कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कुञ्चित

kuñcitaवि · adj.

In 9 kośas: 8 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.108 · p. 55
कुञ्चितं नतमाविद्धं कुटिले वक्रवेल्लिते ॥ १४५६ ॥वृजिनं भङ्गुरं भुग्नमरालं जिह्ममूर्मिमत् ।
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.71
अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम् ।आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि ॥ ७१ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.282 · p. 280
अस्त्रियां तगरो वक्रो विनम्रः कुञ्चितो नतः ।स्याच्छदो नहुषो दण्डहर्षो हर्षण इत्यपि ॥ २८२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.89 · p. 20
वक्रं तु कुटिलं भुग्नं कुटिलं कुञ्चितं नतम् ।आविद्धाराल-जिह्मोर्मिमद्-वङ्क-वृजिनानि च ॥ ८९ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.694 · p. 117
वर्तुले निस्तु(स्त?)लं खर्वे ह्रस्वन्यङ्नीचवामनाः ।आनते कुञ्चितं जिह्ममूर्मिमद्वृजिनं मतम् ॥ ६९४ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2 · p. 427
आविद्धं वेल्लितं वक्रं कुञ्चितं कुरिलं नतम् ।अरालं भगुरं भुग्नं वृजिनं जिह्नमूर्मिमत् ॥ २ ॥ २६४८ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.26 · p. 165
कुटिले वृजिनं जिह्ममरालं कुञ्चितं नतम् ।आविद्धमूर्मिमद्वक्रं भुग्नं वेल्लितमित्यपि ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.123 · p. 211
परस्परं स्यादन्योऽन्यमितरेतरमित्यपि ।वक्रं वृजिनमाविद्धमूर्मिमत् कुञ्चितं नतम् ॥ १२३ ॥
अनुष्टुप्
genderविadj.

कुञ्चित as a meaning in nānārtha verses