कङ्क
kaṅkaपुं · masc.In 13 kośas: 19 synonym verses, 4 as a nānārtha head word, 18 as a meaning of another word.
अजातशत्रुः शल्यारिर्धर्मपुत्रो युधिष्ठिरः ।कङ्कोऽजमीढो भीमस्तु मरुत्पुत्रो वृकोदरः ॥ ७०७ ॥किर्मीरकीचकबकहिडम्बानां निषूदनः ।
अनुष्टुप्
genderपुंmasc.
भृङ्गः कलिङ्गो धूम्याटः कङ्कस्तु कमनच्छदः ॥ १३३३ ॥लोहपृष्ठो दीर्घपादः कर्कटः स्कन्धमल्लकः ।
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
कामायुधो राजपुत्रः कङ्कः कामफलोऽपि च ।आम्रः स्थूलान्महाराजात् कपित्थार्थोऽपि नीलतः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
उपचक्रः श्वभ्रतनुः कृशचञ्चुर्मदान्वितः ।कङ्कोऽथ वायसोऽरिष्टः कांरवो गूढमैथुनः ॥ ९४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्व (wrong syllable)
genderपुंmasc.
दीर्घग्रीवश्च नीलाङ्गो वकस्तु शुक्लवायसः ।वकोटस्तापसः कङ्कस्तीर्थजङ्घो निशान्तकः ॥ ११० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
genderपुंmasc.
अथ स्याच्छ्राद्धदेवार्थो यमः कालोऽन्तको हरिः ।कृतान्तो हर्षणः कङ्को महिषाद्वाहनध्वजः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
मेधाविनी-राजदूती-प्रियवाग्राजसारिकाः ।कङ्कस्तु लोहपृष्ठः स्यात्कंकरः कमनच्छदः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
कार्त्तिकेयोऽथाजमीढो धार्मिर्ब्राह्मणलिङ्गवान् ।* * * * * * * * ऽजातशत्रुर्युधिष्ठिरः ।धर्मपुत्रस्तपः पुत्रः शल्यारिः कङ्क इत्यपि ॥ १३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
बलाका तु बलाकस्त्री प्रोच्यते विसकण्ठिका ।दीर्घपादो लोहपृष्ठः कङ्कः स्यात्कमनच्छदः ॥ २३४ ॥
अनुष्टुप्
genderपुंmasc.
उलूके पेचकः पेचो नीले स्यात्खञ्जरीटकः ।लोहपृष्ठश्च कङ्कश्च दृढे तस्मिन्प्रकीर्तितः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
अजमीढस्तथाऽजातशत्रुर्युधिष्ठिरः पुनः ।धर्मपुत्रश्च शल्यारिः कङ्कश्च कथ्यते किल ॥ ११४८ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र्यु (wrong syllable); pāda 4, syllable 3 श्च (wrong syllable)
genderपुंmasc.
कङ्कः स्याल्लोहपृष्ठश्च कर्कटः कमनच्छदः ॥ २४१९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
समवर्ती शीर्णपादः शमनो भीमनाशनः ।कालोऽन्तकोऽपि यमराट् कङ्को वैवस्वतो हरिः ॥
अनुष्टुप्
genderपुंmasc.
लाडुया इति विख्याते क्वचित् केचित् प्रचक्षते ।दीर्घपादो लोहपृष्ठः कङ्कः स्याद्दीर्घपादपि ॥चासश्चाषः किकीदीविः किकिदिविः किकीदिविः ।स्वर्णचूड इति ख्याते मत्स्यरङ्के च कुत्रचित् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
genderपुंmasc.
युधिष्ठिरो धर्मराजः कङ्को धर्मसुतोऽपि च ।कर्णानुजोऽजातशत्रुरजमीढः शुचिव्रतः ॥
अनुष्टुप्
genderपुंmasc.
तद्भेदाः कर्कटस्कन्धः पर्कटः कमलच्छदः ।दीर्घपाल्लोहपृष्ठश्च कङ्को मेरुण्ड इत्यपि ॥ ८०२ ॥
अनुष्टुप्
genderपुंmasc.
अग्नौ शुचिश्च रेतश्च जूणिर्विधुरितीर्यते ।यमस्तु कङ्को दण्डी च कोणश्चेति निगद्यते ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
भद्रनामा रतनिधिः काष्ठकुट्टः शतच्छदे ।दीर्घपात्रस्तु कङ्कः स्याद्गलगण्डस्तु मर्कटः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
कङ्को युधिष्ठिरे पक्षिभेदे ब्राह्मणलिङ्गिनि ।कोकश्चक्राह्वये ज्येष्ठ्यां पशुवृक्षविशेषयोः ॥
अनुष्टुप्
कविर्मुनौ विधौ शुके हयोपकरणेऽपि च ।लोहपृष्ठे यमे कङ्को द्विजलिङ्गोपजीविनि ॥ ११० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 शु (wrong syllable)
कर्कः श्रेष्ठे घटे कर्के शुक्लाश्वदर्पणाग्निषु ।कङ्कः पक्षिविशेषे स्यात् कृतान्ते कैतवद्विजे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्व (wrong syllable)
कङ्क as a meaning in nānārtha verses
- धरणिकोश कालपृष्ठकालपृष्ठं कर्णधनुः कङ्का[24]ख्यं च खगं विदुः । पूतिकाष्ठं देवदारु विदुः सरलपादपम् । हारिकण्ठः परभृतः कण्ठो हारान्वितोऽपि यः ॥ Dharaṇikośa 11.2.11
- कोषकल्पतरु वारिसूचिमलिम्लुचः स्यान्मलिनेऽपि चौरे- ऽथो वारिसूचिः शिशु[267a]मार उक्तः । कङ्के जलौकःसु झषान्तरे च शृङ्गाटके तद्वदुदाहृता स्त्री । Koṣakalpataru 6.5.14
- कोषकल्पतरु अरिष्टकाककङ्कपिचुमन्दरसोन- फेनिलेषु नरि तद्वदरिष्टः । सूतिकागृहशुभाशुभचिह्ने- ष्वन्तिमे कुशधियः प्रवदन्ति ॥ ३८ ॥ Koṣakalpataru 6.10.38
- कोषकल्पतरु जलाटनवशक्रियायां च विहेठनं तु विडम्बहिंसापरिमर्दनेषु । जलाटनः कङ्कपतत्रिणि स्यात् स्त्रियां जलौकास्वथ कोपनेऽस्त्री ॥ १८ ॥ Koṣakalpataru 6.21.18
- कोषकल्पतरु किंकारुकिंकारुर्ना कङ्कपत्रे च कङ्के शूके भार्यारुः पुनः शैलवृक्षे । स्याद्वातायोर्भेदके योऽन्यनार्यां पुत्रोत्पादी क्रीडया सोऽपि शस्तः ॥ ६७ ॥ Koṣakalpataru 6.27.67
- नानार्थार्णवसंक्षेप कर्कटकण्टकास्ये कीटभेदे ह्यनुवाकस्तु कण्टिका । कर्कटो द्वे कुलीरे स्यात् कङ्कसंज्ञे च पक्षिणि ॥ ३२१ ॥ Nānārthārṇavasaṃkṣepa 4.321
- नानार्थार्णवसंक्षेप पर्कटीपर्कटी तु स्त्रियां प्लक्षे द्वे तु कङ्काख्यपक्षिणि । स्त्री(द्वे?त्वे) तु रभसेनोक्ता पूगादेर्नूतने फले ॥ १०८१ ॥ Nānārthārṇavasaṃkṣepa 4.1081
- नानार्थार्णवसंक्षेप दीर्घपाददीर्घपादो द्वयोः कङ्कसमाख्ये विहगान्तरे । अत्रापि पूर्ववत् सादि दीर्घनादो द्वयोः शुनि ॥ २७९ ॥ Nānārthārṇavasaṃkṣepa 6.279
- नानार्थार्णवसंक्षेप प्रियापत्यप्रियापत्यः कङ्कसंज्ञे शकुनौ सादि पूर्ववत् । प्रियंवदा पुष्पवल्ल्यां मालतीनाम्नि सा स्त्रियाम् ॥ ३८६ ॥ Nānārthārṇavasaṃkṣepa 6.386
- नानार्थार्णवसंक्षेप कमलच्छदकमलच्छदशब्दोऽयं कमलस्यच्छदे पुमान् । द्वे कङ्काख्यखगेऽथो ना नारदे कलहप्रियः ॥ ३८ ॥ Nānārthārṇavasaṃkṣepa 7.38
- परमानन्दीयनाममाला कालपृष्ठकालकण्ठः खञ्जरीटे मयूरे कोकिले तथा । कालपृष्ठः स्मृतः कर्णचापे कङ्के मृगान्तरे ॥ १४१ ॥ Paramānandīyanāmamālā 5.7.141
- परमानन्दीयनाममाला जलसूचिजलौकःकङ्कयोस्त्रौटौ लोके जनपदो मतः । पत्तने विषये मार्गे जर्जरीको जरत्तरे ॥ २०९ ॥ Paramānandīyanāmamālā 5.13.209
- शब्दरत्नावली अरिष्टअरिष्टः फेनिले कङ्के काके लवणनिम्बयोः । अरिष्टमशुभे तक्रे सत्यसूतीगृहे शुभे ॥ Śabdaratnāvalī 7.11.34
- शब्दरत्नावली कालपृष्ठकालपृष्ठं कर्णचापे कङ्कपक्षिणि पुंस्ययम् ॥ Śabdaratnāvalī 7.12.18
- शब्दरत्नावली जलाटनचित्रभानुर्वीतिहोत्रभैरवे भास्करे पुमान् । चोलकी नागरङ्गे ना करीरे किष्कुपर्वणि ॥ जलाटनन्तु कङ्के स्याज्जलौकायां जलाटनी । तपस्विनी जटामांसीरोहिन्योस्तापसु त्रिषु ॥ Śabdaratnāvalī 7.20.109
- शब्दरत्नावली चिरजीविन्धातुवादरते कांश्यकारे कारन्धमी पुमान् । स्वच्छन्दे चटके कामे कामचारी भवेत्पुमान् ॥ इक्ष्यौ वेणौ पोटगले किष्कुपर्वा पुमानयम् । अग्नौ राहौ दुराचारे कृष्णवर्मा निगद्यते ॥ कपिभिद्गन्धकभृङ्गे पुंसि स्याद्गन्धमादनः । पर्वते न स्त्रियामेष सुरायां गन्धमादनी ॥ मार्कण्डेये विधौ कङ्के चिरजीवी भवेत्पुमान् । यमे जाम्बवति क्ष्माभृत्कपिराक्षसभित्सु च ॥ Śabdaratnāvalī 7.20.133
- शब्दरत्नावली किंशारुकान्तारी नेक्षुभेदेऽस्त्री बिलदुर्गाधकानने । किशोरोऽश्वशावके स्यात्तरुणावस्थसूर्ययोः ॥ किर्मीरः कर्वुरे नागरङ्गे च कौणपान्तरे । किंशारुः शस्यशूके ना कङ्कपक्षिणि सायके ॥ कुहरः सर्पभेदेनो क्लीबं गह्वररन्ध्रयोः । कुक्कुरं ग्रन्थिपर्णे स्यात्सारमेये भवेत्पुमान् ॥ कर्पूरः कफोणौ पुंसि जानुन्यपि निगद्यते । कुञ्जरो ना कटे नागे धातक्यां पाटले स्त्रियाम् ॥ Śabdaratnāvalī 7.27.63
- शब्दरत्नावली पात्रटीरपात्रटीरो लोहकांस्ये जरत्पत्रे विभावसौ । पिङ्गाशे वायसे कङ्के युक्तव्यापारमन्त्रिणि ॥ Śabdaratnāvalī 7.27.137