāvalī 7.20.14
  • शब्दरत्नावली धामन्तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
  • शब्दरत्नावली उस्रकरभेऽस्त्री तु कर्कट्यां स्त्री वचाक्षुद्रयोरपि । उस्रो रश्मौ वलीवर्देऽप्युस्राऽर्जुन्युपचित्रयोः ॥ Śabdaratnāvalī 7.27.6
  • शब्दरत्नावली करऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि । ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥ करो रश्मौ च करके शुण्डप्रत्यायपाणिषु । कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥ कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् । कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥ कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी । क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥ कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि । कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥ कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति । क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥ क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च । चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥ क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । खुरः शफे कोलदले तथा छेदनवस्तुनि ॥ क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च । खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥ खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥ Śabdaratnāvalī 7.27.7
  • शब्दरत्नाकर गुणगुणो मौर्व्यामप्रधाने नाम्नि सत्त्वादिशौर्ययोः । शब्दार्थवृत्तिमाल्येषु तन्तुरश्मीन्द्रियेषु च ॥ १९०७ ॥ Śabdaratnākara 4.1.1907
  • शब्दरत्नाकर मरीचिमरीचिर्ना मुनी रश्मिर्वा स्त्री स्त्री मृगतष्णिका । मोहनं सुरते मद्ये महिषी पशुराट्स्त्रियोः ॥ २१४७ ॥ Śabdaratnākara 4.1.2147
  • त्रिकाण्डशेष गोत्रिषु दक्षे विदग्धे च खड्गौ निस्त्रिंशगण्डकौ । स्वर्गे वज्रे च रश्मौ च बलिवर्दे च गौः पुमान् ॥ ५९ ॥ Trikāṇḍaśeṣa 3.3.59
  • वैजयन्ती करओघः परंपरायां स्याज्जलस्रोतसि संचये । करो घनोपले हस्ते प्रत्याये रश्मिशुण्डयोः ॥ १० ॥ Vaijayantī 6.1.10
  • वैजयन्ती ष्ट्यूमष्ट्यूमस्यूमौ जले चन्द्रे तन्तुमंगलरश्मिषु । सम्राजोऽग्नीन्द्रविष्ण्वर्का यश्च स्यान्मण्डलेश्वरः ॥ ६१ ॥ Vaijayantī 6.1.61
  • वैजयन्ती स्यूनागंगेष्टिमूर्वयोः स्नुह्यां लेपभेदेऽमृते सुधा । रश्मिमेखलयोः स्यूना सीता सस्ये हलाध्वनि ॥ ४५ ॥ Vaijayantī 6.2.45
  • वैजयन्ती रोकयोग्यं यन्त्रक्षमापूपयानोपायिषु चन्दने । योग्याभ्यासः क्षमापुण्ये रोको रश्मौ बिले नपुम् ॥ ६७ ॥ Vaijayantī 6.5.67