कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ऋत्विज्

ṛtvijपुं · masc.

In 7 kośas: 7 synonym verses, 14 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.17
अध्वर्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात् ।आग्नीध्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.47 · p. 236
होत्रा स्त्री(?) यजनाचार्य-ऋत्विगृक्षर-याज्ञिकाः ।स्तीर्विर्यजुर्विदध्वर्युरविनः कठयज्युवत् ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.48 · p. 236
अध्वर्योरिदमर्थे स्यादाध्वर्यवमिति त्रिषु ।होता ऋत्विगथोद्गाता भवेत्सामग उक्थशाः ।समग्रवेदविद्ब्रह्मा ब्रह्मत्वं तस्य कर्मणि ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.124 · p. 24
यज्ञत्यागी वृथाजातोऽपञ्चयज्ञो मलिम्लुचः ।याजका भारता यज्ञालिहः कुरव ऋत्विजः ॥ १२४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.34 · p. 113
ऋग्वेदवेदिता होता सिंहकः स्यादथर्ववित् ।ऋत्विक् स्याद्याजकोऽग्नीध्रः धनैर्वार्या इमे त्रयः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1191 · p. 146
स्युर्ब्रह्माध्वर्युरुद्गाता होता चामी महर्त्विजः ।ऋत्विजो याजकाश्चाथ नियमो व्रतमस्त्रियाम् ॥ ११९१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.78 · p. 89
याजका भरता यज्ञलिहः कुरव ऋत्विजः ।यतस्रुचो देवयवो वाघतो वृक्तबर्हिषः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.

ऋत्विज् as a meaning in nānārtha verses