कालपृष्ठ
kālapṛṣṭhaक्ली · neut.In 9 kośas: 8 synonym verses, 4 as a nānārtha head word.
पाञ्चाली द्रौपदी कृष्णा सैरंध्री नित्ययौवना ॥ ७१० ॥वेदिजा याज्ञसेनी च कर्णश्चम्पाधिपोऽङ्गराट् ।राधासुतोऽर्कतनयः कालपृष्ठम् तु तद्धनुः ॥ ७११ ॥
अनुष्टुप्
genderक्लीneut.
धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् ।इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम् ॥ ८३ ॥कपिध्वजस्य गाण्डीवगाण्डिवौ पुन्नपुंसकौ ।
अनुष्टुप्
genderक्लीneut.
कालपृष्ठं जयो धन्वा स्यैषा दुष्टचतुष्टयी ।सुयोधनादिका सौयोधनिर्लक्ष्मण इत्यपि ॥ ३७ ॥
अनुष्टुप्
genderक्लीneut.
कर्णो वैकर्तनोऽङ्गेशो राधेयश्च वृषापि सः ।कानीनोऽप्यस्य चापस्तु कालपृष्ठमुदीरितम् ॥ २४ ॥
अनुष्टुप्
genderक्लीneut.
सैरन्ध्री वेदिजा कृष्णा कर्णः सूर्यसुतोऽङ्गराट् ।चम्पाधिपः सूतपुत्रः कालपृष्ठं तु तद्धनुः ॥ ३४० ॥
अनुष्टुप्
genderक्लीneut.
राधासुताऽर्कतनयः कर्णनामानि सन्ति वै ।पुनस्तस्य धनुर्नाम कालपृष्ठं हि मन्यते ॥ ११५८ ॥
अनुष्टुप्
genderक्लीneut.
अथ कालं कालपृष्ठं भवेत् कर्णस्य कार्मुके ।अर्जुनस्य च गाण्डीव-गाण्डिवौ न स्त्रियां द्वयम् ॥
अनुष्टुप्
genderक्लीneut.
कपिकेतनकोदण्डे गाण्डीवो गाण्डिवश्च वा क्लीबे ।कर्णस्य कालपृष्ठं मिश्रकमनिलात्मसंभवस्य धनुः ॥ १३२८ ॥
गीतिः
genderक्लीneut.
सहारकण्ठे मधुरस्वरे चस्यात्पूतिकाष्ठं सरले सुरद्रौ ।स्यात्कालपृष्ठं रविपुत्रचापेचापेऽपि सारङ्ग उदीरितो ना ॥ ६७ ॥
उपजातिः